Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 11
________________ चन्द्रप्रभस्वामि प्रथम: परिच्छेदः चरित्रम् पीठिका यथाप्रवृत्तिकरणाद्, मुक्तास्तद्वन्धनादमी । पृथ्वीकायादिगर्तासु, पतन्ति 'यदचेतनाः॥ ११ ॥ तत्रापि स्वस्वकायेषु, घातताडनपीडनैः । अविश्रान्तामनिर्वाच्यां, कष्टकाष्ठां भजन्ति ते ॥ १२ ॥ कथश्चित्कर्मकल्लोलैरेकाक्षत्वमहोदधेः। विकलेन्द्रियकुलेषु, क्षिप्यन्ते ते क्षणादपि ॥१३॥ यथा कृष्णतिलश्रेणी, स्यादेको छु ज्ज्वलस्तिलः । दुष्कर्मराशौ सहज-स्तद्वत्कर्मलवः शुभः ॥ १४ ॥ कथञ्चिदैवयोगाते(तैः), तेनैकेन सुकर्मणा । दुष्कर्मराशेरुद्वेल्य, प्राप्यन्ते जन्म पश्चखम् ॥१५॥ पञ्वेन्द्रियत्वसारण्यां, वहन्तो वारिवत्त्वमी । स्थानेषु नीचनीचेषु, यान्ति दुष्कर्मणेरिताः ।। १६ ॥ विना धर्माम्बुयन्त्रेण, प्रोच्चैरारोढुमक्षमाः । अधोधो जलवद्यान्तो, ब्रियन्ते रजसैव ते ॥१७॥ अपि पञ्चेन्द्रियत्वादौ, न्यस्ताः, सत्कर्मवारिदैः । दुष्कर्मदर्शिताध्वानो, रजःपुजे पतन्त्यधः ॥१८॥ चेत्सुवर्णकविस्तारे, “पश्चाक्षत्वसुराचले। ते मनुष्यत्वकल्पस्थानके यान्ति वारिवत् ॥ १६॥ ततो मर्त्यत्वकल्पद्रः, सच्छायः फलतीह यत् । स्वामिप्रेतफलं सोऽयं, तत्रैषां जायते गुणः ॥२०॥ गुणेन प्रावृता जीवाः, साधुवृत्ता भवन्ति च । क्रीडाकन्दुकवदैवात , पतित्वाऽप्युत्पतन्त्यमी ॥२१॥ क्रोधमानमायालोमाः, स्वैरं क्रीडनकाम्यया । दधत्याशु रजःपुजे, तानुच्चेर्जीवकन्दुकान् ॥ २२॥ १. मन्दचेतना इत्यर्थः । २. एकाक्षत्वं-एकेन्द्रियत्वम् । ३. पञ्च खानि-इन्द्रियाणि यस्मिन् , पञ्चेन्द्रियमित्यर्थः । ४. पञ्चेन्द्रियत्वम् । ॥३॥ IYA

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 404