________________
( २५२ )
आस्थानमङ्गविक्षेपस्ताम्रा मृदुकृशा तनुः । जीर्णे बलञ्च बाग्बह्वी वातोन्मादस्य लक्षणम् ॥ तच्चिकित्सायनिष्ठायां विहिताशकुनवैः ॥ ४५ ॥ वरी विदारी खर्जूरी कशेरुः शर्करा मधुः । कृष्णसर्पिपश्च मधुकं वातोन्मादे पिवेदिदम् ॥ ४६ ॥ संरम्भामर्षवैदग्धमभिद्रवणतज्जनम् ।
छाया शीता न तोयेच्छा रोषः पीतोष्णदेहता ॥ ४७ ॥ नारो विविक्तमियता निद्रारोचौ मनाग्वच । लालाच्छर्दिर्वलं भुक्ते नखादिषु च शुक्लताम् ॥ एताः पित्तकफोन्मादे चेष्टास्तव चिकित्सितम् । नागे रुद्रस्य नक्षत्रे मन्दवारे च शस्यते ॥ ४८ ॥ चक्रे तैलं सघूस्तूरमूलचूर्ण भुवि न्यसेत् । सप्तरात्रात लिम्पेदुन्मादशान्तये ॥ ४९ ॥ सम्मिश्रलक्षणं वर्ण्यमुन्मादः सान्निपातिकः । आगन्तुर्बभेदःस्या दष्टादशमहाग्रही ॥ ५० ॥ केशरं कर्णिकारस्य कपिलागोमयाम्बु च । स्तन्येन पाननश्याभ्यामुन्मादं हन्ति तत्पृथक् ॥ ५१ ॥ मधूकयष्टिमृद्वीका कृष्णखज्जूरचन्दनम् । गोजीजलाभ्रस्तन्येक्षुरसाज्यमधुशर्कराः || ५२ ॥ एतैर्नश्यक्रिया कार्य्या नूतने पित्तविभ्रमे । मातृघाती भूततरुर्ग्रहनः सर्व्वथा पृथक् ॥ ५३ ॥ शूनाक्षफलकस्थेन तिलैर्भुक्तैः शकृन्मयैः । कृतं तैलमपस्मारं नाशयेन्नस्यकर्म्मणा ॥ ५४ ॥ पाठापध्यावचाशी, सिन्धुव्योसैः पृथक् फलैः । अजाक्षीराढके पक्वं सर्पिः सर्व्वग्रहापहम् ॥ ५५ ॥
Aho! Shrutgyanam