Book Title: Bhaktamarstava Sukhbodhika Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 12
________________ डिसेम्बर-२००९ कथम्भूतं बलम् ? वल्गत्तुरङ्गगजगर्जितभीमनादं । वल्गत्तुरङ्गाश्च गजानां गर्जितानि वल्गत्तुरङ्गगजगजितानि तैः भीमो नादो यस्मिन् तत् । धावमानअश्वगजगारवभीषण-अव्यक्तशब्दे । उत्प्रेक्षते-बलं कमिव ? उद्यदिवाकरमयूखशिखापविद्धं । तम इव-अन्धकारं इव । उद्यंश्चासौ दिवाकरश्च उद्यदिवाकरस्तस्य मयूखा:किरणास्तेषां शिखाभिः अपविद्धं-स्फुटितं उद्यद्दिवाकरमयूखशिखापविद्धं, त्वत्पादपङ्कजवनायिणः युद्धे जयं लभन्ते । तव पादपङ्कजे-त्वत्पादपङ्कजे, ते एव वनं त्वत्पादपङ्कजवनं, तस्य आश्रयः-शरणं येषां ते त्वत्पादपङ्कजवनाश्रयिणः । कथम्भूते युद्धे ? कुन्ताग्रभिन्नगजशोणितवारिवाह-वेगावतारतरणातुरयोधभीमे । कुन्तानां अग्राणि कुन्ताग्राणि तैभिन्नाश्च ते गजाश्च कुन्ताग्रभिन्नगजास्तेषां, शोणितो वारिवाहो-रुधिरमेघस्तेन यो वेगावतारो नदीप्रवाहः कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारस्तस्य तरणे-आतुराश्चपलाश्च ते योधाश्च कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधाः, तैर्भीमं कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधभीमे । कथम्भूताः ? त्वत्पाद० ? विजितदुर्जयजेयपक्षाः, विशेषेण जितः दुर्जयो जेयपक्षो यैस्ते विजितदुर्जयजेयपक्षाः ॥३९॥ __अम्भोनिधौ इति ॥ हे स्वामिन् ! भवतः स्मरणाद् अम्भोनिधौ रङ्गत्तरङ्गशिखरस्थितयानपात्राः त्रासं विहाय पारं व्रजन्ति । रङ्गन्तश्च ते तरङ्गास्तेषां शिखरेषु स्थितानि यानपात्राणि येषां ते रङ्गत्तरङ्गशिखरस्थितयानपात्राः । कथम्भूते अम्भोनिधौ ? क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ, क्षुभिताःक्षोभं प्राप्ता ये भीषणाः नक्रचक्रपाठीनपीठा:-क्षुभितभीषणनक्रचक्रपाठीनपीठा यत्र स क्षुभितभीषणनक्रचक्रपाठीनपीठः । तथा भयदोल्बणः प्रकटो वाडवाग्निर्यत्र स भयदोल्बणवाडवाग्निः, क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्निः तस्मिन् ॥४०॥ उद्भूतेति ॥ हे जिन ! मर्त्या त्वत्पादपङ्कजरजोमृतदिग्धदेहाः । पूर्वं ईदृशा अपि मकरध्वजतुल्यरूपाः कन्दर्पसदृशरूपाः भवन्ति तव पादपङ्कजं त्वत्पादपङ्कजं तस्य रजः त्वत्पादपङ्कजरजः तदेव अमृतं त्वत्पादपङ्कजरजोमृतं तेन दिग्धः-सिक्तः देहो येषां ते त्वत् । मकरध्वजतुल्यं रूपं येषां ते मकर० । कथम्भूता माः ? उद्भूतभीषणजलोदरभारस्तेन भुग्नाः वक्रा उद्भूतभीषणजलोदरभारभुग्नाः । कथम्भूता माः ? शोच्यां दशां उपगताः-प्राप्ताः । पुनः

Loading...

Page Navigation
1 ... 10 11 12 13