________________
छन्दोऽनुशासनम् । - ताराध्रुवकं ढजैः॥ २९ ॥ ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव स्वमकं ताराध्रुवकम् । यथा"तुह रिउ वणगय दिसिमोहिअ ताराधुव अवलोहिं जाम्बहिं अवहिअ । बाहजलाविलनयण निअहिं न हु ताम्वहिं हुअ हिअडइ मरणासंकिअ ॥२९.१॥
नवरङ्गकं तजैः॥ ३० ॥ तजैरिति षोडशभिरष्टाभिश्च यतिश्चेत्तदा तदेव स्वमकं नवरङ्गकम् । यथा - "दहिअक्खयघणचंदणमालिअनवनवरंगयवावर्ड निअवि पिअ । गाढोकंठासरलिअमुअजुउ अवैरुंडइ रइरसभरकंदलिअ ॥ ३०.१ ॥
षिश्चीः स्थविरासनकम् ॥ ३१ ॥ तजैरिति वर्त्तते । षण्मात्रत्रयं चतुर्मात्रचतुष्टयं च तजैर्यतिश्चेत्तदा स्थविरासनकम् ।
यथा"दारविवजिअ विसयपरंमुह खलिअगइक्कम अइपसरिअवेविअ । . वेरग्गिण तवसित्तु पवज्जिवि ठिों थेरासणि तुह तरुण वि वेरिों ॥३१.१॥
वृषौ सुभगम् ॥ ३२ ॥ तजैरिति वर्तते । सप्त चतुर्मात्राः षण्मात्रश्च सुभगम् । यथाजलइ सरोवरि नीलुप्पलवणु वणि लय फुल्लिअ नहयलि हिमकिरणु। , विरहरहक्कई तुह तणुअंगिहिं "सुहय विणि म्मिउ जलु थलु नहु जलणु ॥ ३२.१॥
1) तुह रिउ इत्यत्र तव रिपवो वनं गताः । दिब्यूढाः ताराध्रुवं च अवलोकयन्ति । यावदवहिताः सावधानाः बाष्पजलाविलनयनाः न पश्यन्ति तावद् भूताः संजाताः हृदये मरणाशङ्किताः। यतो 'यो ध्रुवादि न पश्यति स अचिरेण प्राणत्यागं करोति' इति निमित्तशास्त्रे। 2) दहिअक्खेति दध्यक्षतघनचन्दनमालिकाः नवनवरङ्गकाः वर्णकाश्च तेषु व्यापृतां निरीक्ष्य प्रियां कश्चिदालिङ्गति । कीदृग् । गाढोत्कण्ठया सरलितौ लम्बितौ भुजौ येन सः । तथा रतिरसभरेण कन्दलितः रोमाञ्चितः। 3) दारेत्यत्र तरुणा अपि तव वैरिणः स्थविरासने स्थिताः। वृद्धा हि निश्चलासने स्थिता भवन्ति । कीदृशाः वृद्धा वैरिणश्च । दारैर्विवर्जिताः विषयपराङ्मुखाः। विषयाः शब्दाद्याः पक्षे देशाश्च । स्खलितः गतिक्रमो येषां ते। उभयत्र समानं विशेषणम् । अतिप्रसृतं वेपितं येषां ते। वि० समानम् । किं कृत्वा स्थिताः। प्रतिपद्य तपस्वित्वं वराकत्वम् । पक्षे तपःकारित्वम् । केन । वैराग्येण पक्षे विगतरागत्वेन । 4) सुहयेत्यत्र हे सुभग सरोवरे नीलोत्पलवनं ज्वलति । वने पुष्पिता लताः । नभस्तले हिमकिरणः ज्वलति । तव विरहोद्रेकेण तन्वङ्गयाः जलं स्थलं नभः ज्वलनशीलं निर्मितम् ।
१ अवलोवहिं BP. २ वावउ N. ३ सरलअसुयभुअ A; भुयजुउ BP; -भुअजुओ N. ४ अवरुडइ AODN; अवकंडइ . ५ तदा dropped in DP. ६ ट्ठिअ N. ७ विरिअ N. ८ तणुअंगहिं ७. ९. विणिम्मिओ NS; विणम्म P.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org