Book Title: Chandonushasan
Author(s): Hemchandracharya, H D Velankar
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 284
________________ छन्दोऽनुशासनम् । - ताराध्रुवकं ढजैः॥ २९ ॥ ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव स्वमकं ताराध्रुवकम् । यथा"तुह रिउ वणगय दिसिमोहिअ ताराधुव अवलोहिं जाम्बहिं अवहिअ । बाहजलाविलनयण निअहिं न हु ताम्वहिं हुअ हिअडइ मरणासंकिअ ॥२९.१॥ नवरङ्गकं तजैः॥ ३० ॥ तजैरिति षोडशभिरष्टाभिश्च यतिश्चेत्तदा तदेव स्वमकं नवरङ्गकम् । यथा - "दहिअक्खयघणचंदणमालिअनवनवरंगयवावर्ड निअवि पिअ । गाढोकंठासरलिअमुअजुउ अवैरुंडइ रइरसभरकंदलिअ ॥ ३०.१ ॥ षिश्चीः स्थविरासनकम् ॥ ३१ ॥ तजैरिति वर्त्तते । षण्मात्रत्रयं चतुर्मात्रचतुष्टयं च तजैर्यतिश्चेत्तदा स्थविरासनकम् । यथा"दारविवजिअ विसयपरंमुह खलिअगइक्कम अइपसरिअवेविअ । . वेरग्गिण तवसित्तु पवज्जिवि ठिों थेरासणि तुह तरुण वि वेरिों ॥३१.१॥ वृषौ सुभगम् ॥ ३२ ॥ तजैरिति वर्तते । सप्त चतुर्मात्राः षण्मात्रश्च सुभगम् । यथाजलइ सरोवरि नीलुप्पलवणु वणि लय फुल्लिअ नहयलि हिमकिरणु। , विरहरहक्कई तुह तणुअंगिहिं "सुहय विणि म्मिउ जलु थलु नहु जलणु ॥ ३२.१॥ 1) तुह रिउ इत्यत्र तव रिपवो वनं गताः । दिब्यूढाः ताराध्रुवं च अवलोकयन्ति । यावदवहिताः सावधानाः बाष्पजलाविलनयनाः न पश्यन्ति तावद् भूताः संजाताः हृदये मरणाशङ्किताः। यतो 'यो ध्रुवादि न पश्यति स अचिरेण प्राणत्यागं करोति' इति निमित्तशास्त्रे। 2) दहिअक्खेति दध्यक्षतघनचन्दनमालिकाः नवनवरङ्गकाः वर्णकाश्च तेषु व्यापृतां निरीक्ष्य प्रियां कश्चिदालिङ्गति । कीदृग् । गाढोत्कण्ठया सरलितौ लम्बितौ भुजौ येन सः । तथा रतिरसभरेण कन्दलितः रोमाञ्चितः। 3) दारेत्यत्र तरुणा अपि तव वैरिणः स्थविरासने स्थिताः। वृद्धा हि निश्चलासने स्थिता भवन्ति । कीदृशाः वृद्धा वैरिणश्च । दारैर्विवर्जिताः विषयपराङ्मुखाः। विषयाः शब्दाद्याः पक्षे देशाश्च । स्खलितः गतिक्रमो येषां ते। उभयत्र समानं विशेषणम् । अतिप्रसृतं वेपितं येषां ते। वि० समानम् । किं कृत्वा स्थिताः। प्रतिपद्य तपस्वित्वं वराकत्वम् । पक्षे तपःकारित्वम् । केन । वैराग्येण पक्षे विगतरागत्वेन । 4) सुहयेत्यत्र हे सुभग सरोवरे नीलोत्पलवनं ज्वलति । वने पुष्पिता लताः । नभस्तले हिमकिरणः ज्वलति । तव विरहोद्रेकेण तन्वङ्गयाः जलं स्थलं नभः ज्वलनशीलं निर्मितम् । १ अवलोवहिं BP. २ वावउ N. ३ सरलअसुयभुअ A; भुयजुउ BP; -भुअजुओ N. ४ अवरुडइ AODN; अवकंडइ . ५ तदा dropped in DP. ६ ट्ठिअ N. ७ विरिअ N. ८ तणुअंगहिं ७. ९. विणिम्मिओ NS; विणम्म P. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444