Book Title: Chandonushasan
Author(s): Hemchandracharya, H D Velankar
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 302
________________ २३८ छन्दोऽनुशासनम् । अथ प्रकारान्तरेण समवृत्तानां संख्यामाह - वर्णसमद्विकेहतिः समस्य ॥ ११ ॥ समवृत्तस्य पादे यावन्तो वर्णास्तावतां द्विकानामन्योऽज्यघातः समवृत्तानां संख्या। तत्र उक्तायां द्विकस्यान्योज्यघातो न संभवतीति द्विभेदैव । अत्युक्ता द्विकद्वयघाते चतुर्भेदा । मध्या द्विकत्रयघाते अष्टभेदा । प्रतिष्ठा द्विकचतुष्टयघाते षोडशभेदा । एवं यावदुत्कृतेः षड्विंशतेः द्विकानामन्योऽन्यघाते षट् कोठ्यः एकसप्ततिर्लक्षाः अष्टौ सहस्राण्यष्टौ शतानि चतुःषष्टयधिकानि ॥ ११॥ ते द्विगुणा द्विहीनाः सर्वे ॥१२॥ ते विवक्षितजातिभेदा द्विगुणां द्विहीनाः उक्तादयो विवक्षितजातिपर्यन्ताः सर्वे भेदा भवन्ति । "यथा उत्कृतिमेदाः एव द्विगुणा द्विहीनाः सर्वजातिभेदास्त्रयोदश कोव्यः द्वाचत्वारिंशल्लक्षाः सप्तदशर्सहस्राः सप्तशतानि षड्विंशत्यधिकानि भवन्ति । यथा वाँ गायत्र्यां चतुःषष्टिभैदा द्विगुणा द्विहीना गायत्रीपर्यन्ताः षड्विंशत्यधिकं शतमुक्तादिजातिभेदा भवन्ति । एवमन्याखपि वाच्यम् ॥ १२॥ अथ प्रकारान्तरेण अर्धसमसंख्यामाह समकृती राश्यूना अर्धसमस्य ॥ १३ ॥ सममिति समवृत्तसंख्योच्यते । तस्य कृतिर्वर्गः । सा राश्यूना समवृत्तसंख्याहीना । अयमर्थः । समवृत्तसंख्यागुणिता समवृत्तसंख्या राश्यना अर्धसमस्य संख्या भवति । यथा चतुरक्षरसमवृत्तसंख्या षोडश । तत्कृतिढे शते षट्पञ्चाशदधिके समाधसमभेदाः । ते राश्यूनाः शुद्धार्धसमस्य संख्या भवन्ति । द्वे शते चत्वारिंशदधिके ॥१३॥ अथ प्रकारान्तरेण विषमवृत्तसंख्यामाह "तत्कृतिविषमस्य ॥१४॥ तस्याः समकृतेः कृती राश्यूना विषमवृत्तस्य संख्या । यथा-अस्मिन्नेव चतुरक्षरे छन्दसि समकृतिढे शते षट्रपञ्चाशदधिके । तस्याः कृतिः पञ्चषष्टिः सहस्राः पञ्च शतानि षत्रिंशदधिकानि समाधसमविषमसंख्या । अस्यां समासमराश्यूनायां पञ्चषष्टिः-सहस्राः द्वे शते अशीत्यधिके ॥ १४ ॥ 1) यथोत्कृतिभेदाः एवेत्यत्र उत्कृतिभेदाः ६७१०८८६४ द्वाभ्यां गुणने १३४२१७७२८ द्विहीना १३४२१७७२६ । 2) तस्कृतिरित्यत्र चतुरक्षरसमराशिः १६ चतुरक्षरार्धसमराशिः २४०; द्वयो राश्योमिलितयोः २५६ एष राशिः ६५५३६ एतस्मात् पात्यते । ततः चतुरक्षरपादस्य विषमवृत्तस्य प्रस्तारसंख्या ६५२८० रूपा भवन्ति । सर्वगुरु १ द्विलघु १० चतुर्लघु ४१ षद लघु ९० अष्टलघु ११६ दशलघु ९० द्वादशलघु ४१ चतुर्दशलघु १० षोडशलघु १ । अष्टमोऽध्यायः संपूर्णः ॥ इति छन्दोऽनुशासनस्य छन्दश्चडामण्यपराह्वयस्य पर्यायाः संपूर्णाः। संवत् १६५९ वर्षे वैशाखशुदि १५ दिने लिखिताः॥ पं० रनचन्द्रगणिभिः। १ समवृत्तसंख्यामाह B. २ द्विकसहतिः D. ३ द्विगुणद्विहीनाः N; द्विगुण dropped in A. ४ सर्वमेदाः ०. ५ द्विचत्वा० लक्षाः BC; द्वाच. लक्ष्याः A. ६ सप्तदश सहस्राणि A. ७च A. ८चतुःषष्टिभेदाः BN. ९ अर्धसमसंख्या B. १० विषमवृत्तसंख्या A. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444