Book Title: Buddhisagarsuri Linganusasan with Auto Commentary
Author(s): N M Kansara
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf

View full book text
Previous | Next

Page 6
________________ लिङ्गानुशासनम् सङ्ख्येत्यादि । सङख्यकपरा शताद् यत् । शतापि सङ्ख्याऽदन्ता नप् । सङ्ख्येये वर्तमाना एकपरा एकार्थनिष्ठा च स्यात् । शतं पुरुषाः स्त्रियः कुलानि वा । एवं सहस्रम् अयुतम् । अत् किम् ? इयं लक्षा कोटी च । अयं शङ्कः। सङ्ख्येये किम् ? शतं नणां, द्वे शते, त्रीणि शतानि । सङ्ख्या किम् ? लिङ्गाधिकारे सर्वसङ्ख्यार्थम् । तेज शत्यादि स्त्रियां वक्ष्यति । सङ्ख्येये सङ्ख्यैकार्थपरा स्यात् । विंशतिः पुरुषाः । एवं त्रिंशत्, नवतिः। विंशत्या पुरुषैः । सङ्ख्येये किम् ? पुरुषाणां विंशतिः, द्वे विशती, तिस्रो विशतयः। आन्तदिगुः । आकारान्तोऽनन्तश्च द्विगुर्नप्। स्त्रिया अ युत्याहार गत् । स्त्रीलिङ्गं चातः यावत् । षिति । पञ्चखट्वं, पञ्चखट्वी । दशमालं, दशमाली । अनु । पञ्चतक्षं, पञ्चतक्षी । पञ्चराजं, पञ्चराजी । ईस्ति । षष्ठीसमासे सुरादि च । यवसुरं, यवसुरा। भूतनिशं, भूतनिशा । वृक्षच्छायं, वृक्षच्छाया । गोशालं, गोशाला । क्षत्रियसेनं, क्षत्रियसेना । नगरं, नगरी । इदं इयं वा अचिः ज्वाला च । अत् प्रत्याहारार्थः। विशिति स्त्रियां विभीतकादिः। कट संघता(?) । विश्प्रत्याहारोऽत्र पागन्वप् (?) च । विभीतकमित्यादि । अर्धर्चाद्यन्तेऽप् नप् । अप् प्रत्याहारार्थम् । अपः पुंसि पाठात् पुंलिङ्गत्वं च । अर्धर्चम्, अर्धर्चः । वारं, वारः इत्यादि । अष्टादश दिनस्य कमण्डलुः । दिननामाप्युभयम् । दिनं, दिनः । दिवसं, दिवसः । वासरं वासरः । अहर्नपि षविशे(?) ॥ १२ ॥ ओदनचन्दनशृङ्गविधानाः तालखलीनमठासनपानाः । स्तेनविमानयुगन्धरसूत्राः गोमयपत्रपवित्रकषायाः ॥ १३ ॥ मालकपुस्तकमस्तकनिष्काः मोदकमञ्चकशाटकशूकाः । मूषिकतण्डककर्पटशुल्काः क्ष्वेडितपातकभूषणकूटाः ॥ १४ ।। अर्बुदलोहितयौवनवृत्ताः आश्रम संक्रमसङ्गमबिम्बाः। देहसुवर्णवसन्तपलालाः कुण्डलतैलतमालमृणालाः ॥ १५ ॥ मङ्गलशम्बलशालकरीषाः तोरणतोमरपार्श्वशरावाः । कर्षदृढामिषमूलसहस्राः माषबलोपलविक्रमशीलाः ॥ १६ ॥ चरकचषको खण्डं मुण्डं तडागकरण्डको निकटकपटौ कुण्डं काण्डं विहारनडायुताः। पूलिननलिनी षण्डं दण्डं शरीरतृणवणाः शरकशयनौ गूथं यूथं चषालमलौ तलः ।। १७ ।। शकलचमसौ मुस्तं बुस्तं शतव्रतदेवताः चरणकवचौ हस्तं पुस्तं दिनश्च कमण्डलुः । समयकवियो दोपं द्वीपं पिनाकतटवजाः करकशकरौ नेत्रं मूलं रसांशनखवणाः ॥ १८ ॥ ऐरावतप्रयुतसान्ववतंसजृम्भाः कसिबाणभुवनाशकाशकोशाः । वल्मीकशाकवरपारविटङ्कतका अङ्गारताण्डवकिरीटकपालवालाः ॥ १९ ॥ पूर्वप्रवालशतमानकबन्धतीर्थाः गाण्डीवगेहमलयाम्बुजजन्तुसूर्याः । कार्षापणाव्ययवितानसपल्लवापरालोपवासफलकोत्पलवारबाणाः ॥२० ।। शेखरखण्डलदाडिममध्याः कर्कशताडनकुट्टिमराष्ट्राः। द्वीपिनवल्कलमण्डपवप्रा अङ्कुशवास्तु च कुञ्जरभावी ॥ २१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10