Book Title: Bhaktamarstava Sukhbodhika Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 4
________________ डिसेम्बर-२००९ २७ शर्वर्यां भवं शार्वरं अन्धकारमिव । कथम्भूतं अन्धकारं ?, आक्रान्तलोकम् । पुनः कथम्भूतं अन्धकारं ?, अलिनीलम् - भ्रमरवत् नीलमित्यर्थः ॥७॥ मत्वेति । हे नाथ ! तव संस्तवनं आरभ्यते-क्रियते । किं कृत्वा ?, इति मत्वा-ज्ञात्वा । इतीति किम् ?, तव प्रभावात् । सतां-सज्जनानां चेतः हरिष्यति । कथम्भूतेन मया ?, तनुधियाऽपि - तनुः-स्वल्पा धीर्यस्य स तनुधीः, तेन । उक्तमर्थमर्थान्तरन्यासेन द्रढयति-ननु इति निश्चयेन । नलिनीदलेषु उदबिन्दुः मुक्ताफलद्युतिं उपैति-प्राप्नोति । नलिन्या दलानि नलिनीदलानि, तेषु नलिनीदलेषु-कमलनीपत्रेषु । उदस्य बिन्दुः उदबिन्दुः । मुक्ताफलस्य द्युतिः मुक्ताफलद्युतिस्तम् ॥८॥ आस्तामिति । हे जिन ! तव स्तवनं दूरे आस्ताम् । त्वत्संकथापि जगतां दुरितानि-कष्टानि हन्ति । सहस्रकिरणः - सूर्यः दूरे आस्ताम् । सहस्र(स्र)किरणं यस्य स सहस्रकिरणः । सहस्रकिरणस्य प्रभा एव पद्माकरेषु जलजानि विकाशिभाञ्जि कुरुते । पद्मानां आकराः पद्माकराः, तेषु पद्माकरेषु-तडागेषु, जलाज्जातानि जलजानि-कमलानि विकाशं भाजन्तीति विकाशभाञ्जि ॥९॥ नान्येति । हे भुवनभूषण ! हे भूतनाथ ! भूतैर्गुणैर्भवन्तं ऽभिष्टुवन्तः पुरुषाः भुवि-पृथिव्यां भवतः तुल्या भवन्ति इति न अद्भुतं न आश्चर्यम् । उक्तमर्थमर्थान्तरन्यासेन द्रढयति-ननु इति निश्चयेन । वा-अथवा तेन स्वामिना किम् ? यः स्वामी भूत्याऽऽश्रितं-सेवकं इह विश्वे आत्मसमं न करोति । भुवनस्य भूषणं भुवनभूषणं, तत्सम्बोधनं क्रियते । हे भुवनभूषण !! अथवा भुवनस्य भूषणभूतः भुवनभूषणभूतः, तत्सम्बोधनं क्री(क्रि)यते- हे भुवनभूषण !। अथवा भूतानां नाथ भूतनाथ, तत्सम्बोधनम् ॥१०॥ दृष्टवेति । हे स्वामिन् ! जनस्य-लोकस्य चक्षुः । भवन्तं दृष्ट्वा अन्यत्राऽन्यस्मिन् देवे तोषं-सन्तोषं न उपयाति-न प्राप्नोति । कथम्भूतं भवन्तं? अनिमेषविलोकनीयम् । अनिमेषं यथा स्यात्तथा विलोकनीयः ऽन(नि)मेषविलोकनीयस्तम् । उक्तमर्थमर्थान्तरन्यासेन द्रढयति-दुग्धसिन्धो:-क्षीरसमुद्रस्य पयः पीत्वा, जलनिधेः-समुद्रस्य, क्षारं जलं असितुम् - पातुम् कः इच्छेत् ? - कः वाञ्छेत् ? कथम्भूतं दुग्धसिन्धोः पयः ?, शशिकरद्युति०, शशिनः करा: शशिकराः, तद्वत् द्युतिर्यस्य स, तत् शशिकरद्युति ॥११॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13