________________
२३९
अष्टमोऽध्यायः। अथ मात्रावृत्तानां प्रकारान्तरेण संख्यामाह -
विकल्पहतिर्मात्रावृत्तानाम् ॥ १५॥ मात्रावृत्ते या गणविकल्पसंख्या सा अन्योऽन्यहता मात्रावृत्तस्य संख्या भवति । सा च यथास्थानं प्रागेवोदाहृता ॥ १५॥ अथ मात्राविकल्पानां संख्यामाह -
अङ्कान्त्योपान्त्ययोगः परे परे मात्राणाम् ॥१६॥ अङ्कानामेकड्यादीनां यौ अन्त्यौपान्त्यौ तयोर्योगः परस्परमीलनं परे परे स्थाने न्यस्तौ मात्राणां संख्या भवति । यथा-येकयोरन्त्योपान्त्ययोर्योगे त्रयः परस्थाने न्यस्तास्त्रिमात्रस्य विकल्पसंख्या । द्वित्रिकयोर्योगे पञ्च परे स्थाने न्यस्ताश्चतुर्मात्रस्य विकल्पसंख्या । पञ्चकत्रिकयोोगेष्टौ परे स्थाने न्यस्ताः पञ्चमात्रस्य विकल्पसंख्या । अष्टकपञ्चकयोर्योगे त्रयोदश परे स्थाने न्यस्ताः षण्मात्रस्य विकल्पसंख्या । त्रयोदशकाष्टकयोयोगे एकविंशतिः परे स्थाने न्यस्ताः सप्तमात्रस्य विकल्पसंख्या । एकविंशतित्रयोदशयोयोगे चतुस्त्रिंशत्परे स्थाने न्यस्ताः अष्टमात्रस्य विकल्पसंख्या । स्थापना-१।२।३। ५। ८।१३ । २१ । ३४ । एवमुत्तरत्रापि ॥ १६ ॥ __अथाध्वयोगमाह
द्विघ्नानेकाध्वयोगः ॥१७॥ द्विघ्ना द्विगुणा एकेन रूपेण हीना संख्या अध्वयोगो भूमिमानं भवति । त्र्यक्षरे छन्दसि अष्टौ प्रस्ताराः । ते द्विगुणिताः षोडश । तत एकस्मिन् पातिते पञ्चदश । पञ्चदशाङ्गुलायां भुवि त्र्यक्षरं छन्दः प्रस्तार्यते । एकमङ्गुलं वर्णेनावष्टभ्यते । एकं चान्तरालं चाध्वमानम् । इह च प्रस्तारसंख्ययोरेवोपयोगो नष्टादयस्त्रयश्चित्रमात्रम् । अध्वयोगस्तु पुरुषेच्छानुविधायित्वेन अनियतः । न च क्षेत्रनियमे फैलमस्ति इति निरुपयोगः । पूर्वाचार्यानुसरणात्त्वस्माभिरुक्तः ॥ १७॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्तौ प्रस्तारादिव्यावर्णनो नामाष्टमोऽध्यायः समाप्तः ॥ ८॥
___संपूर्ण छन्दोऽनुशासनमिति । ग्रंथाग्रं २०५ ॥ उभयग्रं० श्लोकसंख्या ३००८ ॥
प्रस्तारादि
१ त्रिकद्विकयोः P. २ न्यस्ता D. ३ परिस्थाने D. ४ The word and the figures are dropped in D. ५ किमपि फल• E. ६ अस्माभिरप्युक्तः A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org