SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥ ४ ॥ तत्प्राप्तिस्थानं स्वदले, कुर्वते नरकानमी । तानाहन्तु ं दधत्येते, 'कुविद्यानृजुयष्टिकाम् ॥ २३ ॥ तान् व्यावर्त्तयितु ं पश्चात्, दलेऽभूवन द्वितीयके । दानशीलतपोभावाः, कषायप्रतिपक्षिणः ॥ २४ ॥ तत्प्राप्तिस्थानमेतेषां निर्वाणपदभूमिका । श्रद्धैव सरला तेषां तानुत्क्षेप्तु ं तु यष्टिका ॥ २५ ॥ मिलित्वा ते द्वये पक्षा, वामतोऽसव्यतः स्थिताः । आहन्यन्ते कषायैः प्राक्कन्दुकास्ते कुविद्यया ॥ २६ ॥ तैरेकेनैव घातेन, प्राप्यन्ते श्वभ्रभूमिकाम् । तिष्ठन्त्यप्रगुणीभूता दानाद्यास्तु तथैव हि ॥ २७ ॥ एकशस्तान्पराभूय, दानादीन परिक्रमान् । कषाया दधते भूयो, रजस्यैवात्मकन्दुकान् ॥ २८ ॥ कथञ्चित्सज्जैर्यानाद्यैः, प्रेर्यन्ते श्रद्धयोर्ध्वकाः । गच्छन्तोऽर्धपथादूर्ध्वात्पात्यन्ते क्रुद्दलेन ते ॥ २६ ॥ नीयन्ते स्वप्रतिज्ञातां, सुखेन श्वभ्रभूमिकाम् । प्रत्याहत्तु तदप्रात्तान् दानाद्याः पङ्गवः स्थिताः ॥ ३० ॥ एवं च नित्यशोप्युद्यत्कषायैर्जितकासिभिः । दानादेरप्रतोऽप्येते, नीयन्ते तां स्वभूमिकाम् ॥ ३१ ॥ कषायैर्बलिभिर्ज्ञात्वा पराभूतं स्वमुच्चकैः । दानशीलतपोभावास्ताम्यन्त्यप्रभविष्णवः ॥ ३२ ॥ प्राप्तनैः स्व्यकुटुम्बस्य, मानुषाणीव ते मिथः । अशक्ताः कलहायन्ते, तद्व्यावृत्तिविधौ ततः ॥ ३३ ॥ दानमाह किमत्रा, कुर्वे यत्क्लीवमस्मि भोः ! १ । मया हि पोषितेनैव, कार्यमाचर्यतेऽखिलम् ॥ ३४ ॥ १. कुविद्या एवाऽनृजु - वक्रयष्टिका ताम् । २. क्रोधादयो दानादयश्च । ३. असमर्थीभूताः । प्रथमः परिच्छेदः पीठिका
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy