________________
(
२४८ )
ग्रहानभिष्टा मरणप्रयाता
व्रतक्षयायास्तगतश्च शुक्रः ॥५॥ यदि भावाश्रितश्चन्द्रो लग्नस्थःशुभदःसदा । चतुर्थे दशमे जीवस्तपस्सिद्धि प्रयच्छति ॥ ६ ॥ धर्मस्थानगतापापा न चिराद् व्रतभङ्गदाः। प्रव्रज्याभिहिता योगाः प्रव्रज्यायां सुशोभनाः ॥७॥ पश्चमस्थश्च माहेयः चन्द्रश्च नवमं गतः । मन्दश्च सहजस्थाने व्रतसिद्धिं प्रयच्छति ॥ ८॥
इतिप्रव्रज्याविधिः।
उत्तराणां त्रयं पुष्यमनुराधा च रोहिणी । वारुणं वसु मित्रति नवव्रतविमुक्तये ॥९॥ तौलिकन्यानृयुग्मीनाः शुभवारांशकादयः । त्रिकोणगौ सितेन्दु च व्रतमुक्तौ शुभावहाः ॥ १० ॥ इतिप्रव्रज्यामुक्तविधिः।
-00-- उत्तरायणगे भानौ मासि कुम्भाविवजिते । यजमानानुकूलझे बलयुक्त निशाकरे ॥ ११ ॥ अस्तशैशववार्द्धक्यमुक्तयोजीवशुक्रयोः। ब्रह्मादितीन्दुतिष्यान्तहस्ताश्चात्युत्तरत्रये ॥ १२ ॥ देवप्रतिष्टा कर्त्तव्या सौम्यवारोदयादिषु । अयुग्मास्तिथयःशस्ताः युग्मामु दशमी तथा ॥ १३ ॥ स्थिरक्षेत्रगतश्चन्द्रः स्थिरराश्युदयःशुभः । उच्चस्थानगतश्चन्द्रो यजमानःशुभावहः ॥ १४॥
Aho ! Shrutgyanam