________________
( २४४ सपायसश्चैव गुड़ सितोत्थं मुगानकश्च प्रथमाउनुक्रमात् । अभ्यक्ष्यसस्पर्शमलभ्यकानां स्मृतिश्च सिद्धिं गमने ददाति ॥५०॥
इति यात्राभक्ष्याविधिः।
---:0:0:0:---- नृपाणां गमनं योगैर्भगनैश्च द्विजन्मनाम् । शकुनैश्चरचोराणां शेषाणां क्षणवीर्य्यकैः ॥ ५१ ॥ यथावत्तिथिनक्षत्रवारराशिग्रहोदया। गमने दुर्लभास्तस्माद्योगान् बक्ष्याम्यहं लघु ॥ ५२॥ होरा कुटुम्बसहजस्थानेषु क्रमशो गताः ।
शुक्रगुर्विन्दवः शत्रुविनाशायार्थसिद्धये ॥ ५३ ॥ सपापके भ्रातरि सेन्दुसप्तमे सितज्ञयुक्ते हिबुके च निर्गतः । सजीवलग्ने विनिहन्ति शत्रून शुभोदये नात्मगृहं प्रतीयात्॥५४॥
स्वलाभगेषु शेषेषु जीवे लग्नगते गतः। अर्थलाभमरेनाशमारोग्यं लभते नरः ॥ ५५॥ अनष्टमगते चन्द्रे षष्टे चण्डाशुसंश्रिते । वृहस्पत्युदये यायाच्छत्रुजिल्लभते धनम् ॥ ५६ ॥ गुरुशुक्रार्कसौम्येषु लग्नायेषु चतुर्वपि । कुजमन्दयुते षष्टे चन्द्रे च दशमं गते । यात्रा सुफलदा निसं शत्रुनाशकरी सदा ॥ ५७ ॥ शुक्रवर्जितजामित्रे लग्ने गुरुयुते गतः। त्रिषड़ेकादशस्थेषु मन्दारार्केष्वभिष्टदा ।। ५८ ॥ लग्नयुक्ते गुरौ यायाज्जामित्र शशिनि स्थिते । शुभेषु च धनस्थेषु धनवाहादिलाभमाक् ॥ ५९ ॥ होरा शुभप्रदा याते सधैःसंसेविताःशुभैः । अशुभारुढदुश्चिक्या निधने चन्द्रवर्जिताः ॥६० ॥
Aho ! Shrutgyanam