SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ [ ५ ] अत एव शुचिना दक्षेण प्रगल्भेन वाग्मिना प्रतिभानवता देशकालविदा सात्त्विकेन न पर्षद्भीरुणा सहाध्यायिभिरनभिभवनीयेन कुशलेनाऽव्यसनिना शान्तिपौष्टिकाभिचारस्नानविद्याभिज्ञेन विबुधार्चनव्रतोपवास निरतेन स्वतन्त्राश्चर्योत्पादितज्ञानप्रभावन अभिजातेन प्रियदर्शनेन विनीतवेशेन सत्यवचनेनाऽनसूयकेन समेन सुसंहतोपचितगात्रसन्धिनाऽविकलेन चारुकरचरणनखनयनचिबुकदशनश्रवणललाटभ्रूत्तमाङ्गेन वपुष्मता गम्भीरोदात्तघोषेण येन केनचिन्मानवेन अस्मिन्ज्योतिःशास्त्रे उद्ग्रहणधारणाय समुद्योगं करणीयमेवेति सूचितम् ॥ इयं खलु दैवज्ञकामधेनु म आब्रह्मादिविनिःसृते वेदाङ्गभूते निरतिशये ज्योतिषागमे नानानयविभागपरिकल्पनाभिजिज्ञासूनां सकलानां देवचिन्तकानां रत्नमुकुरसन्निभा स्यात् । सेऽयं निखिला भीष्टार्थप्रदायिनी सुरभिकेव ज्योतिःशास्त्राभिजिज्ञासूनाम् । तस्यास्तत्तत् सदुपदेशावबोधकरणन्तु दैवज्ञकामधेनुरिति स्वनाम्नैव याथार्थ्यात् सम्यक् प्रतीयते मनस्विनाम् । अस्यास्तु दैवज्ञकामधेनोर्निर्माता भूसुरवंशककेतुः पूज्यपादःसर्वविद्याकलासु पारदर्शी पण्डितशिरोमणीभूतः श्रीमान् अनवमदी नाम स्थविरवरः अतस्त्वेकपष्टयुत्तरषट्शतसंवत्सरादुपरि त्रिषष्टयधिके एकादशशतपरिमते शाकेऽब्दे लङ्कायां नेकराज्यश्रीविभूतिसमुदयसमुल्लसिते सकलशत्रुकुञ्जरदर्प. निहतकेशरिविक्रमे विदितसमयान्तरे विज्ञातविद्यानिचये धन्यपुण्यलक्षणोपशोभिते कलिकालसाहित्यसर्वज्ञपण्डितपराक्रमबाही नाम नृपवरे राज्यमनुशासति तस्यैव राज्ञो यथोचितविधिनियोगात तत् साहाय्येन दक्षिणलकाधरणेः परिरक्षितेन रत्नत्रयातिप्रसन्नेन परिशुद्धाशयेन प्रतिराजदेवनामकेन पण्डितेन महामन्त्रिणा प्रतिसंस्कृते प्रासादनिकरसमलते निर्मलशीतलाम्बुपरिपूर्णपुष्करणीमनोहरे विविधयतिगणनिसेविते उत्तुङ्गायातधवकवर्णप्राकारपरिक्षिप्ते प्रियदर्शने विश्रुते हस्तवनगल्यनामके महाविहारे चिरमुवास ॥ Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy