Book Title: Chandraraj Charitram Author(s): Bhupendrasuri Publisher: Bhupendrasuri Jain Sahitya Samiti View full book textPage 6
________________ वैराग्यविभूषिता वरतनुर्विद्योतते बन्धुरं, त्यक्ता येन रमासमानललना राजीमती सत्वरम् । हिंसां वीक्ष्य मृगादिजन्तुनिवहस्याना तदुःखप्रदां सं श्रीनेमिजिनेश्वरं प्रतिदिनं भक्त्याऽतिवन्दाम ||३|| शोभां योदधदुत्तमांग निहितव्याला घिर । जस्फटा, रत्नानां वितस्त्रिलोकमाहितां नम्रैर्निलिंपव्रजैः । यस्पादाब्जमरञ्जि मौलिमुकुटम धोतिसन्मौक्तिकै, स्तं श्रीपार्श्वजिनेश्वरं प्रतिदिनं भक्त्याऽतिवन्दाम ||४|| पीयूषातिशयां श्रवः सुखकरीं यहारती भारती, कामयते सुषमां दृष्ट्रा यदीयां गतः । वाणां च सहस्रतां मृगपतिः सभ्वं वनं गाइते, तं श्रविरिजिनेश्वरं जन हितं भक्त्याऽतिवन्दामहे ॥ ५ ॥ श्रीसौधर्म बृहत्तपोगणगिरी मार्तण्डवद्भास्वरो, विश्वेषामुपकारकः सममती राजेन्द्रसूरीश्वरः । तत्पट्टे धनचन्द्रसूरि विबुधश्चासीन्मुदाऽऽनम्य सौ, सद्गये विरचामि चन्द्रवारितं भूपेन्द्रसूरिर्वरम् ।। ६ ।। अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य प्रथमे परिच्छेदे श्रीचन्द्रकुमारस्य जन्म अस्ति किलास्मिखिलोके चतुर्दशराजलोकानां मध्ये तिर्यग्लोकः, यस्य विस्तार एकस्य राजलोकस्यास्ति । अस्योर्ध्वाधोविस्तारो ष्टादशशतयोजन प्रमाणोऽस्ति । अस्य मध्ये जम्बूनामद्वीपो वर्तते, अयं स्थालीव वर्तुलाकारो लक्षयोजनप्रमाणञ्चकास्ति । अस्य चतुर्दिक्षु अगणितद्वीपसमुद्राः सन्ति से व वलयाकृतयः । जम्बूद्वीपस्योचरे भागे जम्बूवृक्षैः सुशोभितं कुरुक्षेत्रमस्ति, अतोस्य जम्बूद्वीपमितिनाम प्रसिद्धम् । जम्बूद्वीपे सप्तक्षेत्राणि मध्ये मेरुरन्ये च षड्वर्षधरपर्वताः सन्ति । अस्य दक्षिणभागेऽम्यान्द्राPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 236