________________
आचार्य्यस्य सकाशाद् ग्रन्धतश्चार्थतश्च जानाति स वै संहितापारगो भवति । तदा तेन दिनकरादीनां ग्रहाणां चारप्रकृतिविकृतिप्रमाणवर्णकिरणद्युति संस्थानास्तमयोदयमार्गमार्गान्तरवक्रानुवकसंग्रहसमागमादिभिः . फलानि सूचयितुं शक्यन्ते । ततो राजमहामात्यादिभिः प्रभुजनैरपि समानितः पूजितश्च भवति देवचिन्तकः । तथोक्तं गर्गेण महर्षिणा, ।
"कृत्स्नाङ्गोपाङ्गकुशलं होरागणितनैष्टिकम् । यो न पूजयते राजा स नाशमुपगच्छति ॥ वनं समाश्रिता येऽपि निर्ममा निष्परिग्रहाः । अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदम् ॥ अप्रदीपा यथा रात्रिरनादित्यं यथा नभः । तथा सांवत्सरो राजा भमत्यन्धइवाध्वनि ॥ मुहूर्त तिथिनक्षत्रमतवश्चायने तथा । साण्येवाकुल नि स्युर्न स्यात् सांवत्सरो याद ॥ तस्माद्राज्ञाभिगन्तव्यो विद्वान् सांवत्सरोऽग्रणीः । जयं यशः श्रियं भोगान् श्रेयश्च समभीप्सता ॥ नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता । चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते ॥ न सांवत्मरपाठी च नरकेषूपपद्यते । ब्रह्मलोकप्रतिष्ठाञ्च लभते देवचिन्तकः ॥ प्रन्थतश्चार्थतश्चैतत् कृस्स्नं जानाति यो द्विजः । अग्रभुक् स भवेच्छ्राद्धे पूजितःपङ्क्तिपावनः । म्लेच्छ। हि यवनास्तेषु सम्यक शास्त्रमिदं स्थितम् । ऋषिवत्तेऽपि पूज्यन्ते किं पुनर्दैवविहिनः ॥ ३५
Aho ! Shrutgyanam