Book Title: Daivagna Kamdhenu
Author(s): C A Seelakkhanda
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 291
________________ भूमिका । विज्ञप्तिः ॥ दिनपतिकुलकमलेन श्रीशक्यमुनि प्रणम्य भक्त्यादी। सद्धर्मसङ्घ-सहितं गुरुञ्च सार्थसिद्धिकरम् ॥ १ ॥ ज्योतिःशास्त्राभिर्मुनिभिर्दिनकरवशिष्ठपूर्वैर्यत् । विहितं दैविकशास्त्रं सारांशांस्तस्य चाहत्य ॥ २ ॥ श्रीमान् नवमदशी पण्डितवृन्दैनिसेवितो धीमान् । दैवज्ञकामधेनुं विदधौ लोकार्थसंसिद्ध्यै ॥ ३ ॥ प्राग्बज्योतिर्विद्भिः सम्भावितमपि समादरं बहुधा । कालात्ययेन विविधैर्दोषैस्तत् समभिकीर्णमभूत् ॥ ४ ॥ तत् संस्क्रियतेऽन मया ग्रन्थान्तराणि विलोक्य यथामति । बहुधा प्रन्थाकाभात् स्खलितानि भवन्ति यानि यदि ॥ ५ ॥ स्वधिया तानि समीक्ष्य कोकार्थरता विशुद्धधीमन्तः । करुणाकठोरचित्ताः स्खलितानि च शोधयन्त्वार्याः ॥ ६ ॥ एतत् खलु ज्योतिःशास्त्र प्रहनक्षत्रादीनां गतिस्वरूपादिनिर्णायकं शिक्षाकरपव्याकरणनिरुक्तच्छन्दज्योतिषादिषुः षट्सु वेदाङ्गेष्वेवान्तर्भूतं होरागणितसंहिताकेरकीशकुनवशात् पञ्चधाऽपि भिन्नं सकलानां कोकानां शुभाशुभफलप्रदर्शने परमोत्कर्षभूतम् । तद्विषयानां सर्वेषां होरामन्थानाम् उज्जयिनीपुरवासिना श्रीमता वराहमिहिराचार्येण कृतानि वृहज्जातक वृहत्संहिताकघुजातकादीनि पुस्तकानि च नारदेन मुनिना प्रणीता नारदसंहिता च श्रीमता कालिदासनामकेन कृतं ज्योतिर्विदाभरणञ्च भारत Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318