________________
--( २५१ )
जन्मराश्युदयो नेष्टः पञ्चमःसप्तमोऽपि च ॥ उर्धवक्रोदयो वयो दृष्टो युक्तोऽपि सद्ग्रहैः ॥ ३५ ॥ विपदपसयोरेव वधे वैनाशिकेऽपि च । चन्द्राष्टमे च कर्त्तव्यं द्वादशाष्टमहोदये ॥ ३६॥ कर्तुस्त्रीजन्मनक्षत्रं दाराणां स्वसुतस्य च । सप्तविंशदिनं कर्तुः श्राद्धकर्मणि वजितम् ॥ ३७॥ केन्द्रविकोणगापापाः सौख्यमित्रधनावहाः। ध्ययारिव्ययरन्ध्रस्थाः ग्रहाःसौम्याः शुभप्रदाः ॥ ३८ ॥ शुक्रस्य दिवसांशाद्यास्तस्य केन्द्रस्तिथि:क्षणम् । कर्तुर्मृत्युं करोयेव नवश्राद्धे विचार्यते ॥ ३९ ॥ एवमेवाष्टकश्राद्धं मासश्राद्धञ्च पैत्रिकम् । चन्द्रसूर्योपरागे वा सङ्क्रमेऽप्ययनेऽथवा ।। व्यतीपातेऽप्यमावास्यां सदा श्राद्धं विधीयते ॥ ४० ॥ त्रयोदश्यामवावस्यां गृही श्राद्धं करोति चेत् । युवैव मृत्युमाप्नोति ज्येष्टपुत्रो विनश्यति ॥ ४१ ॥. मासि प्रोष्टपदे माघे सर्वेषां कृष्णपक्षतः । कर्तव्यमष्टकश्राद्धं गृहस्थानां विशेषतः ॥ ४२ ॥
इतिश्राद्धविधिः।
हर्षेच्छाभयशोकादेविरुद्धा शुचिशोभनात। गुरुदेवादिकोपाच पञ्चोन्मादा भवन्यमी ॥ ४३ ॥ आगन्तुः सन्निपातश्च विदोष इति ते स्मृताः। हर्षणस्फोटनाक्रन्दगीतसङ्गीतरोदनम् ॥ ४४ ॥ १ केन्द्रस्तितीक्षणम् ।
-
Aho! Shrutgyanam