________________
( २४९ )
मित्रस्थानगतश्चन्द्रो भित्र सौम्यधनावहः ।
नोचराशिगतः सोऽयं दारिं सम्प्रयच्छति ॥ १५ ॥ शत्रुक्षेत्रगतश्चन्द्रः शत्रुष्टद्धिं समावहेत् । अर्केन्दुहुसौरास्तु स्थापने लग्नसंस्थिताः । भ्रातृस्थानगताः सर्व्वे ग्रहास्तुष्टिविरद्धिदाः ॥ १६ ॥ बन्धुस्थानगताः क्रूराः कुर्व्वन्ति सुखनाशनम् । तदेव वर्द्धयिष्यन्ति सौम्याश्चन्द्रविवज्र्जिताः ॥ १७ ॥ सुतस्थानगतास्तीक्ष्णाः पुत्रमृत्युप्रदाः सदा । तत्र स्थिताः शुभाश्चन्द्रवर्ज्याः सर्व्वे सुखप्रदाः ॥ १८ ॥ नाशयन्ति रिपुं क्रूराः शत्रुस्थानसमाश्रिताः । जीवस्तत्र स्थितः कुर्य्याच्छत्रुवृद्धिं विशेषतः ॥ १९ ॥ कुरुतःस्थानविभ्रंशं तत्रस्थौ भृगुचन्द्रजौ । कुर्य्याज्जामित्रगो भानुयजमानविनाशनम् ॥ २० ॥ सौरः सौख्यविनाशाय बुधः पुत्रविनाशकृत् ॥ कुजस्त्वग्निभयं कुर्य्यात् पिशाचव्यसनं भृगुः । जीवेन्दु सप्तमस्थौ तु कुर्ययास्तां धनवर्द्धनम् || २१ ॥ अष्टमस्था ग्रहाः सर्व्वे कुर्वन्ति कुलनाशनम् । धर्मस्थानगताः सौम्याः कुर्युर्धम्र्मविवर्द्धनम् ॥ २२ ॥ पावाश्चन्द्रयुताः कुर्युः सौख्यधर्म्यधनक्षयम् । नभःस्थानगताः क्रूराः कुव्र्वन्ति स्थाननाशनम् ॥ २३ ॥ चन्द्रयुक्ताः सदा सौम्याः पुत्रवित्तसुखप्रदाः । ग्रहाः सर्व्वेऽपि लाभस्थाः कुर्युरारोग्यसम्पदम् ॥ २४ ॥ द्वादशस्थानगाः पापाः शुक्रचन्द्रसमायुताः ।
दारिद्यं सम्प्रयच्छन्ति यजमानाय नियशः । तत्रस्थौ वित्तवृद्धिञ्च कुर्य्यास्तां गुरुचन्द्रजौ ॥ २५ ॥
३२
Aho! Shrutgyanam