Book Title: Bhaktamarstava Sukhbodhika Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 2
________________ डिसेम्बर २००९ २५ I भक्तामरप्रणि(ण) तमौलिमणिप्रभाणामिति । यः समिति । अस्य व्याख्या-किलेत्यव्ययं पदं सत्यागमनमङ्गलार्थवाचि । अहमपि प्रथमं जिनेन्द्रं स्तोष्ये । किं कृत्वा ? जिनपादयुगं सम्यक् प्रणम्य । जिनस्य प्रथमतीर्थकृतः पादौ - चरणौ, तयोर्युगं-युग्मं जिनपादयुगम् । सम्यक् त्रिका (क) रणशुद्ध्या, नत्वा । कथम्भूतं जिनपादयुगं ?, भक्तामरप्रणतमौलिमणिप्रभाणां उद्योतकम् । भक्ताश्च तेऽमराश्च भक्तामराः, तेषां प्रणता ये मौलय:, तेषु ये मणय:, [तेषां या: प्रभाः ता:] भक्तामरप्रणतमौलिमणिप्रभाः, तासां भक्तामरप्रणतमौलिमणिप्रभाणाम् । उद्योतयतीति उद्योतकम् । तत्प्रकाशकमित्यर्थः । पुनः कथम्भूतं जिनपादयुगं ?, दलितपापतमोवितानम् । दलितं - दूरीकृतं पापतमसो वितानं येन तत् दलितपापतमोवितानम् । तत्पुनः किम्भूतं जिनपादयुगं ?, भवजले पततां जनानां युगादौ आलम्बनम् । भव एव जलं भवजलम् । तस्मिन् भवजलेसंसारसमुद्रे, पतन्तीति पतन्तः, तेषां पतताम् । युगस्य आदिः युगादिः, तस्मिन् युगादौ । तं इति कम् ?। यः सुरलोकनाथः (थैः) स्तोत्रैः संस्तुतः । सुष्ठु राजन्ते इति सुरा:, तेषां लोको-जगत् स्वर्गः, तस्य नाथैः प्रभृतिभि: (? भूपतिभि: ? ) सुरलोकनाथैः । संस्तुतः-सम्यक् स्तुतः । कथम्भूतं (तैः) सुरलोकनाथैः ?, सकलवाङ्मयतत्त्वबोधात् उद्भूतबुद्धिपटुभिः । 'वाचि विकारो वाड्मयं सकलं च तत् वाङ्मयं च सकलवाड्मयं तस्य तत्त्वं सकलवाड्मयतत्त्वं, तस्य बोधः सकल वाङ्मयतत्त्वबोधः, तस्मात् । उद्भूतश्चासौ बुद्धिश्च उद्भूतबुद्धिः, तया पटवः उद्भूतबुद्धिपटवः, तैः । कथम्भूतैः स्तोत्रैः ?, जगत्त्रितयचित्तहरैः । जगतां त्रितयं जगत्त्रितयं, जगत्त्रितयस्य चित्तं जगत्त्रितयचित्तं, तस्य हराणि जगत्त्रितय-चित्तहराणि तैः । पुनः किं० स्तौत्रैः ?, उदारैः - प्रधानैः ॥ १-२॥ युग्मम् ॥ बुद्ध्येति । हे विबुधार्चितपादपीठ ! अहं विगतत्रपः अस्मि । विबुधैदैर्वैः अर्चितं पादपीठं यस्य स विबुधार्चितपादपीठः । वि-विशेषेण गता त्रपा यस्मात् स विगतत्रप: । निर्लज्ज इत्यर्थः । कथम्भूतोऽहम् ?, बुद्ध्या विनाऽपि स्तोतुं-स्तवनां कर्तुं समुद्यतमतिः । उक्तमर्थमर्थान्तरन्यासेन द्रढयति - बालं विहाय जलसंस्थितं इन्दुबिम्बं - चन्द्रमण्डलं अन्यजनः सहसा ग्रहीतुं क इच्छति ? ॥३॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13