Book Title: Chaturvinshati Prabandh Author(s): Rajshekharsuri Publisher: Hemchandracharya Sabha View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रबन्धः ॥२॥ एतच्छ्रवणमात्रत एव प्रतिवुद्धौ गृहं गत्वा तौ मन्त्रयेते स्म-"जन्म कथं वृथा नीयते ? तावद्भोगसामग्री नास्ति, तर्हि योगः साध्यते। अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः पृष्टे लीलावलयरणितं चामरग्राहिणीनाम् । यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥१॥" इति विमृश्य द्वावपि बान्धवौ प्रवव्रजतुः । भद्रबाहुश्चतुर्दशपूर्वी षट्त्रिंशद्गुणसम्पूर्णः सूरिरासीत् । दर्शवकालिक-उतराध्ययन-दशाश्रुतस्कन्धकल्प- व्यवहार- आवश्यक- सूर्यप्रज्ञप्ति -सूत्रकृत-आचाराङ्ग -ऋषिभाषिताख्यग्रन्थदशकप्रतिबद्धदशनियुक्तिकारतया प्रपथे, भद्रबाहवीं नाम संहितां च व्यरचयत् । तदा आर्यसंभूतिविजयोऽपि चतुर्दशपूर्वी वर्तते । श्रीयशोभद्रसूरीणां स्वर्गगमनं जातम् । भद्रबाहुसंभूतिविजयौ स्नेहपरौ परस्परं भव्याम्भोरुहभास्करी विहरतो भरते पृथक् पृथक । वराहोऽपि विद्वानासीत् , केवलमखर्वगर्वपर्वतारूढः सरिपदं याचते भद्रबाह्वाह्वसहोदरपार्धात् । भद्रबाहुना भाषितः सः-" वत्स! विद्वानसि, क्रियावानसि, परं सगर्वोऽसि, सगर्वस्य सूरिपदं न दद्मः" एतत्सत्यमपि तस्मै न सस्वदे। यतो गुरुवचनममलमपि महदुपजनयति श्रवणस्थितं शूलमभव्यस्य । ततो व्रत तत्याज । मिथ्यात्त गत: पुनजिवेषं जग्राह। For Private And PersonalPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 283