________________
२३८
छन्दोऽनुशासनम् । अथ प्रकारान्तरेण समवृत्तानां संख्यामाह
- वर्णसमद्विकेहतिः समस्य ॥ ११ ॥ समवृत्तस्य पादे यावन्तो वर्णास्तावतां द्विकानामन्योऽज्यघातः समवृत्तानां संख्या। तत्र उक्तायां द्विकस्यान्योज्यघातो न संभवतीति द्विभेदैव । अत्युक्ता द्विकद्वयघाते चतुर्भेदा । मध्या द्विकत्रयघाते अष्टभेदा । प्रतिष्ठा द्विकचतुष्टयघाते षोडशभेदा । एवं यावदुत्कृतेः षड्विंशतेः द्विकानामन्योऽन्यघाते षट् कोठ्यः एकसप्ततिर्लक्षाः अष्टौ सहस्राण्यष्टौ शतानि चतुःषष्टयधिकानि ॥ ११॥
ते द्विगुणा द्विहीनाः सर्वे ॥१२॥ ते विवक्षितजातिभेदा द्विगुणां द्विहीनाः उक्तादयो विवक्षितजातिपर्यन्ताः सर्वे भेदा भवन्ति । "यथा उत्कृतिमेदाः एव द्विगुणा द्विहीनाः सर्वजातिभेदास्त्रयोदश कोव्यः द्वाचत्वारिंशल्लक्षाः सप्तदशर्सहस्राः सप्तशतानि षड्विंशत्यधिकानि भवन्ति । यथा वाँ गायत्र्यां चतुःषष्टिभैदा द्विगुणा द्विहीना गायत्रीपर्यन्ताः षड्विंशत्यधिकं शतमुक्तादिजातिभेदा भवन्ति । एवमन्याखपि वाच्यम् ॥ १२॥ अथ प्रकारान्तरेण अर्धसमसंख्यामाह
समकृती राश्यूना अर्धसमस्य ॥ १३ ॥ सममिति समवृत्तसंख्योच्यते । तस्य कृतिर्वर्गः । सा राश्यूना समवृत्तसंख्याहीना । अयमर्थः । समवृत्तसंख्यागुणिता समवृत्तसंख्या राश्यना अर्धसमस्य संख्या भवति । यथा चतुरक्षरसमवृत्तसंख्या षोडश । तत्कृतिढे शते षट्पञ्चाशदधिके समाधसमभेदाः । ते राश्यूनाः शुद्धार्धसमस्य संख्या भवन्ति । द्वे शते चत्वारिंशदधिके ॥१३॥ अथ प्रकारान्तरेण विषमवृत्तसंख्यामाह
"तत्कृतिविषमस्य ॥१४॥ तस्याः समकृतेः कृती राश्यूना विषमवृत्तस्य संख्या । यथा-अस्मिन्नेव चतुरक्षरे छन्दसि समकृतिढे शते षट्रपञ्चाशदधिके । तस्याः कृतिः पञ्चषष्टिः सहस्राः पञ्च शतानि षत्रिंशदधिकानि समाधसमविषमसंख्या । अस्यां समासमराश्यूनायां पञ्चषष्टिः-सहस्राः द्वे शते अशीत्यधिके ॥ १४ ॥
1) यथोत्कृतिभेदाः एवेत्यत्र उत्कृतिभेदाः ६७१०८८६४ द्वाभ्यां गुणने १३४२१७७२८ द्विहीना १३४२१७७२६ । 2) तस्कृतिरित्यत्र चतुरक्षरसमराशिः १६ चतुरक्षरार्धसमराशिः २४०; द्वयो राश्योमिलितयोः २५६ एष राशिः ६५५३६ एतस्मात् पात्यते । ततः चतुरक्षरपादस्य विषमवृत्तस्य प्रस्तारसंख्या ६५२८० रूपा भवन्ति । सर्वगुरु १ द्विलघु १० चतुर्लघु ४१ षद लघु ९० अष्टलघु ११६ दशलघु ९० द्वादशलघु ४१ चतुर्दशलघु १० षोडशलघु १ । अष्टमोऽध्यायः संपूर्णः ॥ इति छन्दोऽनुशासनस्य छन्दश्चडामण्यपराह्वयस्य पर्यायाः संपूर्णाः। संवत् १६५९ वर्षे वैशाखशुदि १५ दिने लिखिताः॥ पं० रनचन्द्रगणिभिः।
१ समवृत्तसंख्यामाह B. २ द्विकसहतिः D. ३ द्विगुणद्विहीनाः N; द्विगुण dropped in A. ४ सर्वमेदाः ०. ५ द्विचत्वा० लक्षाः BC; द्वाच. लक्ष्याः A. ६ सप्तदश सहस्राणि A. ७च A. ८चतुःषष्टिभेदाः BN. ९ अर्धसमसंख्या B. १० विषमवृत्तसंख्या A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org