________________
( २५३ )
वृश्चिकालीकणाकुष्टलवणानि च भार्गिका । अपस्मारविनाशाय तच्चूर्ण नसि योजयेत् ॥ ५६ ॥ सर्वोन्मादविनाशेषु सर्व्वग्रहविधिष्वपि । रुद्रभञ्च चतुष्पादो मन्दाभं वृश्चिकोदयः ॥ ५७ ॥ मले द्वयं क्रमाद्विष्णु विपूर्व्व वह्निसुन्दरी । कर्णे जपाद्ग्रहं हन्याद्भूतेशध्यानतोऽथवा ॥ ५८ ॥ हृदयश्च चतुर्थ्यन्तो भगवान् रुद्र इसपि । शत्रुन्ते महिरप्यस्माद्वैरवो देव इसपि । समस्तोऽयं चतुर्थ्यन्ते पदान्येतानि योजयेत् ॥ ५९ ॥ ग्रहान् नर्त्तय मोटय वल्गय क्रीडय उग्रचण्ड हुंफट्ठठ । एषभूतपिशाचादौ सर्व्वकर्मकरो मनुः । अस्य स्मरणमात्रेण प्रलीयन्ते ग्रहादयः ॥ ६० ॥
इतिगृहध्वंसविधिः ।
कृत्तिकाभरणी स्वातिर्मुलं पूर्व्वत्रयाश्विनी । विशाखार्द्रामघाश्लेषा चित्रा श्रवणरोहिणी ॥ ६१ ॥ तारास्तास्सर्पदष्टस्य दुष्टा मन्दकुजौ तथा ।
पञ्चमी चाष्टमी षष्टी रिक्ता दष्टस्य निन्दिता ॥ ६२ ॥ तस्यातिनिन्दिता कृष्णे पञ्चमी च चतुर्दशी । सन्ध्याचतुष्टयं दुष्टं दग्धयोगाश्च राशयः ॥ ६३॥ देवालये शून्यगृहे वल्मीकोद्यानकोटरे । रथयां सन्धौ चैसतरौ श्मशाने सिन्धुसङ्गमे ॥ ६४ ॥ द्वीपे चतुष्पथे सौधे गहने वेत्रपद्मयोः । पर्व्वताग्रे विलद्वारे जीर्णकूपाश्मकूटयोः ॥ ६५ ॥
Aho! Shrutgyanam