SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ( २५० ) ज्येष्ठोत्तरत्रयकरान्त्यचतुर्मुखाश्विकृष्णान्विते शुभतिथि ग्रहवारवर्गे । तिर्य्यङ्मुखोदययुतेष्वथ सम्मुहुर्ते षून्मीलनं नयनयोः प्रतिमासि कुर्य्यात् ॥ २६ ॥ अनेनैव विधानेन गर्भनाशश्च बुद्धिमान् । ऊष्णीषस्थापनञ्चैव वर्णलेपादिकां क्रियाम् ॥ २७ ॥ इतिदेवप्रतिष्ठापनविधिः । 00 विमाणां हितमाधत्ते श्राद्धमेकादशेऽहनि । नृपाणां षोडशे वच्मि विशां विंशे दिने भवेत् ॥ शूद्राणां मासि पूर्णे तु पितृकर्म विधीयते ॥ २८ ॥ अपराह्नः शुभः पापदिनस्य च चरोदयः । श्राद्धस्य नूतनस्यैव विधिरेष विनिश्चितः ॥ २९ ॥ पितरो मित्रयाम्येन्दुहस्ताश्विश्रवणादयः । श्रविष्ठापुष्यचित्राश्च प्रशस्ताः पितृकर्म्मणि ॥ ३० ॥ विशाखा रोहिणी भाग्यपौष्णादियोत्तरत्रयम् । वज्र्जनीया नवश्राद्धे विधातुर्मरणप्रदा ॥ ३१ ॥ विष्कुम्भाद्याः कुयोगाश्च विष्टिश्च गुलिकाः शुभाः । प्रथमैकादशी षष्ठी पौर्णमासी चतुर्दशी । 'तिथित्रयोदशी चैव श्राद्धकर्म्मणि वर्जिता ॥ ३२ ॥ श्राद्धे मन्दार्कयोः पूज्याः द्रेष्काणदिवसादयः । क्षीणेन्दोर्भूसुतस्यापि कैश्चिद्वारादिरिष्यते ॥ ३३ ॥ पापान्तर्गतसौम्यस्य शोभनं दिवसादिकम् । कुलीरमकराजानामुदयाः श्राद्धसम्मताः ॥ ३४ ॥ Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy