________________
ब
"
यतः शर्वरीदीपक, प्रभावितः । त्रैलोक्ये दीपको धर्मः, सुपुत्रः कुलदीपकः ।। १२ ।। परं पुण्यशाली सकलजनमनोरञ्जकोऽपि स चन्द्रकुमारो वीरमत्या द्वेषाग्नावाज्याहुतिपात इवाऽजनि ॥
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य द्वितीयपरिच्छेदे वीरमस्याः पुत्रकामनादिने दिने शुक्लपक्षीय चन्द्रभित्र वर्धमानं रमणीयतरं तं सुधालं दृष्ट्वा राजा वीरसेनो मनस्येव मुदमावहन्नवजीवनं सार्थकममंस्त । चन्द्रकुमारः प्रतिदिनं नवां नव क्रीडामक्रीउदिति पितरो तस्य रक्षणार्थं यत्नावास्ताम् । वीरमती मनस्येव क्रुध्यन्ती तथावसरे प्राप्ते सा कुमारस्य जीवनोपरि विपद्रिरिमपि पातयितुमिच्छतीति पित्रोर्न विदितमासीत्किम् ? तया चन्द्रावत्याः परिणय एवाससमान आसीत् किं पुनस्तस्या गर्भतः पुत्रजन्मेति, तत्तु नितरामस भूत्वाऽऽपतितम् । शुद्धराजवीर्यप्रभवत्वादती मनोहरचन्द्रकुमारो चाल्यावस्थाया अस्फुटवचनेनासमग्रां वार्ता कथयित्वा सर्वेषां मनांस्यानन्दयति स्म । किन्त्येका वीरमत्येव तत्रापवादरूपाऽभूत् । जैनधर्मे नितरामनुरक्ता सा चन्द्रावती विविधैः प्रकारै राजानं प्रतिबोध्याऽऽखेटका दिसप्तव्यसनेम्यो न्यवारयत् । तस्या वचनप्रभावेण राज्ञोऽपि हृदये जैनधर्मे रतिः प्रादुर्बभूव । अतोऽसौ सदाचरणं कुर्वन् मानुष्यं जन्म सफलं करोतिस्म । यतःपूजामाचरतां जगत्त्रयपतेः संघार्थनं कुर्वतां, तीर्थानामभिवन्दनं विदद्यतां जैनं वचः शृण्वताम् । सद्दानं ददतां तपश्च चरतां सत्त्वानुकम्पाकृतां येषां यान्ति दिनानि जन्म सफलं तेषां सुपुण्यात्मनाम् || १३ || ततः सोऽपि निजिनचैत्यान्यचीकरत । स्वबन्धूनिव श्रावकान् भृशं सन्तोषयति स्म मुनीनामपि भक्तिं चकार । यतः सत्संगात कि न सिध्यति ।