Book Title: Daivagna Kamdhenu
Author(s): C A Seelakkhanda
Publisher: Chaukhamba Sanskrit Series Office
________________
[ २ ]
वर्षीयैर्बहुभिज्योतिर्विद्भिः पण्डितैः प्रायः सव्र्वोत्कर्षतया सादरं परिगण्यन्ते तथा लाङ्किकैर्दैवविद्भिश्च ॥ ज्योतिर्विदाभरणन्तु श्रीमता कालिदासेन महाकविवरेण कृतमिति केचिद् वदन्ति ।
अस्मिंस्तु ज्योतिःशास्त्रे पौलिशो रोमको वाशिष्ठः सौरः पैतामहश्चेति आदिमाः परमोत्कृष्टाः पञ्च सिद्धान्ता भवन्ति । पुरा किल सूर्य्यीरुणसंवादानुसारेण गंगादिषु मुनिषु एतच्छास्त्रविषयकं यज्ज्ञानं पुलिशेन महर्षिणा समुत्पादितं स पौलिशः सिद्धान्तो नाम । यद्वसिष्ठेन महर्षिणा स्वपुत्राय पराशराय दत्तं स वासिष्ठः सिद्धान्तो नाम । यत्तु सूर्येण मयाय दैत्याय प्रकाशितं स सौर: सिद्धान्तो नाम । यच्च ब्रह्मणा स्वपुत्राय वशिष्ठाय दत्तं स पैतामहः सिद्धान्तो नाम जातः । तथाचोक्तमरुणम्प्रति सूर्येण ;- "पैता - महञ्च सौरञ्च वासिष्ठं पौलिशं तथा । रोमकचेति गणितं पञ्चकं परमाद्भुतमिति । अतः पश्चात्तचत्कालिकैरन्यैः पण्डितैरपि कृतास्तनामका नवीनाः सिद्धान्ता अपि सन्ति । साम्प्रतं भारतवर्षे ऋषिप्रणीतानामेत्र परमाद्भुतानां सिद्धान्तानां प्रमाणं कुर्व्वन्ति नापरेषाम् ! तथापि वराहमिहिराचार्य्यकृतायां पञ्चसिद्धान्तिकायान्तु, – “पञ्चभ्यो द्वावाद्यौ व्याख्याती काटदेवेने " ति वचनाल्लाटाचाय्र्येणाऽपि पौलिशरोमको द्वौ सिद्धान्तादेव स्वकृते सिद्धान्ते व्याख्यातौ तयोर्भगणादिषु बीजं दत्वा विस्तारितावेत्युक्तम् । अत्रेदमुच्यते लाटाचाय्र्येण पैौकिशरोमको द्वै सिद्धान्ती स्वीकृत्य तयोबीजादिविशेषं विधाय कृतोऽन्यः सिद्धान्तोऽपि स्यात् । अत एव ममेदं करणं सर्व्वजनस्वीकृतं भवेदिति मत्वा पञ्चाना सिद्धान्तानां मतान्यवलम्ब्य वराहमिहिराचार्येण पञ्चसिद्धान्तिका रचितेतिभावः । तत्र काळनियमादयः श्रीसुधाकरद्विजन्मना कृतायां पब्चसिद्धान्तिक प्रकाशिकायामुक्तानुसारेणाक्मन्तव्याः ॥
यतस्तु यः कश्चित् दैवचिन्तको होरागणितादिकमेतत् कृत्स्नम्
Aho! Shrutgyanam
Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318