Book Title: Daivagna Kamdhenu
Author(s): C A Seelakkhanda
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 293
________________ आचार्य्यस्य सकाशाद् ग्रन्धतश्चार्थतश्च जानाति स वै संहितापारगो भवति । तदा तेन दिनकरादीनां ग्रहाणां चारप्रकृतिविकृतिप्रमाणवर्णकिरणद्युति संस्थानास्तमयोदयमार्गमार्गान्तरवक्रानुवकसंग्रहसमागमादिभिः . फलानि सूचयितुं शक्यन्ते । ततो राजमहामात्यादिभिः प्रभुजनैरपि समानितः पूजितश्च भवति देवचिन्तकः । तथोक्तं गर्गेण महर्षिणा, । "कृत्स्नाङ्गोपाङ्गकुशलं होरागणितनैष्टिकम् । यो न पूजयते राजा स नाशमुपगच्छति ॥ वनं समाश्रिता येऽपि निर्ममा निष्परिग्रहाः । अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदम् ॥ अप्रदीपा यथा रात्रिरनादित्यं यथा नभः । तथा सांवत्सरो राजा भमत्यन्धइवाध्वनि ॥ मुहूर्त तिथिनक्षत्रमतवश्चायने तथा । साण्येवाकुल नि स्युर्न स्यात् सांवत्सरो याद ॥ तस्माद्राज्ञाभिगन्तव्यो विद्वान् सांवत्सरोऽग्रणीः । जयं यशः श्रियं भोगान् श्रेयश्च समभीप्सता ॥ नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता । चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते ॥ न सांवत्मरपाठी च नरकेषूपपद्यते । ब्रह्मलोकप्रतिष्ठाञ्च लभते देवचिन्तकः ॥ प्रन्थतश्चार्थतश्चैतत् कृस्स्नं जानाति यो द्विजः । अग्रभुक् स भवेच्छ्राद्धे पूजितःपङ्क्तिपावनः । म्लेच्छ। हि यवनास्तेषु सम्यक शास्त्रमिदं स्थितम् । ऋषिवत्तेऽपि पूज्यन्ते किं पुनर्दैवविहिनः ॥ ३५ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318