________________
( २५५ ) दूतस्य वाक्यं दष्टाख्या पूर्वमाहुविनिन्दितम् । त्रिभक्तस्तस्य वाक्याविषणिविषकालता ॥ ७८ ॥ आद्यैःस्वरश्चकांद्यश्च वर्गभिन्नालिपिर्विधा । स्वरो जीवस्तनुर्वर्ग इतिज्ञेया च मात्रका ॥ ७९ ॥ चाताग्नीन्द्रजलात्मनो वर्गेष्वर्णाश्चतुष्टयाः। नपुंसकाःपञ्चमा स्युः स्वराःशकाम्बुयोनयः ॥ ८॥ दुष्टो दृतस्य वाक्यादौ वाताग्निमध्यमो हरिः। प्रशस्ता वारुणा वर्णा श्रुतिदुष्टा नपुसंकाः ॥ ८१ ॥ जीवकाच्योदयौ श्रेष्ठौ स्वक्षेत्रेषु तदोदयौ। शुक्रगु/वि|दृष्टिर्दूतकाले शुभा मता। मुक्ता मन्दग्रहाः सर्वे गच्छन्तोऽस्तं न शोभनाः ॥ ८२ ॥ ग्रहामयचिकित्सानां प्रश्नेप्वपि विचक्षणः। परीक्ष्य विधिनानेन सिद्धौषध्यां प्रवर्त्तते ॥ ८३ ॥ धातोर्धात्वन्तरापंत्तिर्विषवेग इतिस्मृतः। दशे स्थित्वा त्रिपञ्चाशन्मात्राः संवर्द्धते विषम् ॥ ८४ ॥ विषं दंशाल्ललाटं यासतो नेत्रे ततो मुखम् । आस्याञ्चधमनीम्नाभ्यो धातून व्याप्नोति हि क्रमात् ॥८॥ वेगो रोमाञ्चमाद्यो रचयति विषजस्वेदवतोपशोषौ तस्योर्ध्वस्तसरौडौ वपुषि जनयतो वर्णभेदप्रवेपौ । यो वेगःपञ्चमोऽसौ नयनविवसतां कण्ठभङ्गञ्च हि कां षष्टो निश्वासमोहौ वितरति च मृति सप्तमो दष्टकस्य ॥८६॥ यस्याङ्गानां जलत्वं श्ववथुरवयवोद्वेगदाही प्रलाभो विभेद केशलुच्छः मुकरमरुणतापाङ्गयोद्घन्तिरक्ष्णोः । कृष्णाश्रक्कम्पशूलौ हृदि च विघटनादन्तदन्तच्छदानां
१ वाक्यणे।
Aho! Shrutgyanam