Book Title: Bharatiya Chintan ki Parampara me Navin Sambhavanae Part 1
Author(s): Radheshyamdhar Dvivedi
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 354
________________ भारतीयदर्शनेषु समता आरोहावरोहक्रमश्च आचार्य पं० रघुनाथ शर्मा भारते वर्षे श्रुतिषु प्रसिद्धानि अन्नमय-प्राणमय-मनोमयविज्ञानमयानन्दमयरूपैभिन्नानि पञ्चदर्शनानि भवन्ति । एते च पञ्चकोशा व्यष्टिसमष्टिभेदेन द्वैविध्यमापन्ना दश भवन्ति । तत्र व्यष्टिरूपाः पञ्चकोशा अस्माकं जीवानाम् । समष्टिरूपास्तु पञ्च भगवतः । तत्र जीवानामन्नमयकोशः पार्थिवः, तत्रान्नं पृथिवी, अन्नहेतुत्वात्-अयञ्चान्नमयकोशः चार्वाकाणां लौकिकानाञ्च । अत एव चार्वाकदर्शनं लोकायतमिति व्यवह्रियते लोके दर्शनेषु च । लोके आयतं विस्तृतमिति व्युत्पत्तेः । अयञ्च कोशः पाञ्चभौतिकोऽपि पृथिवीप्रधानत्वादन्नमितिव्ययदिश्यते मल्लग्रामादिवत् । एतस्मिन् ये आत्मबुद्धि कुर्वन्ति तत्प्रयुक्तं स्नेहञ्च तेषां पुत्रे कलत्रादिषु अनात्मसु-आत्मबुद्धिनिवर्तते । तत्कोशोपकारिषु च शब्दस्पर्शरूपरसगन्धेषु विषयेषु स्वाभाविको रागः आत्मनः पीडाकरो निवर्तते, यदृच्छालाभसंतुष्टश्च जीवो भवति, विषयेषु आत्यन्तिकी आसक्तिनिवर्तते । अन्नमयकोशे च निर्गतप्राणेऽचेतनत्वं भावयतः, प्राणमयकोशे आत्मत्वबुद्धिर्व्यवतिष्ठते । प्राणमयकोशश्च जलोपादानकः, आपोमयः प्राण इति श्रुतेः। अन्नं विनाऽपि जलं पिबन् बहूनि अहानि जीवति, केवलमन्नमनुपसेवमानो मनोदौर्बल्यात् केवलं स्मृति विजहाति न तु म्रियते । अन्नमयं सौम्य मन इति हि श्रुतिषु उक्तम् । इदञ्च प्राणमयकोशदर्शनं लोके प्रसिद्धं श्रुतिमूलकं चार्वाकैकदेशिनां केषाञ्चित्, एतच्च दर्शनमधुना नोपलभ्यते । प्राणमयकोश एव सर्वाणि इन्द्रियाणि प्रचालयति, अत एव सर्वाणि इन्द्रियाणि प्राणा इत्युच्यन्ते । प्राणमयकोश एव सूक्ष्मशरीरस्य संसारे गत्यागतिहेतुः । स्थूलशरीरस्य च विधारकः, अत एव निर्गते प्राणे स्थूलशरीरं काष्ठलोष्ठवत् क्षितौ पतति । अत्र प्राणमयकोशेऽपि वायुत्वेन बाह्यवातवद् जडत्वबुद्धया ये आत्मबुद्धि न कुर्वन्ति, ते मनोमयकोशवादिनः पौराणिकाः । ते खलु सूक्षमशरीरमेव मनःप्रधान मनोमयं कोशं व्यपदिशन्ति । तस्यैव च नानाविधैः कर्मभिः नानाविधकर्मफलोपभोगाय स्वर्गे निरयेषु मर्त्यलोके च गत्यागती वर्णयन्ति । नैयायिका अपि मनोमयकोशं विज्ञानमयकोशञ्चैकीकृत्य तमेवात्मानं मन्वते । कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहीींर्भीरित्येतत्सर्वं मन एवेति श्रुतेः । बौद्धास्तु विज्ञानमयकोशमेवात्मानं मन्यन्ते । अद्वैतिनस्तु नित्यविज्ञानमयमिति, सांख्या योगा अपि नित्यविज्ञानमेवात्मानमुपगच्छन्ति । अद्वैतवेदान्तिनस्तु सगुणमानन्दमयमात्मानमभ्युगच्छन्ति, निर्गुणन्तु आनन्दमिति । अत एव परिसंवाद-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386