SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ [४] कुहकावेशपिहितेः कर्णोपश्रुतिहेतुभिः । कृतादेशो न सर्वत्र प्रष्ठव्यो न स देववित् ॥ अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रपद्यते । स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः ॥ नक्षत्रसूचकोद्दिष्टमुपहासं करोति यः ।। स वूजत्यन्धतामिसू साईमृक्षविडम्बिना ॥ नगरद्वारलोष्टस्य यद्वत् स्यादुपयाचितम् । आदेशस्तत्वदज्ञानां यःसत्यः स विभाव्यते ॥ सम्पत्त्या योजितादेशस्तद्विच्छिन्नकथाप्रियः । मत्तः शास्त्रैकदेशेन त्याज्यस्तादृग्महीक्षिता ॥ यस्तु सम्यग्विजानाति होरागणितसंहिताः । अभ्यर्य: स नरेन्द्रेण स्वीकर्तव्यो जयैषिणा ॥ न तत् सहसूं करिणां वाजिनां वा चतुर्गुणम् । करोति देशकालज्ञो यदेको देवचिन्तकः ॥ दुःस्वप्नदुर्विचिन्तितदुःप्रेक्षितदुष्कृतानि कर्माणि । क्षिप्रं प्रयान्ति नाशं शशिनः श्रुत्वा भसंवादम् ॥ तथेच्छति भूपतेः पिता जननी वा स्वजनोऽथवा सुहृत् । वयशोऽभिवृद्धये यथा हितमाप्तः सबलस्य दैववित् ॥" इत्थमस्मिन् ज्योतिःशास्त्रे कथङ्कारं स्वल्पेन समयेन अनायासेन नैपुण्यसाधनाय अल्पमतिर्मानवः समुद्योगं कुर्यात् । तथोक्तमार्यविष्णुगुप्तेन । अयणवस्य पुरुषः प्रतरन् कदाचि दासादयेदनिलवेगवशेन पारम् । नत्वस्य कालपुरुषाख्यमहार्णवस्य गच्छेत् कदाचिदनृषिर्मनसापि पारम् ॥ Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy