________________
( २५४ ) शीग्रुश्लेष्मातकालेषु जम्बू दुम्बरवेणुषु । वटेषु जीर्णप्राकारे दंशःसर्पस्य निन्दितः ॥ ६६ ॥ इन्द्रियाण्योष्टहृवकक्षस्तनभ्रूमध्यकुक्षयः । तालु शङ्खो गलं मूर्दा चुबुकं नाभिमस्तकम् ॥ ६७ ॥ हो पादमध्यं स्कन्धश्च सर्पदंशस्तु निन्दितः । पुष्पादिहस्तःशुभवाक् धीरःशुल्काम्बरोऽमलः ॥ ६८।। लिङ्गवर्णसमानश्च हष्टो दूतःशुभो मतः । अपहारगतःसस्त्री. प्रमादीभू*गतेक्षणः ॥ ६९ ॥ विवर्णवासाः पाशादिहस्तो गद्गदतूर्णवाक् । शुष्ककाष्टाश्रितःखिन्नस्तैलोक्तस्कन्धरांशुकः ॥ ७० ॥ आद्रवासा कृष्णरक्तपुष्पो मुक्तशिरोरुहः। कुचमर्दी नखच्छेदी गुदस्पृक् पादलेखकः ॥ ७१॥ केशलुञ्छी तृणादिच्छेद्बटुर्व्यङ्गःखरादिशः । सद्वितीयोरुदं मुण्डी दुष्टा दूताःस्युरीदृशाः ॥ ७२ ॥ दिशादिषु स्थितो दूतो वन्यादीन् सूचयेदहीन् । दूतःस्थितश्चेद्वामेऽङ्घौ दक्षिणे वा द्वयोरतः ॥ ७३ ॥ इसन्यावावेहद् दिग्वा यदि दुतस्य वात्मनः । अहान् वाह्यान् पृथक् सान् विद्यात् स्त्रीपुंनपुंसकान ७४ दुतःस्पृशति यद्गात्रं तस्मिन् दंशमुदाहरेत् । नभो गीतद्विषं वादेन्नविषवेति निर्दिशेत् ॥ ७५ ॥ दूतकाले यतो जीवः पर्चे दंशस्ततोऽन्यतः । अग्रे दुतस्य वामाझी शुभोऽन्यस्थादृशोऽन्यथा ॥ ७६॥ दूताविचलनं दुष्टं तस्थितिनिश्चला शुभा । जीवपाः शुभो दूतो दुष्टोऽन्यत्र समागतः ॥ ७७ ॥
* ततेक्षणः।
Aho ! Shrutgyanam