SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ SHRI तथोक्तम्-जाड्यं धियो हरति सिंचति वाचि सत्यं, मानोन्नति दिशाति पापमपाफरोति । __ चेतः प्रसादयति दिक्षु तनोति कीर्ति, सत्संगतिः कथय किं न करोति पुंसाम् ॥ १४ ॥ इति लोकोक्तिरपि यथार्थतामाप । यदा शनैः शनैश्चन्द्रकुमारोष्टवार्षिको जातस्तत एव सुयोग्यस्य कस्यचिद् गुरोः समीपे । & विद्याभ्यास कर्तु लग्नः । स्वस्पकालेनैव स वृहस्पतिरिव मुद्धिबलेन सकलविद्याकलादीनां पारं जगाम । यतः श्रियं प्रसूते विपदं रुणद्धि, श्रेयांसि सूते मालिनं प्रमाष्टिं । संस्कारयोगाच परं पुनीते, शुद्धा हि बुद्धिः किल कामधेनुः ॥ १५॥ अतः प्रकर्षमाघारवशे गुणानामिति सत्यमस्ति, तत्र गुरुः केवलं साक्षिमात्रो भवति । कियदिनानन्तरं ऋतुराजयसन्तस्यागमनं बभूव । सर्वाण्युपवनानि फलपुष्पसमृद्धिवन्ति सुशोभितानि चासन् । कामोद्दीपकसाधनेषु वृद्धिर्बभव, आम्रमञ्जरीभुक्त्वा | कोकिला अपि मधुरं चुकूजुः । वात प्रेरिताः सपुष्पा लसा विलासिनो रत्यर्थ प्रेरयन्तीति मन्ये, अस्मिन्नेव समय आमानरेशः सह 3 & पत्नीभ्यां परिवारश्चाद्याने कीडनार्थ जगाम। तत्र च स्वेच्छया क्रीडितुं लग्नः । केचित्कुंकुमोरक्षेपणं केचित्केशरोत्पाटनं केचन | वृशेषु हिन्दोलक्रीडयाऽनन्दमापुः । चन्द्रकुमारः स्ववयस्यै राजपुत्रः सइ पुष्पकन्दुकं निर्माय क्रीडायां निमग्नो बभूव । चैव सर्वेऽपि । विविधासु क्रीडासु तत्परा अभवन् परमेतत्सर्व दृष्टा खलप्रकृतित्वाद् वीरमत्या मनसि द्वेषाग्निः प्रजवाल । यदुक्तम्-उपकारिण्यपि सुजने, स्निग्धेऽपि खलास्त्यजन्ति न प्रकृतिम् । ज्वलति जलराप सिन्धो-रके निहितोऽपि बडचाग्निः ॥१६॥ ksORLD ERS*
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy