Book Title: Buddhisagarsuri Linganusasan with Auto Commentary
Author(s): N M Kansara
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf

Previous | Next

Page 9
________________ नारायण म० कन्सारा लिङ्गं स्त्रियां योनिमतां तथोद्यान् शिष्टे छैनौ दीधितिलिद्दरद्धल् । जात्याजिभाः पूरुदुकाकुरज्जुकुस्वायुछदिस्तनुबन्धुविट्याः ।। शरज्जलौकः सुमनोऽप्सराः द्यौः वर्षाः समाऽऽपः सिकता गाथाः ।।३४।। लिङ्ग स्त्रियामतो वेदितव्यम् । योनिमतां भगवतां यन्नाम। माता जननी, स्वसा भगिनी, दुहिता सुता, ननन्दा भर्तृभगिनी । याता देवरभार्या । दनु कद्रुदितयो दानवनागदैत्यमातरः । योषित् युवतिः । स्त्री भार्या । जाया पत्नी। तथोद्यान् । ऊत् । कमण्डलू:, अलाबूः । डीप् । आड् । व्यावक्रोशी । भावे । शमी, रोहिणी, शिंशपा, पाटला, तरुत्वात् पुसि प्राप्ते। यूका, पिपीलिका, प्राणित्वात् । द्राक्षा तिन्तिरीकादि फलत्वान्नपि । मल्लिका, मालती, केतकीत्यादि पुष्पत्वात् । ग्रामता, रथकट्या, खलिनीत्यादि समूहार्थत्वाद् इत्युक्तापवादः । अनुक्तोऽपि । करुणा, दया, लीला, माला, स्रगित्यादि। उद्यान् किम् ? यवलू:. ग्रामणीः, कीलालपाः वाच्यलिङ्गाः । शिष्टे छैनौ दीधितिलिद्दरद्धल् । शिष्ट उक्तादन्योऽनुक्त इत्यर्थः । इदन्त द्रुशब्दान्तादि इत् । इयं रुचिः, धूलिः, दविः । इयं दद्रुः त्वग्दोषः, शतद्रुः नदी, नौः द्रोणी, दीधितिः रश्मिः । लित् प्रत्ययः । वृक्षता, प्रभुता । भावेऽपि । इयं दरत् हृदयम् । हल् । इयं त्विट् दीप्तिः, विप्रुट् शीकरः, समित् इध्म, वीरुत् गुल्मम् । यत्तु स्त्रियामेव साधितं तदनामापि । संपत्, विपत्, कृतिः, भक्तिरित्यादि । शिष्टः किम् ? मुनिः, पतिः, हरिः, इन्द्रः, सितद्रुः अब्धिः, हरिद्र : तरुः, शतद्रुः नदः । उदन्वान् । अनड्वान् । जात्याद्या स्त्रीलिङ्गाः । वर्षाद्याः । जसन्तत्वाद् बहुवचनान्ताश्च ॥३४॥ सत्यादि योन्यादिमरीचिपाटलिश्रोण्यूमितुट्यो मषियष्टिशाल्मलि । कर्कन्धुमण्य स्तिथिबस्ति मुष्टयोऽरणीषुधीष्वस्तरणिश्च कम्बलः ।।३५।। सत्यादीति । विंशत्याद्या संख्या स्त्रियां स्यात् । संख्येये एकार्था च । विंशतिः पुरुषाः स्त्रियः कुलानि वा इत्याधुक्तम् । योन्यादिः कटसन्तः । अप्यास् इति पुसि पाठात् पुलिङ्गश्च । इयं योनिः, अयं योनिः, भग इत्यादि । कम्बली मे, कम्बल मे च ॥३५॥ शल्लक मल्लक वृश्चिकशाटाः बाहुवराटकपुत्रसपाटाः। कन्दरजाटलि दंशकलम्बाः मन्वशनिकुटस्वाति किटाश्च । रेणुमुनिर्पिटकोहि कुटिश्च शिल्पचतुद्विपदाभ्यभिधानम् ॥३६॥ गाथा ।। शिल्पचद्विपदां चाभिधानम् । एषां नाम उभयं स्यात् । शिल्पी शिल्पः एवं वरटी वरटः, सुवर्णकारी सुवर्णकारः, कलादी कलादः, नापिती नापितः। चतुष्पदानां हस्तिनी हस्ती, कूर्मः कुर्मी । द्विपदानां ब्राह्मणी ब्राह्मणः, क्षत्रिया क्षत्रियः, शूद्रा शूद्रः, मयूरी मयूरः, योनिमतामिति सिद्धे । सयोनिशब्दो न स्त्रीत्यर्थम् । यावत् कटी प्राण्यङ्गः कटः वीरणकृतः ॥३६॥ मृत्युर्घटः कण्डुविभीतको तटः भल्लातकश्चामलको हरीतकः । पात्रं कपालोदरभण्डली पुरः वटोऽवटः स्यात् कलशः पटो मठः । पुरो विषाणो नखरोऽपि शृङ्खलः द्रोणोऽपि वल्लूर कटस्प्रिययङ्गराच् ॥३७॥षट्पदी॥ विभीतकादि कटसन्तः नपि च विश्पाठात् त्रिलिङ्गः। विभीतकी, विभीतकः, विभीतकम् । तटी, तटः, तटम् । यावत् कटम् । पोश् पुंस्यपि । विश् नप्यपि प्रत्याहारार्थम् । प्रियङ्गु राजकः । आच् । अच्चेत्यादि रशिषौच (?)। यावदत्र पाठात् स्त्रीत्वं च । पञ्चखट्वीत्यादि । षट्पदीयम् ॥३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10