SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ( २४७ ) जीवेऽत्युच्चगते स्वस्य दशमस्थे विवादिनः । त्रिकोणस्थे शनौ मीनलग्ने वादे जयी भवेत् ॥ ८४ ॥ सहादेवीदुर्वामघुपमुषली विष्णुदयिता । सदा भद्रा लक्ष्मी शतमसलतामाअलिकरी । य एतान् भ्रातः स्वे शिरसि कलयेच्छ्रीपरिकरान् । यतो जातस्येदं भूवनमखिलं तिष्टति वशे ॥ ८५ ॥ इत्यभीष्टसिद्धिविधिः॥ इति वीरदशाविधानं नाम एकोनत्रिंशोऽध्याय : । त्रिंशोऽध्यायः। ---000---- ब्रवीमि संकीर्णदशाविधान मतःपरं तत्र च सङ्ग्रहीतम् । दीक्षाप्रतिष्ठा पितृकर्मभूत विषामयानां प्रशमाः क्रमेण ॥१॥ उत्तराणां त्रयं मूलमदितिर्वारुणाश्विनौ । ब्रह्मानुराधा पुंसा च पुंसां दीक्षाविधौ हिताः ॥२॥ चित्रा स्वातिश्च मैत्रश्च प्रव्रज्यायां स्त्रियो हितम् । तत्र दीक्षामु सर्वेषां तत्तद्वारादयः शुभाः ॥ ३ ॥ कन्यातौलिनृयुग्वाः शेषाः स्युरुदयाःशुभाः। अच्छिद्रास्तिथयःशस्ता मन्दांशःसर्वसिद्धिदः ॥ ४ ॥ केन्द्रत्रिकोणेषु शुभाःप्रशस्ताः पापास्त्रिलाभारिगताःशुभाय । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy