Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
चन्द्रप्रभस्वामि
चरित्रम्
॥ ४ ॥
तत्प्राप्तिस्थानं स्वदले, कुर्वते नरकानमी । तानाहन्तु ं दधत्येते, 'कुविद्यानृजुयष्टिकाम् ॥ २३ ॥ तान् व्यावर्त्तयितु ं पश्चात्, दलेऽभूवन द्वितीयके । दानशीलतपोभावाः, कषायप्रतिपक्षिणः ॥ २४ ॥ तत्प्राप्तिस्थानमेतेषां निर्वाणपदभूमिका । श्रद्धैव सरला तेषां तानुत्क्षेप्तु ं तु यष्टिका ॥ २५ ॥ मिलित्वा ते द्वये पक्षा, वामतोऽसव्यतः स्थिताः । आहन्यन्ते कषायैः प्राक्कन्दुकास्ते कुविद्यया ॥ २६ ॥ तैरेकेनैव घातेन, प्राप्यन्ते श्वभ्रभूमिकाम् । तिष्ठन्त्यप्रगुणीभूता दानाद्यास्तु तथैव हि ॥ २७ ॥ एकशस्तान्पराभूय, दानादीन परिक्रमान् । कषाया दधते भूयो, रजस्यैवात्मकन्दुकान् ॥ २८ ॥ कथञ्चित्सज्जैर्यानाद्यैः, प्रेर्यन्ते श्रद्धयोर्ध्वकाः । गच्छन्तोऽर्धपथादूर्ध्वात्पात्यन्ते क्रुद्दलेन ते ॥ २६ ॥ नीयन्ते स्वप्रतिज्ञातां, सुखेन श्वभ्रभूमिकाम् । प्रत्याहत्तु तदप्रात्तान् दानाद्याः पङ्गवः स्थिताः ॥ ३० ॥ एवं च नित्यशोप्युद्यत्कषायैर्जितकासिभिः । दानादेरप्रतोऽप्येते, नीयन्ते तां स्वभूमिकाम् ॥ ३१ ॥ कषायैर्बलिभिर्ज्ञात्वा पराभूतं स्वमुच्चकैः । दानशीलतपोभावास्ताम्यन्त्यप्रभविष्णवः ॥ ३२ ॥ प्राप्तनैः स्व्यकुटुम्बस्य, मानुषाणीव ते मिथः । अशक्ताः कलहायन्ते, तद्व्यावृत्तिविधौ ततः ॥ ३३ ॥ दानमाह किमत्रा, कुर्वे यत्क्लीवमस्मि भोः ! १ । मया हि पोषितेनैव, कार्यमाचर्यतेऽखिलम् ॥ ३४ ॥ १. कुविद्या एवाऽनृजु - वक्रयष्टिका ताम् । २. क्रोधादयो दानादयश्च । ३. असमर्थीभूताः ।
प्रथमः परिच्छेदः
पीठिका

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 404