Book Title: Bharatiya Chintan ki Parampara me Navin Sambhavanae Part 1
Author(s): Radheshyamdhar Dvivedi
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 357
________________ ३३२ भारतीय चिन्तन की परम्परा में नवीन सम्भावनाएँ उपमानतश्चेति सर्वजनानुभवसिद्धम् । प्रत्यक्षतोऽपि व्यवहारे प्रवृत्तौ न कस्यापि विमतिः। एवं प्रत्यक्षानुमानोपमानशब्दरूपप्रमाणचतुष्ट्यप्रतिपादकं न्यायशास्त्रं सर्वव्यवहारोपयोगि, एवं वैशेषिकशास्त्रमपि। एवं न्यायवैशेषिकशास्त्रे लक्षणप्रमाणाभ्यां तत्तद्वस्तुप्रसाधिकेषु सर्वव्यवहारेषु लोकानामुपकुरुतः। पूर्वोत्तरमीमांसे तु वाक्यशास्त्रे वाक्यार्थविचारपरे शास्त्रीये लौकिके च व्यवहारे राजनीत्यादी अर्थशास्त्रे धर्मशास्त्रेषु च उपकुरुतः । वेदान्तशास्त्रन्तु अद्वैतस्य ब्रह्मणः सर्वात्मत्वप्रतिपादनपरं लोके सर्वानर्थबीजानां कामक्रोधलोभादीनां निवर्तनेन शान्तिप्रसाधनपरम् । तदुक्तं गीतासु वेदा विनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ के घातयति हन्ति कम् ॥ इति । विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः। निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥ इति । दष्टञ्च वेदान्तशास्त्रनिष्णातानामपि जनकादीनां राज्ञां शासनसंबद्धो व्यवहारप्रपञ्चः । वशिष्ठस्य च पौरोहित्यरूपो व्यवहारः । तदुक्तम् कृष्णो भोगी शुकस्त्यागी भूपौ जनकराघवौ । वसिष्ठः कर्मकर्ता च पञ्चैते ज्ञानिनः स्मृताः॥ सांख्ययोगशास्त्रयोरपि सिद्धिसंपादनद्वारा सर्वव्यवहारोपयोगः । सिद्धयश्चाष्टौ उक्ताः अणिमा महिमा चैव लघिमा गरिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वञ्चाष्टसिद्धयः ॥ इति । दृष्टञ्च सिद्धीनां व्यवहारे उपयोगः-अगस्त्यस्य सिद्धिद्वारा आतापिवातापिपरिपाकः, समुद्रपानञ्च । कर्दमस्य कामगविमाननिर्माणम् । विश्वामित्रस्य अपूर्वः सर्गः । ध्रुवस्य ध्रुवपदप्राप्तिः । इति । एवं बौद्धादिदर्शनानामपि व्यवहारे उपयोगः चन्द्रगुप्ताशोकादिराज्यकाले दृष्टः । व्यवहारानुपयोगे हि शास्त्रं समुच्छिद्येत । साम्प्रन्यायादिदर्शनवत् । एवं जैनदर्शनस्यापि सत्त्याहिंसादिप्रचारद्वाराऽस्त्येव लोकव्यवहारे उपयोगः। तथा चेदं पर्यवसितमवधीयताम् अयमात्मा परश्चासाविति बुद्धिर्विसृज्यताम् । परेशः सर्वभावेषु श्रद्धया समुपास्यताम् ॥ १॥ अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा। अनुग्रहश्च दानञ्च शीलमेतत्प्रसाध्यताम् ॥ २॥ परिसंवाद-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386