Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्धः अथ श्वेताम्यरान्निन्दति-"किममी वराकाः काका विदन्ति ? मक्षिकावद्भिणिहणायमानाः कारास्था इव कुचेलाः कालं क्षपयन्ति, क्षपयन्तु।” तच्छृण्वतां श्रावकाणां शिरःशूलमुत्पेई । धिगिदमस्माकं जीवितम् । येन गुर्ववज्ञां सहामहे । किं कुर्मः ? अयं कलावानिति नरपतिना पूज्यते । राजभिः पूज्यते यश्च सर्वैरपि स पूज्यते । भवतु । तथापि भद्रबाहुमायामस्तावत् । इति संमन्त्र्य तथैव चक्षुः । आगताः श्रीभद्रबाहवः ।। कारितः श्रावकैः सस्पर्द्धप्रवेशमहः । स्थापिता गुरवः सुस्थाने । नित्यं व्याख्यारमानास्वादयामासुः सभ्याः । भद्रबाबागमे वराहो बाद मम्लौ । तथापि तेभ्यो नापकर्तुमशकदसौ। । अत्रान्तरे वराहमिहरगृहे पुत्रो जातः । तज्जन्मतुष्टः प्रभूतं धनं व्ययति स्म । लोकाच पूजामाप्नोति स्म । 'पुत्रस्य वर्षशतमायुः' इति तेन नरेन्द्रादिलोकाग्रसभासमक्षं प्रख्यापितम् । गृहे उत्सवोदयस्तस्य । एकदा सदसि वराहः प्राह स्म-"अहो ! सहोदरोऽपि भद्रबाहुमें पुत्रजन्मोत्सवे नागात् , इति बाह्या एते" एतदाकर्ण्य श्रावकैर्भद्रबाहुर्विज्ञप्तः । एवं एवं असौ वदन्नास्ते। गम्यतां भवद्भिरेकदा तद्गृहम् । मावृधन्मुधा क्रोधः। भद्रबाहुनाऽऽदिष्टम्-"द्वौ क्लेशो कथं कारयध्वे ? अयं बालः सप्तमे दिने निशीथे बिडालिकया घानिष्यते। तस्मिन्मने शोकविमर्जनायापि गन्तव्यमेव तावत् ।" श्रावकैरूचे-" तेन विप्रेणोपराजमर्भस्य समाशतपायुरुक्तम् । भवद्भिः पुनरिदमादिश्यते । किमेतत् ? " | - ----- - - ||३॥ For Private And Personal

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 283