Book Title: Buddhisagarsuri Linganusasan with Auto Commentary
Author(s): N M Kansara
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf
Catalog link: https://jainqq.org/explore/250035/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ BUDDHISÁGARASŪRI'S LINGĀNUŚĀSANA WITH AUTO-COMMENTARY N. M. Kansara Introduction Buddhisāgara sūri, the disciple of Vardhamānasūri of Candra-gaccha, was contemporary and co-disciple of the famous Jineśvara sūri, the arch-patriarch of the future Kharatara-gaccha. He flourished in the first half of the eleventh century A. D. Jineśvara sūri mentions at the close of his Pramānalaksana that he and his co-disciple Buddhisāgara süri undertook to compose a work on nyāyalaklaņa (epistemology) and vyākaraṇa (grammar) respectively, with the express motive to meet the criticism that the Jainas wrote on work of their own on these twin subjects. Thus, Buddhisāgara sūri composed his Pañca-granthi-vyäkarana, also known after the name of the author as Buddhisāgara-vyakarana. Further, Jinesvara sūri declares that the vyakarana work in question was in verse and composed after consulting the work of Pånini, Candra, Jainendra, and Vibrānta, as also the Durga-ţikā. H. D. Velankar, in his Jina-ratna-koša, has noticed that this work has been alluded to in S. 1095/A.D. 1035 by Dhanesvara sūri (Candra-Kharatara gaccha) in his Surasundari-katha, in S. 1120/A. D. 1064 by Abhayadeva sūri (Candra-Kharatara gaccha) in his Pañcāśaka-uftti, in S. 1125/A.D. 1069 by Jinacandra sūri (Kharatara gaccha) in his Samvegarangaśālā, in S. 1139/A.D. 1083 by Guņacandra sūri (Candra-Kharatara gaccha) in his Mahavira-carita and next by Jinadatta sūri (Kharatara gaccha) in his Ganadhara-sārdha-śataka. It is likewise noticed by Padmaprabha in his Kunthunātha-carita and lastly in S. 1334/A.D. 1278 by Prabhācandrācārya in his Prabhāvaka-carita. (The manuscripts of these works have been listed in the catalogues of the Jaina Bhandars at Jesalmer, Baroda, Ahmedabad and Patan. Some of these are also available in print.) The Pañca-granthi-vyäkarana enjoys a unique place in the history of Sanskrit grammar in that it is the first work of its kind composed in metrical style, accompanied by an auto-commentary, and that it is prior in date to the famous Siddha-Hema-Sabdānušāsana of Hemacandra. Jinesvara sūri has noted that the extent of the work was about seven thousand flokas, and that it was completed in S. 1080/ A.D. 1024 at Jābālipura (Jālor) in Rājasthān. Possibly the title “Pañca-granthivyakarana" is given the work to suggest that the author has covered in it all the topics connected with samjñā, dhātu, gama, uņādi and lingānušāsana. The Lingānušāsana of Buddhisāgara sūri, which is here edited for the first time, is not an independent work like that of Vămana or of Durgasimha. It is incorporated in the Pañcagranthi-vyākarana, in the initial 38 gāthas of the second Page #2 -------------------------------------------------------------------------- ________________ Buddhisāgarasüri's Lingānus asana with Auto-Commentary 39 adhyāya. In the mss., the verses are not serially numbered. Instead, they are de novo numbered after the completion of the topic of each of the genders. Thus the initial 27 verses deal with the words used in the neuter, the next six treat the words used in the masculine, and the next five refer to those used in the feminine gender. These groups also include those words having two or three genders as might be relevant to the group. The work to a large extent is influenced by that of Vamana, and those words which have not been included by Vámana are drawn from the work of Durgasimha. The peculiarity of the mss. of the work is that they first give the topicwise verses continuously in a group and then follows the auto-commentary on them in order. My attention was drawn to this Buddhisāgara sūri's grammar by Pt. Dalasukhbhai Malavania when I consulted him with regard to the Sarasvati-kanthabharaṇa vyākaraņa of Bhojarāja. He casually mentioned about Pancagranthi-vyakarana, adding that a ms. of this work was first studied by Pt. Bechardasji Doshi, and later on the same was sent to M M. Professor Kashinath Shastri Abhyankar, and that both the scholars opined that it was too corrupt to make out the contents of the work. At first, out of sheer curiosity, and next with a desire to take up the challenge, I started copying the ms. afresh, although some folios formerly had been copied to the extent of about 80 pages, and I copied about 29 further folios. For about the initial 13 folios, I was walking in dark and passing through a jungle of phrases which gave no clue to the topic under discussion. But, in the middle of the thirteenth folio, the statement purporting to the end of the Lingānus asana gave me hope and I could locate the whole work as starting from the beginning of the second adhyāya. The next difficulty was about determining the correct readings of the text from the highly corrupt readings in all the mss. available to me, since they were copied from the same criginal, and repeated almost the same scribal errors, and at times added a few more by way of their own contribution, which further confused the issue. The Lingānušāsana of Vamana and Durgasimha were helpful towards this end, especially since in many cases the illustrations in the auto.com. mentary paralleled both in sequence as well as substance. In this paper I have preferred, after the manner of the editor (Smt.) Vedavati Vyākaraṇopādhyāyā of Vāmana's Lingānušāsana, to give merely the critical text. I have left the details of variant readings for a comprehensive independent edition with comparative notes and an index, as also a detailed discussion about the life, date and works of the author, as has been done by Koparkar in his edition of Durgasimha's work. My object in publishing this text of Buddhisāgara sūri's work is to draw the attention of Sanskrit scholars in India and abroad to this pre-Hemacandra Sanskrit laksana-śāstra. Page #3 -------------------------------------------------------------------------- ________________ श्री बुद्धिसागरसूरिकृतं लिङ्गानुशासनम् (स्थोपज्ञवृत्तिसनाथं पञ्चग्रन्थिव्याकरणाङ्गभूतं च) सम्पादकः-डॉ० नारायण म० कन्सारा _ [अथ लिङ्गानुशासनम् ] सप्ताधिका विंशतिरत्र २७, पुंसि षट् च, स्त्रियां पञ्च तु वृत्तभेदः । [ अत्र नपुंसकलिङ्गे This semi-verse states that the author has treated the subject of Lingānuśāsana in 38 verses, of which 27 verses deal with Napumsakalinga, 6 verses are devoted to Pumlinga, and the next 5 verses elaborate the Strilinga.] नपुंसकलिङ्गमाह नाम नपुंसकलिङ्गमिदं लस्तुत्वतनत्तहलोररुयं द्वयच् । म च गृहे जरतं च तमो द्वास्तालुरणार्धनपूर्हृदयं भम् ॥ १ ॥ नामेत्यादि । यद् व्युत्पत्तिमन्तरेणार्थप्रतीतिकरमनादिसमभिधानं तन्नाम । रूढिशब्द इत्यर्थः । तदधिकृतं वेदितव्यम् । नपुंसकलिङ्गं चा पुंल्लिङ्गात् स्यात् । ल-स्तु-त्व-त-न-तशब्दान्तं नप् । जलम् । मस्तु । तत्त्वम् । क्षतम् । विपिनम् । वृत्तम् । त्त किम् ? अन्यायुक्तार्थे । तुन्तः। कुन्तः। हस्तः। मुहूर्तः । धम्मिल्लः । हलोररुयम् । हल: परे ररुयान्तम् । पात्रम् । शुक्रं रेतः । देवता तु भार्गवः शुक्रः । अश्रु । सस्यम् । द्वयच् । शिसिन्तं (असिसुसन्तं ?) द्वयच् नप् । पयः। सर्पिः । इदं वयः पक्षी । रक्षः राक्षसः । तमः राहुः । रित्वात् आणि देवस्य पुंस्त्वं प्राप्तं बाधते । सन्तमेव रित् परं बाधते नान्यम् । तेनायं पारापतः पक्षी। असनं वृक्षः । पुत्रः । शत्रुः आर्यः। मं च । द्वयज् मन्नन्तम् । कर्म । द्वयचौ किम् ? स्थूलशिराः । ना । तरीमा कल्पः । गृहे जरतं च । गृहति ज-र-तां तं च । प्रागुक्तं तं च । इतो रितोद्वैयर्चादित्वात् तल्लिङ्गास्त्वार्षाः। र्ज। उटजम् । उटजः मुनिगृहम् । मन्दिरम् उदवसितम् । पुनस्तं तसंयुक्तार्थम् । निशान्तं च किम् ? भवनं वेश्म धिष्ण्यं हर्म्यम् । एतत् किम् ? आवसथः । वत्सादे म । तमः तिमिरं ध्वान्तम् । तथा द्वारं गोपुरम् । तालु काकुदम् । रेणं मृधं युद्धम् । धनं स्वापतेयं वसु । पुरं पत्तनम् । हृदयं चित्तम् । भं नक्षत्रम् ॥ १॥ रं च तनोर्दलखामृतदुःखमांसहिमं मुखशमघ विड् भी। पुण्य बिलौषधवस्त्रजलासदारुधनुर्शिखराजिरपिच्छम् ॥ २॥ रं चेत्यादि । रं तं च प्रागुक्तम् । तं च । तनोः शरीरस्य नाम कडेवरं (कलेवरम्) च । किं च वपुः क्षेत्रम् । रं किम् ? कायः दलादीनां नाम हलोदरान्तानां नाम । दलं पर्ण पलाशम् । खम् इन्द्रियं हृषीकम् अक्षम् । खं किम् ? अक्षश्चन्दकः। तथाऽथ खम् आकाशम् अम्बरं वियत् विहायः। अमृतं Page #4 -------------------------------------------------------------------------- ________________ लिङ्गानुशासनम् पीयूषम् । दुःखं [कष्टम्] । मांसं पलं तरसम् । हिमं तुहिनं तुषारम् । मुखं तुण्डम् । पुष्करं मुरजमुखम् । शं सुखं शर्म । अघं पापं वृजिनम् । विट् पुरीषम् अशुचि । भयं साध्वसम् । नाम किम् ? भीः भीतिः । पुण्यं सुकृतम् । बिलं विवरम् । ओषधं भेषजम् । वस्त्रं चीवरम् । जलं तोयम् । असं रुधिरम् । दारु काष्ठम् । धनुश्चापम् । शिखरं टङ्कम् । अजिरं प्राङ्गणम् । पिच्छं बहम् ॥ २॥ .. हलोदराणां फलपुष्पलोहमण्डनोद्भिजव्यञ्जनजात्यपत्यतो-। काणां क्रियाचादिविशेषचार्थाद् ऐक्ये द्वित्रिपात्रादि च चादितः पथः ।। ३ ॥ . हलेत्यादि । उदरं जठरम् । फलादिजातीनां च नाम । फलं कपित्थं लकुचम् । पुष्पमुत्पलं मुद्गरकम् । लोहेनाग्निविलेयस्य कांस्यादेग्रहणम् । लोहं कृष्णं कालायसं, स्वर्ण सुवर्ण, रूप्यकं, त्रपु वङ्गं, सीसकं नागं, तानं शुल्वं, सिक्थं मदनं, जतु [लाक्षा] | मण्डनम् आभरणं केयूरम् अङ्गदं कटक मुकुटम् । उद्धिजं बिडं सैन्धवं रोमकं लवणम् । व्यञ्जनम् उपदं शं दुग्धं दधि उदश्वित् मधु माक्षिकम् । तथा अपत्यं तोकम् । नानयो म । द्वयोर्ग्रहणात्तु सूनुः । क्रियाचादि विशेषचार्थदैक्यै । क्रियायाः चादेश्च विशेषो विशेषणं नप् । ऐक्ये एकत्वे च वर्तते। मृदु पचति । नीचं याति । चादेः पुरस्ताद् रमणीयम् । दिग्देशः कालो वा । निर्देशादनामापि । सविनयं पृच्छति । चार्थदा चार्थो द्वन्द्व एकत्वे वर्तमानो, दालक्षितो, अव्ययीभावश्च नप् । पाणिपादं, हस्त्यश्वम्, अहोरात्रम् । दा। अधिरित्र, उपबन्धु, पञ्चनदं, शनैगङ्गम् । दित्वादन्यपदार्थेऽपि न वाच्यलिङ्गता। द्वित्रिपात्रादि च । द्वित्रीति समाहारद्विगुः। पात्राद्यन्त एकत्वे वर्तते । त्रीणि पात्राणि समाहृतानि त्रिपात्रं त्रिभुवनं, चतुर्युगं, चतुष्पथं, त्रिरात्रम् । चादितः पथः। चादिपूर्वपथः कृतसमासान्तो नप् । शोभनः पन्थाः सुपथं, दुष्पथं, कापन्थम् । चादेः किम् ? जल अपन्थाः। स्विति पूजायाम् । चानुवृत्ते यथाप्राप्तं च द्विपथम् । अन्यार्थेऽपथो देशः ॥३॥ र्डस्त्येतदादित्व उपक्रमोपज्ञे नाम्नि कन्था यदुशीनरेषु । छाया बहूनां च सभा च सङ्घराजर्थरक्षः सदृशां गृहे तैः ॥ ४ ॥ उंसोत्यादि । डंस्त्येतदादित्व उपक्रमोपज्ञे । उपक्रम्यत उपज्ञायत इति भावाख्ययोघण् । डौते तच्छखः। एतयोरादित्वे प्राथम्ये गम्यमाने डस्तीति षष्ठी। समासे सति । नन्दोपक्रमाणि मानानि । नन्देनादौ कृतानि । पाणिनस्योपज्ञा पाणिनोपज्ञमकालकं व्याकरणम् । चन्द्रोपज्ञमसंज्ञकम् । एतदादित्वे किम् ? देवदत्तोपक्रमः प्राकारः। तदपज्ञो रथः। नाम्नि कन्था यशीनरेषु डॅस्ति । संज्ञार्थे कन्था । सौशमिकन्थम् । आह्वरकन्थम् । नाम्नि किम् ? वीरणकन्था। उशीनरेषु किम् ? दाक्षिकन्था । ग्रामसंज्ञा । सोऽयं न चोशीनरदेशे । छाया बहूनां च । बहूनां सतां सत्का छाया, तैः सह कृतषष्ठ्यन्तसमासो नप् । शलभानां छाया शलभच्छायम् । इषुच्छायम् । बहूनां किम् ? वृक्षस्य च्छाया वृक्षच्छायं, वृक्षच्छाया । नित्यमिदम् । तैः किम् ? शलभानां परमच्छाया । सभा च सर्छ । सभा नए सङ्के वाच्ये, येषां सङ्घस्तैः सह समासे । स्त्रीसभं, विप्रसभम् । तसङ्घ इत्यर्थः। राजार्थरक्षः सदृशां गृहे तैः। राजाभिधेयो येषां शब्दानां तेषां सत्का सभा, तैः सह समासे गृहे भवने वाच्ये । चानुवृत्तेः सङ्घ च । इनसभं, ईश्वरसभं, नृपतिसभम् । राजार्थानां किम् ? जगत्तुङ्गसभा। अर्थग्रहणाद् राज्ञापि न । राजसभा । रक्षः सदृशां सत्का सभा, भवने सङ्घ च वाच्ये, तत्समासे नप् । राक्षससभं, पिशाचसभम् ॥ ४॥ स्वाङ्गे सुहृन्न्यायदलेषु धर्मे मित्रेऽथ सारार्धमु कर्मभावे-। ऽणादिः समूहे च कृदच्च भावे भक्तास्पदात्तं यवसं पुरीतत् ॥ ५ ॥ Page #5 -------------------------------------------------------------------------- ________________ नारायण म० कन्सारा स्वाङ्ग इत्यादि । स्वाङ्ग सुहृल्यायदलेषु धर्मे मित्रेऽथ सारार्धम् । स्वाङ्गादिष्वर्थेषु धर्मादयो नप । स्वाङ्गे धर्मसाधने क्रियाकल्पे। इदं धर्मम् । एतानि धर्माण्यासन् । सुहृदि, मित्रं सखा। न्यायादनपेते, इदं सारम् । दले समप्रविभागे । अधं पिप्पल्याः । एषु किम् ? एष धर्मः सनातनः। मित्रो रविः । सारः प्रधानम् । ग्रामार्थः । उ निपातः। कर्मभावेऽणादिः समूहे च कृवच्च भावे । कर्म । पथोऽत् । अदन्तस्तद्धितभावे नप् । ब्राह्मणस्य भावः कर्म वा ब्राह्मण्यम् । आधिपत्यम् । भावे श्वेतत्वं श्वैत्यम् । काष्ण्यं, दाढ्यं, गौरवं, मार्दवं, स्तेयम् । अदन्तः किम् ? ग्रामता, गरिमा । समूहे भैक्षं, कापोतं, राजन्यकम्, अश्वीयम् । कृदपि भावप्रत्ययान्तो नप् । हसितं तस्य । शोभनं भक्तम् । लब्धं सिद्धम् । करणम् । सांराविणम् । सान्द्रविणम् । वर्तते णिन् । ततोऽण् । आसितव्यं, शयनीयं, स्थेयम्, अवध्यं, कार्यम्, ईषदाढ्यंभवं, देवभूयं गतः। देवत्वं गत इत्यर्थः। अत् किम् ? कृपा, कृतिः, भिदा । घणाद्यन्तानां तु पुंल्लिङ्गं वक्ष्यति । अध्वरः घनः, किकान्त (?) इति । भक्तम् अन्नम् ओदनः । आस्पदं प्रतिष्ठा । यवसं घासः । पुरीतत् अन्त्रम् ॥ ५ ॥ कुहकचिबुके लिङ्गं बीजं ललाटविटे पिटं कणिशबडिशे शीर्षाक्ष्यण्डं कुटुम्बसमीपदम् । सबुसपलिशे रूपं तल्पं कुसीदमृणं गुदं क्रकचशरणे शिल्पं पृष्ठं कुकुन्दरचामरे ॥ ६ ॥ कारणकारकलोष्टकरोटं साहसकुङ्कमकित्वनिरुक्तम् । अक्षरमन्तरमूषरदैवतबाहु च जानु कसेरु च वैरम् ॥ ७॥ सिध्मेध्मकुर्पोडुपयुग्मगुल्मश्राद्धं गृहस्थूणशरोर्णरत्नम् । चिह्नान्तरीपोक्थबिसार्धटाहः पात्रोल्मुल्काभ्रं कुलिशं कलत्रम् ।। ८ ।। लोकायतालीढभगेगुदाङ्गं स्फारं शर्फ गह्वरबाष्पशष्पम् ।। शालूकवृन्दं पदराजसूयं सूक्तं प्रियं तुम्बरुवाजपेयम् ।। ९ ॥ कान्तारतीरे शिशिरं करीरं शृङ्गाङ्गदूराररिभाण्डसक्थि । सूणोष्णपीठं शवगन्धमादने चैकपुण्यात् सुदिनादहं स्यात् ।। १० ।। कुहकेत्यादि । अतो अदन्तादिपुंस्त्रीत्वे प्राप्ते नए । कुहकमित्यादि सुगमम् । यावद्दशमान्ते एकपुण्यात् सुदिनादहं स्यात् । कृतसमासान्तम् । एकाहं, पुण्याहं सुदिनाहम् ॥ ६-१० ॥ किसलयजगच्च भुवनं त्रिविष्टपं कशिपुपञ्जरं कलभम् । प्रातिपदिकं कुटीरं यकृदप्यव्यक्तलिङ्गोक्तौ ॥ ११ ॥ तथा अव्यक्तलिङ गेक्तौ । अव्यक्तस्यास्पष्टस्य लिङ्गस्योक्तावभिधाने यत् प्रयुज्यते तन्नप् । कि तस्यागमे जातम् ? यत् तत्रोत्पद्यते तदानेयम् । इमानि गोरूपाणि गावो बलीवर्दाश्च समेता उच्यन्ते । भूतानि सर्वे प्राणिनः । सप्तमी किम् ? यच्छिष्टैरव्यक्तलिङ्गोक्तौ प्रयुज्यते तन्नप् । तेन सुतशिशुगोसिन्धुशब्दानां न नप्त्वम् ॥ ११ ॥ सङ्ख्येय सङ्ख्यैकपराशताद् यत् आन्तदिगुर्डस्तिसुरानिशाच्छा-। याशालसेनानगराचिषोऽत्विश् अर्धर्चवाराशनमन्धकारः ।। १२ ।। Page #6 -------------------------------------------------------------------------- ________________ लिङ्गानुशासनम् सङ्ख्येत्यादि । सङख्यकपरा शताद् यत् । शतापि सङ्ख्याऽदन्ता नप् । सङ्ख्येये वर्तमाना एकपरा एकार्थनिष्ठा च स्यात् । शतं पुरुषाः स्त्रियः कुलानि वा । एवं सहस्रम् अयुतम् । अत् किम् ? इयं लक्षा कोटी च । अयं शङ्कः। सङ्ख्येये किम् ? शतं नणां, द्वे शते, त्रीणि शतानि । सङ्ख्या किम् ? लिङ्गाधिकारे सर्वसङ्ख्यार्थम् । तेज शत्यादि स्त्रियां वक्ष्यति । सङ्ख्येये सङ्ख्यैकार्थपरा स्यात् । विंशतिः पुरुषाः । एवं त्रिंशत्, नवतिः। विंशत्या पुरुषैः । सङ्ख्येये किम् ? पुरुषाणां विंशतिः, द्वे विशती, तिस्रो विशतयः। आन्तदिगुः । आकारान्तोऽनन्तश्च द्विगुर्नप्। स्त्रिया अ युत्याहार गत् । स्त्रीलिङ्गं चातः यावत् । षिति । पञ्चखट्वं, पञ्चखट्वी । दशमालं, दशमाली । अनु । पञ्चतक्षं, पञ्चतक्षी । पञ्चराजं, पञ्चराजी । ईस्ति । षष्ठीसमासे सुरादि च । यवसुरं, यवसुरा। भूतनिशं, भूतनिशा । वृक्षच्छायं, वृक्षच्छाया । गोशालं, गोशाला । क्षत्रियसेनं, क्षत्रियसेना । नगरं, नगरी । इदं इयं वा अचिः ज्वाला च । अत् प्रत्याहारार्थः। विशिति स्त्रियां विभीतकादिः। कट संघता(?) । विश्प्रत्याहारोऽत्र पागन्वप् (?) च । विभीतकमित्यादि । अर्धर्चाद्यन्तेऽप् नप् । अप् प्रत्याहारार्थम् । अपः पुंसि पाठात् पुंलिङ्गत्वं च । अर्धर्चम्, अर्धर्चः । वारं, वारः इत्यादि । अष्टादश दिनस्य कमण्डलुः । दिननामाप्युभयम् । दिनं, दिनः । दिवसं, दिवसः । वासरं वासरः । अहर्नपि षविशे(?) ॥ १२ ॥ ओदनचन्दनशृङ्गविधानाः तालखलीनमठासनपानाः । स्तेनविमानयुगन्धरसूत्राः गोमयपत्रपवित्रकषायाः ॥ १३ ॥ मालकपुस्तकमस्तकनिष्काः मोदकमञ्चकशाटकशूकाः । मूषिकतण्डककर्पटशुल्काः क्ष्वेडितपातकभूषणकूटाः ॥ १४ ।। अर्बुदलोहितयौवनवृत्ताः आश्रम संक्रमसङ्गमबिम्बाः। देहसुवर्णवसन्तपलालाः कुण्डलतैलतमालमृणालाः ॥ १५ ॥ मङ्गलशम्बलशालकरीषाः तोरणतोमरपार्श्वशरावाः । कर्षदृढामिषमूलसहस्राः माषबलोपलविक्रमशीलाः ॥ १६ ॥ चरकचषको खण्डं मुण्डं तडागकरण्डको निकटकपटौ कुण्डं काण्डं विहारनडायुताः। पूलिननलिनी षण्डं दण्डं शरीरतृणवणाः शरकशयनौ गूथं यूथं चषालमलौ तलः ।। १७ ।। शकलचमसौ मुस्तं बुस्तं शतव्रतदेवताः चरणकवचौ हस्तं पुस्तं दिनश्च कमण्डलुः । समयकवियो दोपं द्वीपं पिनाकतटवजाः करकशकरौ नेत्रं मूलं रसांशनखवणाः ॥ १८ ॥ ऐरावतप्रयुतसान्ववतंसजृम्भाः कसिबाणभुवनाशकाशकोशाः । वल्मीकशाकवरपारविटङ्कतका अङ्गारताण्डवकिरीटकपालवालाः ॥ १९ ॥ पूर्वप्रवालशतमानकबन्धतीर्थाः गाण्डीवगेहमलयाम्बुजजन्तुसूर्याः । कार्षापणाव्ययवितानसपल्लवापरालोपवासफलकोत्पलवारबाणाः ॥२० ।। शेखरखण्डलदाडिममध्याः कर्कशताडनकुट्टिमराष्ट्राः। द्वीपिनवल्कलमण्डपवप्रा अङ्कुशवास्तु च कुञ्जरभावी ॥ २१ ॥ Page #7 -------------------------------------------------------------------------- ________________ नारायण म० कन्सारा कुतपो विटपो निगडो रजतः ककुदो महिमा वलयो निधनम् । तिमिर मुशलं कमलं कललं समर कुमुदं कुसुमं पलितम् ।। २२ ॥ प्रग्रोवपात्रीवपुसीरपिष्टौ अर्चस्कचक्रौ कुणपोऽप्यरण्यम् । अष्टापदः स्थाणु च पुच्छकूर्ची उद्योगमुद्यानशरौ च नीडः ॥ २४ ॥ शैलद्यूतौ शौचं कुष्ठं पूलस्थानौ शल्यं कुल्यम् । प्रेमप्रेषौ मौनं मानं कर्मस्नेही लोमन् ब्रह्मन् ॥२५॥ मुष्काकाशौ क्षेमं क्षीरं शङ्खः पद्मः स्यादम्भोजे ।। भूतप्रेते पक्ष्मामौ च शङ्कः पाशः पिण्डः सत्त्वम् ॥२६|| शङ्कः पद्मः स्यादम्भोजे । जलजेऽर्थ उभयलिङ्गौ स्तः । निधिः पुस्येव । भूतः प्रेते पिशाचेऽर्थे उभयलिङ्गः। अन्यत्र भूतम् उपचितम् । भूतानि प्राणिनः । उपमानक्रियावचनश्चाभिधेयलिङ्गः। पितृभूतोऽयं, पितृभूतमिदम् । पद्मः, पद्मम् । तूलम् (?)। अर्मम् अक्षिरोगः । शङ्कः संख्या । पाशः बन्धनम । पिण्डः काय:, पिण्डम् अयः । सत्त्वं गुणः, सत्त्व : प्राण, इत्यादि ॥२६॥ उद्यमपटहप्रतिसरमरककमठसैन्धवो लवणे । कण्टकमूलकपटला : कन्दरमुकुलोऽस्त्री मण्डलं रित्प् नप् ॥२७॥ मुकलोऽस्त्री। मण्डलोऽपि । अत्र लिङ्गाधिकारे यो रित् सोऽत्रापि नपार्थम् । अर्चेति द्वयच्सु यदुक्तं तदन्तं त्र्यच्कार्ये । कुटजं कुटज : मुनिगृहम् । रणः रणं युद्धम् । एवं र्धनमा॑सहिमऔर्षधवस्त्रदारुशिखर हल लोहफल क्रंकचदैवगुल्मर् कान्तारमण्डलपिटकाः । स्त्रियां वर्षाः। पुंसि वज्रमासवणर्नालादि विषर्शगुह इत्यादि । रित्प । पकारः प्रत्याहारार्थः । नपुसकलिङ्गान्ते नप् । अधंर्चाद्यन्ते अप् । नप समाप्तम् ॥२७॥ पुस्यत्स्तुदब्धणुधना किकान्तः कूपाब्धिपुष्यासिनदाब्द कोष्ठाः । स्वर्वज्रदन्तच्छिदिचक्रिरश्मि धान्यक्रतोः प्राण्यगदैत्यराट्सु ॥२८॥ पुंसीत्यादि । अतः परं लिङ्गं पुसि ज्ञेयम्, आ स्त्रीलिङ्गात् । अत् स्नुत् । अदन्तः सन्तः शब्दः पुसि । अत् वृक्षः घटः । स् अङ्गिराः, दोर्बाहुः । न प्लीहा व्याध्यंशः, मूर्धा शिरः। उत् सेतुः जलबन्धः, केतुः ध्वज इत्यादि । परोऽन्ते किम् ? भावे गरिमा महिमा । भावादन्तादि नप्त्वे प्राप्ते अपघण्ण घोनाकाम् । अतः किम् ? स्तुस्त्रीत्वेभ्योऽप् । शरः, जयः, गमः, अपघनः, हव इत्यादि । घण् अकर्तृभावे । पाकः, त्यागः, निकेतो गृहं, क्लेशो दुःखम्, अलङ्कार आभरणम् । न्यादाणः न्यादयः । पचादेर्घः । पे कः । उरच्छदः । न । कायज् वा चादेः । यज्ञः, यत्नः, पाप्माः । आजाद्यान् । कः । विघ्नः । आखूत्थो वर्तते । अन्तत उकिः । अन्तद्विनिचिः । जलधिः । सूबे व्यत्ययश्छन्दोऽर्थम् । कूपादीनां नाम च । कूपः, प्रधिः, उदपानः। अब्धिः, समुद्रः, उदन्वान् । पुष्यः, सिध्यः। असि:, करवालः । नदः, भिद्यः, उध्यः, लोहितः। अब्दः, घनः, जीमूतः, शरण्यः । कोष्ठः, कुशूलः, पलतः। स्वः, त्रिदिवः, इरामतिः। वज्रः, पविः, दम्भोलि:, शतकोटिः । दन्तः, रदनः, दशनः । च्छिदिः, भिदिः, परशुः । चक्री, स्यन्दनः। रश्मिः, घृणिः। धान्यः, शालिः, व्रीहिः, तिलः । क्रतुः, वितानः, यज्ञः । विभक्त्यन्तसङ्घात् प्राण्यादीनां तद्भेदस्य च नाम । पिता, भ्राता। सप्तिः, कपिः, कृमिः, तिमिः । वृषलः, कुलालः, मर्त्यः मनुष्यः। विट्, वैश्यः, वणिक् । अनड्वान् । पारापतः, कपोतः। तद्विशेषस्य । दूतः, पण्डितः, कविः, यतिः, विपश्चित् । सुहृद्, दुहृद् इत्यादि । एकत्वनिर्देशाद् बहुप्राणि Page #8 -------------------------------------------------------------------------- ________________ लिङ्गानुशासनम् 45 समवाये न स्यात् । इयं श्रेणिः शिल्पिसमुदायः, परिषत् । अगः, पर्वतः शैलः, अद्रिः, गिरिः । अगो वृक्षश्चोच्यते । तद्भेदः । ताल:, तमाल:, शालः, चूतः, आम्रः, अजुनः, असनः । दैत्यः, बलिः, नमुचिः । मुनिः, असुरः । राष्ट्र जनपदः । अन्यद् गोष्पदम् । तद्भेदः । अङ्गाः, मगधाः, पाञ्चालाः, जयः । प्राग्वल्लिङ्गसंख्यैव, वक्ष्यति च ॥ २८ ॥ वर्णर्विषर्मासमरुद्ध्वनार्दो भेदस्य रात्रोऽषिनृपार्थनाभ्य- । प्यास्त्रातसङ्केतपुताश्च पोतः पाण्यङ्घिदृत्यञ्जलिराशिमौलिः ||२९|| वृत्तम् [वर्णेति ] | वर्णादेरित्वान्नप् च । तद्भेदः । नीलः, पीतः, लोहितः, हरितः । द्रव्यवाचि त्रिलिङ्गता । नीलाऽश्वा । विषः, हालाहलः, मोगरः । दुन्दुभिः । मासः शुचिः, शुक्रः नभस्यः । मरुत् देवः। तद्भ ेदः । इन्द्रः, आदित्यः, अग्नि, वह्निः । मरुद वायुश्चोच्यते । तद्भू दश्च । मरुत्, वातः, पवनः, उदानः, समानः । ध्वनः, ध्वानः, ध्वनिः, कलकलः, कोलाहलः । तद्भ ेदः । उदात्तः, अनुदात्तः स्वरितादि । ऋतु: हेमन्तः वसन्तः । रात्रोऽषि कृतसमासाजन्तो, रात्रोऽषीत्यसमाहारे । अहश्च रात्रिश्च "अहोरात्राविमौ पुण्यौ ” । सर्वरात्रः, अर्धरात्रः, वर्षा रात्रः । अषि किम् ? अहो - रात्रम् । अयं नाभिः राजा । नृपार्थं किम् ? इयं नाभिः प्राण्यङ्गम् । अप्यास् प्रत्याहारौ । अप् अर्धर्चादिः यो योन्यादिकटशान्तः ( ? ) । तौ पुस्यपि तत्र दर्शितौ । व्रातादि पुंसि ||२९|| वृष्णिगिरी वलिदुन्दुभिनाक्षो रालि जनाभिजनावमतिर्वा । नायनहाय सस्तन फेनाः शैवलपुद्गलगोलपटोलाः ||३०|| अयं दुन्दुभिः । नाझो किम् ? दुन्दुभ्या अक्षेण ||३०|| कीलकपोलगरास्तरलश्च फालनलौ सृमलावटतुला- । पाङ्गमृदङ्गगरुद्धरिदात्मा भूपुरहारकपाल निकाय्याः ||३१|| ग्रन्थिः पिचण्डः कलिकुक्षिकेलिकल्लोलकाला : विभवार्थरैर्वाः । गर्त्तोत्तरासङ्गछदाश्च मर्मन् आच्छादने वेम मकरन्दकुन्दी ||३२|| उच्चारवेधः प्रसवाश्च संवत् नाडीव्रणो यानयुगश्चषालः । श्लेष्मोष्मवेमाश्म च पाप्मयक्ष्माः लाजासुदाराः गृहवल्वजाश्च । वास्त्रा दशाशंकुचव मेढ्रौ पुस्तस्त्रियां तिस्रघनप् न नस्त्री ||३३|| 1 षष्ठो नाडीव्रणः । नाडी किम् ? शिरोव्रणम् । यानेभ्यो युगं च । रथयुगः, शकटयुगः । भ्यस् किम् ? अनोयुगः । यानेभ्यः किम् ? कलियुगम्, वस्त्रयुगम् । वाकान्तः समासः । अनुक्रान्तो वाकोऽनेनाना वा सतत् । सानुवाकः । घणन्तोऽप्यस्तु । लाजायाः जसन्तत्वाद् बहुवचनान्ताश्च स्युः । जसन्त द्वन्द्वाल्लाजतसोः पर्यार्योऽपि । इमे लाजा: अक्षता:, असवः प्राणाः, दाराः कलत्रं, गृहाः गेहूं, वल्वजाः वीरणकटः । वस्त्रस्येमे किम् ? इयं दशा वयोवस्था । सक्तवः यवभूतचूर्णः । रित्वाद् एकत्वाच्च । इदं सक्तु । चकारान् मन्त्रश्चोकारादिः । मन्त्रणं मन्त्रः । घण्यपि । वर्धः आयतं चर्म । मेढ्रः शेपः । कुठश्चाङ्कोठौ वृक्षौ । फलेऽपि पुंसि, हरीतकीवतु । षष्टपण्डौ प्राणित्वात् पुंसि । ननु नपः कार्यित्वात् लिङ्गमुच्यतां, पुस्त्रीलिङ्गे किमित्याह - पुंस्तस्त्रियां तिस्रघनप् न नस्त्री । पुस्भवीत्यत्र पुलिंगस्य कार्यमुक्तम् । स्त्रीलिङ्गस्य तु स्त्रियां तिसृचतसृ इत्यत्र भविष्यति । अथ पुस्थित्यकः (?) प्राप्तम् अष्टलन्तं ( ? ) किमित्याह - नप्ननस्त्री । यत् तत् पुंलिङ्गम् । तयोः प्राप्तयोरपवादार्थ - मित्यर्थः । पुंलिङ्ग समाप्तम् ॥३१-३२॥ Page #9 -------------------------------------------------------------------------- ________________ नारायण म० कन्सारा लिङ्गं स्त्रियां योनिमतां तथोद्यान् शिष्टे छैनौ दीधितिलिद्दरद्धल् । जात्याजिभाः पूरुदुकाकुरज्जुकुस्वायुछदिस्तनुबन्धुविट्याः ।। शरज्जलौकः सुमनोऽप्सराः द्यौः वर्षाः समाऽऽपः सिकता गाथाः ।।३४।। लिङ्ग स्त्रियामतो वेदितव्यम् । योनिमतां भगवतां यन्नाम। माता जननी, स्वसा भगिनी, दुहिता सुता, ननन्दा भर्तृभगिनी । याता देवरभार्या । दनु कद्रुदितयो दानवनागदैत्यमातरः । योषित् युवतिः । स्त्री भार्या । जाया पत्नी। तथोद्यान् । ऊत् । कमण्डलू:, अलाबूः । डीप् । आड् । व्यावक्रोशी । भावे । शमी, रोहिणी, शिंशपा, पाटला, तरुत्वात् पुसि प्राप्ते। यूका, पिपीलिका, प्राणित्वात् । द्राक्षा तिन्तिरीकादि फलत्वान्नपि । मल्लिका, मालती, केतकीत्यादि पुष्पत्वात् । ग्रामता, रथकट्या, खलिनीत्यादि समूहार्थत्वाद् इत्युक्तापवादः । अनुक्तोऽपि । करुणा, दया, लीला, माला, स्रगित्यादि। उद्यान् किम् ? यवलू:. ग्रामणीः, कीलालपाः वाच्यलिङ्गाः । शिष्टे छैनौ दीधितिलिद्दरद्धल् । शिष्ट उक्तादन्योऽनुक्त इत्यर्थः । इदन्त द्रुशब्दान्तादि इत् । इयं रुचिः, धूलिः, दविः । इयं दद्रुः त्वग्दोषः, शतद्रुः नदी, नौः द्रोणी, दीधितिः रश्मिः । लित् प्रत्ययः । वृक्षता, प्रभुता । भावेऽपि । इयं दरत् हृदयम् । हल् । इयं त्विट् दीप्तिः, विप्रुट् शीकरः, समित् इध्म, वीरुत् गुल्मम् । यत्तु स्त्रियामेव साधितं तदनामापि । संपत्, विपत्, कृतिः, भक्तिरित्यादि । शिष्टः किम् ? मुनिः, पतिः, हरिः, इन्द्रः, सितद्रुः अब्धिः, हरिद्र : तरुः, शतद्रुः नदः । उदन्वान् । अनड्वान् । जात्याद्या स्त्रीलिङ्गाः । वर्षाद्याः । जसन्तत्वाद् बहुवचनान्ताश्च ॥३४॥ सत्यादि योन्यादिमरीचिपाटलिश्रोण्यूमितुट्यो मषियष्टिशाल्मलि । कर्कन्धुमण्य स्तिथिबस्ति मुष्टयोऽरणीषुधीष्वस्तरणिश्च कम्बलः ।।३५।। सत्यादीति । विंशत्याद्या संख्या स्त्रियां स्यात् । संख्येये एकार्था च । विंशतिः पुरुषाः स्त्रियः कुलानि वा इत्याधुक्तम् । योन्यादिः कटसन्तः । अप्यास् इति पुसि पाठात् पुलिङ्गश्च । इयं योनिः, अयं योनिः, भग इत्यादि । कम्बली मे, कम्बल मे च ॥३५॥ शल्लक मल्लक वृश्चिकशाटाः बाहुवराटकपुत्रसपाटाः। कन्दरजाटलि दंशकलम्बाः मन्वशनिकुटस्वाति किटाश्च । रेणुमुनिर्पिटकोहि कुटिश्च शिल्पचतुद्विपदाभ्यभिधानम् ॥३६॥ गाथा ।। शिल्पचद्विपदां चाभिधानम् । एषां नाम उभयं स्यात् । शिल्पी शिल्पः एवं वरटी वरटः, सुवर्णकारी सुवर्णकारः, कलादी कलादः, नापिती नापितः। चतुष्पदानां हस्तिनी हस्ती, कूर्मः कुर्मी । द्विपदानां ब्राह्मणी ब्राह्मणः, क्षत्रिया क्षत्रियः, शूद्रा शूद्रः, मयूरी मयूरः, योनिमतामिति सिद्धे । सयोनिशब्दो न स्त्रीत्यर्थम् । यावत् कटी प्राण्यङ्गः कटः वीरणकृतः ॥३६॥ मृत्युर्घटः कण्डुविभीतको तटः भल्लातकश्चामलको हरीतकः । पात्रं कपालोदरभण्डली पुरः वटोऽवटः स्यात् कलशः पटो मठः । पुरो विषाणो नखरोऽपि शृङ्खलः द्रोणोऽपि वल्लूर कटस्प्रिययङ्गराच् ॥३७॥षट्पदी॥ विभीतकादि कटसन्तः नपि च विश्पाठात् त्रिलिङ्गः। विभीतकी, विभीतकः, विभीतकम् । तटी, तटः, तटम् । यावत् कटम् । पोश् पुंस्यपि । विश् नप्यपि प्रत्याहारार्थम् । प्रियङ्गु राजकः । आच् । अच्चेत्यादि रशिषौच (?)। यावदत्र पाठात् स्त्रीत्वं च । पञ्चखट्वीत्यादि । षट्पदीयम् ॥३७॥ Page #10 -------------------------------------------------------------------------- ________________ 47 लिङ्गानुशासनम् शल्वाच्यवन्नामगुणश्च संख्या प्रायस्तथा सिध्यति यस्तदर्थे / प्राप्तालमापन्नवदादिकेत्यर्थान्तद्विगौ चार्थपितोः परस्य // 38 // शलवाच्यवदित्यादि / वाच्यस्य यल्लिङ्गः शल सर्वादिः। सर्वे नराः, सर्वाः स्त्रियः, सर्वाणि कुलानि / एवं त्वं ना, त्वं स्त्री, त्वं कुलम् / वयं नराः, वयं स्त्रियः, वयं कुलानि / यः नरः, या स्त्री, यत्कुलम् / सः नरः, सा स्त्री, तत् कुलम् / युष्मदस्मत्संख्याद्यलिङ्गं स्यात् / नाम संज्ञाशब्दः प्रायो बहुलं वाच्यवत् / सरयुमि नदी / एवं कहनष्टचन्द्राऽमावास्या / श्रीकण्ठो मालवको देशः / मथुरा नगरी। अयं सिन्धुः समुद्रः, इयं सिन्धुनंदो। अयं किष्कुः हस्तः, इयं किष्कुः वितस्तिः। नवसारिका पुरी। कान्यकुब्जं नगरं, संयानं च / मथुरहदो ग्रामः / तोटकं वंशस्थ इत्यादि वृत्तम् / प्रायः किम् ? न च वरेन्द्रातीरभुक्तिः / कोंकणकं काश्मीरं नाम देशः / शालुकिनी लिङ्गाषाढी नाम ग्रामः / तैलावट श्रीभवनं नाम ग्रामः / तदहरभवे च वक्षति च (?) / स्रग्धरा आपीडः मालिनीत्यादि वृत्तं, छन्दोजात्यपेक्षया वा / गुणः / श्वेतः पटः, श्वेता पटी, श्वेतं वस्त्रम् / शुचिः ना, शुचिः स्त्री, शुचि कुलम् / संख्या / एको ना, एका स्त्री, एक कुलम् / पञ्च नराः, पञ्च स्त्रियः, पञ्च कुलानि / तथा सिध्यति यस्तदर्थे / तदर्थे इति तस्य विवक्षितवाच्यस्यार्थे यः शब्दः सिध्यति स वाच्यवत् / क्षीरं पिबतीति क्षीरपाः ना स्त्री कलं वा / एवं ग्रामणीः ना स्त्री कुलम् / यवलूः ना स्त्री कुलम् / काष्ठभित् ना स्त्री कुलम् / आत्मभरिः ना स्त्री कुलम् / गोदोहनो घटादिः ना स्त्री कुलम् / दाक्षिः ना स्त्री कुलम् / गोमान् ना, गोमती स्त्री, गोमत् कुलम् / कृतकटः ना कृतकटा स्त्री, कृतकटं कलम् / प्राप्तालमापन्नवत् / आदिः पूर्वपदं यस्य तदादिकेतीति समासे / अर्थान्ते द्विगौ च वाच्यवत् / प्राप्तो जीविकां प्राप्तजीविकः ना, प्राप्तजीविका स्त्री, प्राप्तजीविकं कुलम् / अलं जीविकायै अलं जीविकः ना, अलं जीविका स्त्री, अलं जीविकं कुलम् / आपन्नो जीविकाम आपन्नजीविकः / अलं चादिः / निष्कौशाम्बिः / अतिनुः / अर्थान्तः। ब्राह्मणाः (?) [ब्राह्मणार्थ ओदनः, ब्राह्मणार्या शिखरिणी, ब्राह्मणार्थं पक्वान्नमिति / सः, सा, तत् / द्विगुः / पञ्चकपालः देशः भोजनः पुरोडाशः / पितः / परलिङ्गे प्राप्ते चार्थे पितोः द्वन्द्वतत्पुरुषयोः परस्योत्तरपदस्य यत् तल्लिङ्गं स्यात् / इमो मयीकुक्कुटौ / इमे कुक्कुटमयूर्यो / इमौ अश्ववडवौ, इमे अश्ववडवाः इति द्वन्द्वे निपातनात् पुस्त्वम् / पित् / अर्धपिप्पली, राजपुरुषः, राजदारिका, नीलोत्पलम् // 38 // स्त्रीलिङग समाप्तम् // // समाप्तं च लिङ्गानुशासनम् //