Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kcharth.org Acharya Shri Kailashsagarsuri Gyanmand श्रीभद्रबाहुस्वामिना भणितम्-"ज्ञानस्य प्रत्ययः सारम् , म चासन्न एवास्त"। स्थितास्तूष्णी श्रावकाः । आगतं सप्तमं दिनम् । तत्रैव द्विप्रहरमात्रायां रात्री घालं स्तन्यं पाययितुं धात्र्युपविष्टा । द्वारशाखाग्रन्यस्ताऽर्गला बालमस्तके पतिता जनान्तरसञ्चारात् । प्रमृतो बालः । रुद्यते वराहगृहे मिलितो लोकः । भद्रबाहुनाऽपि श्रावका उक्ताः-शोकापनोदो धर्माचार्यः, इति तत्रास्माभिरधुना गन्तव्यम् । " श्रावकशतवृता गतास्तत्राचार्याः । वराहशोकसङ्कलोऽप्यभ्युत्थाधुचितमकरोत् । अभ्यद्धाच्च-"आचार्याः ! भवतां ज्ञानं मिलितम् , केवलं बिडालीतो मृत्युन, किन्त्वर्गलातः" भद्रबाहुना निजगदे-" तस्या अर्गलाया लोहमय्या | अग्रभागे रेखामयी बिडाल्यस्ति, नासत्यं ब्रूमः।” आनीताऽवलोकितागला तथैवास्ते । अधोवाच बराहः| " तथा पुत्रशोकेन न खिद्येऽहम् , यथा राजविदिताख्यातपुत्रशतायुस्त्ववैफल्येन खिये । धिगमीषां निजपुस्तकानां प्रत्ययेनास्माभिर्ज्ञानं प्राकाशि, एतान्यसत्यानि तस्मात्तु मृज्मः।" इत्युक्त्वा कुण्डानि जलैरपूपुरत्। पुस्तकानि माष्टुं स यावदारभते, तावद्भद्रबाहुना बाहौ धृत्वा वारितः, "आत्मप्रमादेन ज्ञानं विनाश्य कथं पुस्तकेभ्यः कुप्यसि ? एते पुस्तकाः सर्वज्ञोक्तमेव भाषन्ते, ज्ञाता तु दुर्लभः । अमुकस्मिन्स्थाने त्वं विपर्यस्तमतिर्जातः, आत्मानमेव निन्द । प्रभुप्रसादस्तारुण्यं विभवो रूपमन्वयः। शौर्य पाण्डित्यमित्येतदमयं मदकारणम् ॥ १॥ For Private And Personal

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 283