________________
विवाहो महोत्सवेन सम्पमोऽभूत् । अस्मिन्नवसरे समस्तैरपि नगरवासिजनैर्विवाहमहोत्सवः कारितः। सर्वे नागरिका अनेन विवाहेन । परमानन्द प्रापुः । परं खलप्रकृतिरेका वीरमत्येवैतादृशेन मांगलिकेन शुभकर्मणापि मनसि दुःखिनी बभूव । यतःउज्ज्वलगुणमभ्युदितं, क्षुद्रो द्रष्टुं न कथमपि क्षमते। हित्वा तनुमपि शलभः, शुभं दीपारिपहरति ।।१०11 में
समाले सविना शेखर. करारं प्रत्याययौ । इतो दम्पत्योः कालः सुखेन व्यत्येतुं लग्नयोमयोः प्रेम प्रतिदिन वर्षमानमेवासीत् । एतेन वीरमत्या मनसि सपनी प्रति द्वेषानलो जज्बाल। चन्द्रावती तु सरलस्वभावान्तः सा वीरमती स्वमगिनीमिव मन्यते स्म । स्वामिनः सुखसम्बन्धे च सदैव तत्पराऽऽसीदतो राजापि सद्गुणवत्या तयैवात्मानं धन्य मन्यते स्म । यत:-क्रोधे दासी रतौ वेश्या, भोजने जननीसमा । आपस्तौ मन्त्रदात्री च, सा भार्या भुवि दुर्लभा ॥११॥
इत्थं तस्या जीवनं सुखेन गन्तुं लग्नं परं वीरमत्याः सर्व चेष्टितं विपरीतमेवासीत् । सा चोमाभ्यां मनसा अभ्यति स्म तस्मिभव समये चन्द्रावत्या गर्ने पुण्यवतः कस्यचिज्जीवस्यागमनं बन । तद्रात्राव सा स्वमे चन्द्रं ददर्श स्वप्रश्चायं सर्वथा शुभसूचकोऽभूत्, ततोगते राजनि स परं मुमुदे। पूर्ण च गर्भसमये योग्यकाले सा पुत्ररलं सुषुये । तेन चाखिलेऽपि नगरे महानन्दकल्लोल उच्छ्रयते स्म । नगरे प्रतिगृहे मङ्गलाचरणं जातम्. राजा च दीनजनेभ्यः प्रभूतं दानं पशुभ्यो घासादिकमाश्रितेभ्यो मित्रेभ्यश्थोपायनं सजनेभ्यः सस्कारप्रदानमेवं सर्वानपि नागरिकान् यथायोग्य सन्तोपयामास । द्वादशे दिने सर्वेषां सम्याना | समक्षे राश्याः स्वमे चन्द्रदर्षनादस्य बालस्य 'चन्द्रकुमार' इति नाम चकार । चित्रोः प्रयत्नेन शुक्लपक्षस्य चन्द्रमिव कुलदीपर्क । चन्द्रकुमार सुखेनैषमानं सर्वे दृष्टा मुमुदिरे ।