________________
( २४५ )
६४ ॥
होरा गुरुमती लाभे पापसंघसमाश्रिते । इन्द्रारज्ञसमायुक्ते यातुः सर्व्वार्थसिद्धिदा ॥ ६१ ॥ लग्नार्थगेषु सौम्येषु दशमे रविसंयुते । गमनं विजयारोग्यमर्थसिद्धिं प्रदास्यति ॥ ६२ ॥ त्रिकोणकेन्द्राश्रित सर्व्वसौम्यास्तृतीयषष्टायगताश्च पापाः । फलन्ति यातुः शुभमिन्दुरेको लग्नाच्चतुर्थङ्गतवांश्च तद्वत् ॥ ६३ ॥ यदा कलत्रगश्चेन्दुः शुक्रज्ञौ गृहमागतौ । गन्तव्यमपि चारेण तदा सव्र्व्वार्थसिद्धये ॥ पञ्चम्यां शुक्लपक्षस्य स्वातौ गुरुदिनोदये । क्रयविक्रययात्रायां योगोऽयं परमो मतः ॥ ६५ ॥ मित्रर्क्षेण प्रयातस्य शक्रे पर्युषितस्य च पुनर्मूले प्रयातस्य कार्य्यसिद्धिर्भविष्यति ॥ ६६ ॥ हुस्तेन गत्वा प्रथममपर्युष्य द्वये ततः । पुनश्चतुर्थे सम्प्राप्तः शत्रुवर्ग स बाधयेत् ॥ ६७ ॥ स्थित्वैकं दिवसं तिष्ये रेवत्यां वाथ वासवे । सीनि भूयः प्रविष्टोऽन्तर्बहुलाभमवाप्नुयात् ॥ ६८ ॥ इति यात्रायोगः ।
गुरावत्युच्च गे लग्ने लाभे शुक्रसमागते । शकाणे संदृष्टो राजावश्यं वशी भवेत् ॥ ६९ ॥ चरे वर्गोत्तमे भागे तत्स्थयोः सोमजीवयोः । सदृष्टश्चन्द्रहारायां राजावश्यं वशी भवेत् ॥ ७० ॥ भोमवारे बुधक्षेत्रे दृकाणे वसुधाभुवः । मन्दे व्ययगते युद्धं कुर्व्वाणो लभते जयम् ॥ ७१ ॥
Aho! Shrutgyanam