Book Title: Buddhisagarsuri Linganusasan with Auto Commentary
Author(s): N M Kansara
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf

Previous | Next

Page 3
________________ श्री बुद्धिसागरसूरिकृतं लिङ्गानुशासनम् (स्थोपज्ञवृत्तिसनाथं पञ्चग्रन्थिव्याकरणाङ्गभूतं च) सम्पादकः-डॉ० नारायण म० कन्सारा _ [अथ लिङ्गानुशासनम् ] सप्ताधिका विंशतिरत्र २७, पुंसि षट् च, स्त्रियां पञ्च तु वृत्तभेदः । [ अत्र नपुंसकलिङ्गे This semi-verse states that the author has treated the subject of Lingānuśāsana in 38 verses, of which 27 verses deal with Napumsakalinga, 6 verses are devoted to Pumlinga, and the next 5 verses elaborate the Strilinga.] नपुंसकलिङ्गमाह नाम नपुंसकलिङ्गमिदं लस्तुत्वतनत्तहलोररुयं द्वयच् । म च गृहे जरतं च तमो द्वास्तालुरणार्धनपूर्हृदयं भम् ॥ १ ॥ नामेत्यादि । यद् व्युत्पत्तिमन्तरेणार्थप्रतीतिकरमनादिसमभिधानं तन्नाम । रूढिशब्द इत्यर्थः । तदधिकृतं वेदितव्यम् । नपुंसकलिङ्गं चा पुंल्लिङ्गात् स्यात् । ल-स्तु-त्व-त-न-तशब्दान्तं नप् । जलम् । मस्तु । तत्त्वम् । क्षतम् । विपिनम् । वृत्तम् । त्त किम् ? अन्यायुक्तार्थे । तुन्तः। कुन्तः। हस्तः। मुहूर्तः । धम्मिल्लः । हलोररुयम् । हल: परे ररुयान्तम् । पात्रम् । शुक्रं रेतः । देवता तु भार्गवः शुक्रः । अश्रु । सस्यम् । द्वयच् । शिसिन्तं (असिसुसन्तं ?) द्वयच् नप् । पयः। सर्पिः । इदं वयः पक्षी । रक्षः राक्षसः । तमः राहुः । रित्वात् आणि देवस्य पुंस्त्वं प्राप्तं बाधते । सन्तमेव रित् परं बाधते नान्यम् । तेनायं पारापतः पक्षी। असनं वृक्षः । पुत्रः । शत्रुः आर्यः। मं च । द्वयज् मन्नन्तम् । कर्म । द्वयचौ किम् ? स्थूलशिराः । ना । तरीमा कल्पः । गृहे जरतं च । गृहति ज-र-तां तं च । प्रागुक्तं तं च । इतो रितोद्वैयर्चादित्वात् तल्लिङ्गास्त्वार्षाः। र्ज। उटजम् । उटजः मुनिगृहम् । मन्दिरम् उदवसितम् । पुनस्तं तसंयुक्तार्थम् । निशान्तं च किम् ? भवनं वेश्म धिष्ण्यं हर्म्यम् । एतत् किम् ? आवसथः । वत्सादे म । तमः तिमिरं ध्वान्तम् । तथा द्वारं गोपुरम् । तालु काकुदम् । रेणं मृधं युद्धम् । धनं स्वापतेयं वसु । पुरं पत्तनम् । हृदयं चित्तम् । भं नक्षत्रम् ॥ १॥ रं च तनोर्दलखामृतदुःखमांसहिमं मुखशमघ विड् भी। पुण्य बिलौषधवस्त्रजलासदारुधनुर्शिखराजिरपिच्छम् ॥ २॥ रं चेत्यादि । रं तं च प्रागुक्तम् । तं च । तनोः शरीरस्य नाम कडेवरं (कलेवरम्) च । किं च वपुः क्षेत्रम् । रं किम् ? कायः दलादीनां नाम हलोदरान्तानां नाम । दलं पर्ण पलाशम् । खम् इन्द्रियं हृषीकम् अक्षम् । खं किम् ? अक्षश्चन्दकः। तथाऽथ खम् आकाशम् अम्बरं वियत् विहायः। अमृतं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10