Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 13
________________ विवाहो महोत्सवेन सम्पमोऽभूत् । अस्मिन्नवसरे समस्तैरपि नगरवासिजनैर्विवाहमहोत्सवः कारितः। सर्वे नागरिका अनेन विवाहेन । परमानन्द प्रापुः । परं खलप्रकृतिरेका वीरमत्येवैतादृशेन मांगलिकेन शुभकर्मणापि मनसि दुःखिनी बभूव । यतःउज्ज्वलगुणमभ्युदितं, क्षुद्रो द्रष्टुं न कथमपि क्षमते। हित्वा तनुमपि शलभः, शुभं दीपारिपहरति ।।१०11 में समाले सविना शेखर. करारं प्रत्याययौ । इतो दम्पत्योः कालः सुखेन व्यत्येतुं लग्नयोमयोः प्रेम प्रतिदिन वर्षमानमेवासीत् । एतेन वीरमत्या मनसि सपनी प्रति द्वेषानलो जज्बाल। चन्द्रावती तु सरलस्वभावान्तः सा वीरमती स्वमगिनीमिव मन्यते स्म । स्वामिनः सुखसम्बन्धे च सदैव तत्पराऽऽसीदतो राजापि सद्गुणवत्या तयैवात्मानं धन्य मन्यते स्म । यत:-क्रोधे दासी रतौ वेश्या, भोजने जननीसमा । आपस्तौ मन्त्रदात्री च, सा भार्या भुवि दुर्लभा ॥११॥ इत्थं तस्या जीवनं सुखेन गन्तुं लग्नं परं वीरमत्याः सर्व चेष्टितं विपरीतमेवासीत् । सा चोमाभ्यां मनसा अभ्यति स्म तस्मिभव समये चन्द्रावत्या गर्ने पुण्यवतः कस्यचिज्जीवस्यागमनं बन । तद्रात्राव सा स्वमे चन्द्रं ददर्श स्वप्रश्चायं सर्वथा शुभसूचकोऽभूत्, ततोगते राजनि स परं मुमुदे। पूर्ण च गर्भसमये योग्यकाले सा पुत्ररलं सुषुये । तेन चाखिलेऽपि नगरे महानन्दकल्लोल उच्छ्रयते स्म । नगरे प्रतिगृहे मङ्गलाचरणं जातम्. राजा च दीनजनेभ्यः प्रभूतं दानं पशुभ्यो घासादिकमाश्रितेभ्यो मित्रेभ्यश्थोपायनं सजनेभ्यः सस्कारप्रदानमेवं सर्वानपि नागरिकान् यथायोग्य सन्तोपयामास । द्वादशे दिने सर्वेषां सम्याना | समक्षे राश्याः स्वमे चन्द्रदर्षनादस्य बालस्य 'चन्द्रकुमार' इति नाम चकार । चित्रोः प्रयत्नेन शुक्लपक्षस्य चन्द्रमिव कुलदीपर्क । चन्द्रकुमार सुखेनैषमानं सर्वे दृष्टा मुमुदिरे ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 236