Page #1
--------------------------------------------------------------------------
________________
२४
अनुसन्धान-५०
अज्ञातकर्तृका भक्तामरस्तव-सुखबोधिका वृत्तिः
सं. विजयशीलचन्द्रसूरि
भक्तामरस्तव परनी आ टीकानी ९ पानांनी, अशुद्धिप्रचुर प्रति निजी संग्रहमां मळी. कर्ता के लेखकनुं नाम नथी. अनुमानतः १८मा शतकमां लखायेली लागे छे. आ वृत्ति आम तो परम्परागत वाचनानुसारी ज छे. परन्तु आमां पण केटलांक स्थळोए महत्त्वना पाठभेदो जोवा तो मळे ज छे. जेमके
पद्य ६मां 'मुखरीकुरुते' प्रयोग च्चि-प्रत्ययान्त होवानुं जाणीतुं छे, आ वृत्तिमां पण ते प्रमाणे अर्थ करेलो ज छे. छतां अहीं अच्च्यन्त प्रयोगरूपे पण ते दर्शावेल छे : 'मुखरी-वाचालः कुरुते' आ रीतनो पदच्छेद अने अर्थ मनोरम पण लागे छे.
पद्य २३मां 'तमसः पुरस्तात्' पाठ मळे छे. प्रसिद्ध अने योग्य पाठ जोके 'परस्तात्' छे. टीकामां पण 'अन्धकारस्य अग्रे अर्थात् मध्यान्ध(मध्येऽन्ध) कारस्य' एवो अर्थ थयो छे.
पद्य २६मां प्रचलित पाठ छे 'जिन ! भवोदधिशोषणाय', अने अहीं जोवा मळतो पाठ 'जनभवोदधिशोषणाय'. अलबत्त, पहेलां 'जिन !' एवो पाठ विवरीने पछी ज 'जन' एवो पाठ दर्शावायो छे. तेनो अर्थ 'जनानां भवोदधिः जनभवोदधिस्तं शोषयतीति' एम कर्यो छे.
एज रीते, पद्य २७मां 'विविधाश्रयजातगर्वैः' एवो पाठ तो स्वीकार्यो ज छे, परन्तु त्यां विकल्पमां 'विबुधाश्रयजातगर्वैः' एम पाठ पण दर्शाव्यो छे, अने तेनी वृत्तिमां 'विबुधानां अन्यदेवानां आश्रयः' एम अर्थ करवामां आव्यो छे. मुख्य पाठ तरीके 'विबुधाश्रयः' अने वैकल्पिक पाठ 'विविधाश्रय०' लेवायो छे.
भक्तामर परनी विविध टीकाओ छे, जेमांथी घणी अप्रकाशित हशे. ते आ रीते प्रकाशमां आवे तो रसप्रद बने तेम छे.
Page #2
--------------------------------------------------------------------------
________________
डिसेम्बर २००९
२५
I
भक्तामरप्रणि(ण) तमौलिमणिप्रभाणामिति । यः समिति । अस्य व्याख्या-किलेत्यव्ययं पदं सत्यागमनमङ्गलार्थवाचि । अहमपि प्रथमं जिनेन्द्रं स्तोष्ये । किं कृत्वा ? जिनपादयुगं सम्यक् प्रणम्य । जिनस्य प्रथमतीर्थकृतः पादौ - चरणौ, तयोर्युगं-युग्मं जिनपादयुगम् । सम्यक् त्रिका (क) रणशुद्ध्या, नत्वा । कथम्भूतं जिनपादयुगं ?, भक्तामरप्रणतमौलिमणिप्रभाणां उद्योतकम् । भक्ताश्च तेऽमराश्च भक्तामराः, तेषां प्रणता ये मौलय:, तेषु ये मणय:, [तेषां या: प्रभाः ता:] भक्तामरप्रणतमौलिमणिप्रभाः, तासां भक्तामरप्रणतमौलिमणिप्रभाणाम् । उद्योतयतीति उद्योतकम् । तत्प्रकाशकमित्यर्थः । पुनः कथम्भूतं जिनपादयुगं ?, दलितपापतमोवितानम् । दलितं - दूरीकृतं पापतमसो वितानं येन तत् दलितपापतमोवितानम् । तत्पुनः किम्भूतं जिनपादयुगं ?, भवजले पततां जनानां युगादौ आलम्बनम् । भव एव जलं भवजलम् । तस्मिन् भवजलेसंसारसमुद्रे, पतन्तीति पतन्तः, तेषां पतताम् । युगस्य आदिः युगादिः, तस्मिन् युगादौ । तं इति कम् ?। यः सुरलोकनाथः (थैः) स्तोत्रैः संस्तुतः । सुष्ठु राजन्ते इति सुरा:, तेषां लोको-जगत् स्वर्गः, तस्य नाथैः प्रभृतिभि: (? भूपतिभि: ? ) सुरलोकनाथैः । संस्तुतः-सम्यक् स्तुतः । कथम्भूतं (तैः) सुरलोकनाथैः ?, सकलवाङ्मयतत्त्वबोधात् उद्भूतबुद्धिपटुभिः । 'वाचि विकारो वाड्मयं सकलं च तत् वाङ्मयं च सकलवाड्मयं तस्य तत्त्वं सकलवाड्मयतत्त्वं, तस्य बोधः सकल वाङ्मयतत्त्वबोधः, तस्मात् । उद्भूतश्चासौ बुद्धिश्च उद्भूतबुद्धिः, तया पटवः उद्भूतबुद्धिपटवः, तैः । कथम्भूतैः स्तोत्रैः ?, जगत्त्रितयचित्तहरैः । जगतां त्रितयं जगत्त्रितयं, जगत्त्रितयस्य चित्तं जगत्त्रितयचित्तं, तस्य हराणि जगत्त्रितय-चित्तहराणि तैः । पुनः किं० स्तौत्रैः ?, उदारैः - प्रधानैः ॥ १-२॥ युग्मम् ॥
बुद्ध्येति । हे विबुधार्चितपादपीठ ! अहं विगतत्रपः अस्मि । विबुधैदैर्वैः अर्चितं पादपीठं यस्य स विबुधार्चितपादपीठः । वि-विशेषेण गता त्रपा यस्मात् स विगतत्रप: । निर्लज्ज इत्यर्थः । कथम्भूतोऽहम् ?, बुद्ध्या विनाऽपि स्तोतुं-स्तवनां कर्तुं समुद्यतमतिः । उक्तमर्थमर्थान्तरन्यासेन द्रढयति - बालं विहाय जलसंस्थितं इन्दुबिम्बं - चन्द्रमण्डलं अन्यजनः सहसा ग्रहीतुं क इच्छति ? ॥३॥
Page #3
--------------------------------------------------------------------------
________________
२६
अनुसन्धान-५०
वक्तुमिति । हे गुणसमुद्र ! ते गुणान् बुद्ध्या सुरगुरुप्रतिमः कः क्षम:-कः समर्थः ? । गुणानां समुद्रः गुणसमुद्रः, तत्सम्बोधनं क्रियते -हे गुणसमुद्र ! सुरगुरुणा प्रतिमीयते इति सुरगुरुप्रतिमः - बृहस्पतितुल्योऽपि । कथम्भूतान् ?, शशाङ्ककान्तान्, शशाङ्कवत् कान्ताः शशाङ्ककान्ता:, तान् शशाङ्ककान्तान् । उक्तमर्थमर्थान्तरन्यासेन द्रढयति- अम्बुनिधि - समुद्रं भुजाभ्यां तरीतुं कः अलं-कः समर्थ: ? न कोऽपीत्यर्थः । कथम्भूतं अम्बुनिधिम् ?, कल्पान्तकालपवनोद्ध-तनक्रचक्रं कल्पान्तकालस्य पवनः, तेन उद्धता-ऊर्ध्वं गता नक्रचक्रा यस्मिन् स कल्पान्तकालपवनोद्धतनक्रचक्रस्तम् ॥४॥
सोऽहमिति । स अहं तथापि भक्तिवशात् तव स्तवं कर्तुं प्रवृत्तः अस्मि सावधानो जातोऽस्मि । कथम्भूतः अहम् ?, विगतशक्तिः अपि, विविशेषेण गता शक्तिर्यस्य स विगतशक्तिः । अधुना । उक्तमर्थमर्थान्तरन्यासेन द्रढयति-मृगः निजशिशोः परिपालनार्थं - स्वपुत्ररक्षार्थं किं न अभ्येति - किं न सन्मुखं याति ? अपि तु अभ्येत्येव । किं कृत्वा ? प्रीत्या - स्वस्नेहेन आत्मवीर्यंस्वपराक्रमं अविचार्य न विचार्य इत्यर्थः ॥५॥
अल्पश्रुतमिति । हे मुनीश ! त्वद्भक्तिः एव बलात् मां मुखरीवाचालः कुरुते । अमुखरं मुखरं कुरुते इति मुखरीकुरुते । कथम्भूतं मां ?, अल्पश्रुतं अल्पं- स्तोकं श्रुतं यस्य स: [तं] अल्पश्रुतम् । पुनः कथम्भूतं मां ?, श्रुतवतां परिहासमा (धाम) । श्रुतं विद्यते येषां ते श्रुतवन्तः तेषां परिहासस्य धाम- परिहासधाम । उक्तमर्थमर्थान्तरन्यासेन द्रढयति - किल इति निश्चयेन । यत् कोकिलः मधौ मधुरं विरौति तत् चारुचूतकलिकानिकरैकहेतुः । चारवश्च ताः चूतकलिकाश्च चारुचूतकलिकाः । तासां निकरः - समूहः, स एवैको -ऽ द्वितीयो हेतुः चारुः ||६||
हे स्वामिन् ! शरीरं भजती (न्ती ) ति शरीरभाज:, तेषां पुरुषाणां अशेषं पापं त्वत्संस्तवेन क्षणात् क्षयं उपैति - प्राप्नोतीत्यर्थः । कथम्भूतं पापं ?, भवसन्ततिसन्निबद्धम् । भवानां सन्ततिर्भवसन्ततिः । भवसन्तत्या सं- सम्यक् प्रकारेण निबद्धं दृष्टं बद्धं भवसन्ततिसन्निबद्धम् । पुनः कथम्भूतं पापं ?, आक्रान्तलोकम् । पुनः किंविशिष्टं पापं ?, उत्प्रेक्षते - पापं कमिव ? सूर्यांशुभिन्नं शार्वरं-सूर्यस्य अंशवः-[किरणाः ] तैः सूर्यांशुभिर्भिन्नं-स्फेटितं सूर्यांशुभिन्नं,
Page #4
--------------------------------------------------------------------------
________________
डिसेम्बर-२००९
२७
शर्वर्यां भवं शार्वरं अन्धकारमिव । कथम्भूतं अन्धकारं ?, आक्रान्तलोकम् । पुनः कथम्भूतं अन्धकारं ?, अलिनीलम् - भ्रमरवत् नीलमित्यर्थः ॥७॥
मत्वेति । हे नाथ ! तव संस्तवनं आरभ्यते-क्रियते । किं कृत्वा ?, इति मत्वा-ज्ञात्वा । इतीति किम् ?, तव प्रभावात् । सतां-सज्जनानां चेतः हरिष्यति । कथम्भूतेन मया ?, तनुधियाऽपि - तनुः-स्वल्पा धीर्यस्य स तनुधीः, तेन । उक्तमर्थमर्थान्तरन्यासेन द्रढयति-ननु इति निश्चयेन । नलिनीदलेषु उदबिन्दुः मुक्ताफलद्युतिं उपैति-प्राप्नोति । नलिन्या दलानि नलिनीदलानि, तेषु नलिनीदलेषु-कमलनीपत्रेषु । उदस्य बिन्दुः उदबिन्दुः । मुक्ताफलस्य द्युतिः मुक्ताफलद्युतिस्तम् ॥८॥
आस्तामिति । हे जिन ! तव स्तवनं दूरे आस्ताम् । त्वत्संकथापि जगतां दुरितानि-कष्टानि हन्ति । सहस्रकिरणः - सूर्यः दूरे आस्ताम् । सहस्र(स्र)किरणं यस्य स सहस्रकिरणः । सहस्रकिरणस्य प्रभा एव पद्माकरेषु जलजानि विकाशिभाञ्जि कुरुते । पद्मानां आकराः पद्माकराः, तेषु पद्माकरेषु-तडागेषु, जलाज्जातानि जलजानि-कमलानि विकाशं भाजन्तीति विकाशभाञ्जि ॥९॥
नान्येति । हे भुवनभूषण ! हे भूतनाथ ! भूतैर्गुणैर्भवन्तं ऽभिष्टुवन्तः पुरुषाः भुवि-पृथिव्यां भवतः तुल्या भवन्ति इति न अद्भुतं न आश्चर्यम् । उक्तमर्थमर्थान्तरन्यासेन द्रढयति-ननु इति निश्चयेन । वा-अथवा तेन स्वामिना किम् ? यः स्वामी भूत्याऽऽश्रितं-सेवकं इह विश्वे आत्मसमं न करोति । भुवनस्य भूषणं भुवनभूषणं, तत्सम्बोधनं क्रियते । हे भुवनभूषण !! अथवा भुवनस्य भूषणभूतः भुवनभूषणभूतः, तत्सम्बोधनं क्री(क्रि)यते- हे भुवनभूषण !। अथवा भूतानां नाथ भूतनाथ, तत्सम्बोधनम् ॥१०॥
दृष्टवेति । हे स्वामिन् ! जनस्य-लोकस्य चक्षुः । भवन्तं दृष्ट्वा अन्यत्राऽन्यस्मिन् देवे तोषं-सन्तोषं न उपयाति-न प्राप्नोति । कथम्भूतं भवन्तं? अनिमेषविलोकनीयम् । अनिमेषं यथा स्यात्तथा विलोकनीयः ऽन(नि)मेषविलोकनीयस्तम् । उक्तमर्थमर्थान्तरन्यासेन द्रढयति-दुग्धसिन्धो:-क्षीरसमुद्रस्य पयः पीत्वा, जलनिधेः-समुद्रस्य, क्षारं जलं असितुम् - पातुम् कः इच्छेत् ? - कः वाञ्छेत् ? कथम्भूतं दुग्धसिन्धोः पयः ?, शशिकरद्युति०, शशिनः करा: शशिकराः, तद्वत् द्युतिर्यस्य स, तत् शशिकरद्युति ॥११॥
Page #5
--------------------------------------------------------------------------
________________
२८
अनुसन्धान-५० त्वं रचितः
हे त्रिभुवनैकललामभूत ! यैः परमाणुभिः निर्मापित: असि । खलु-निश्चयेन, तेऽणवः ऽपि - ते परमाणु (ण) व: अपि, पृथिव्यां तावन्त एव हि इति निश्चयेन । यत् - यस्मात् कारणात्, ते तव समानं अपरं रूपं नास्ति । त्रिभुवनस्य एकं च तत् ललाम च त्रिभुवनैकललामत्रिभुवनैकललामभूत !। कथम्भूतैः परमाणुभिः ? शान्तरागरुचिभिः, शान्तरागस्यशान्तरसस्य रुचिर्येषां ते शान्तरुचयस्तैः, ऽथवा शान्ता-दूरीभूताः रागस्य रुचिर्येभ्यस्ते शान्तरागरुचयस्तैः ॥१२॥
1
वक्त्रमिति । हे स्वामिन् ! ते तव वक्त्रं क्व ? च- पुनः तत् निशाकरस्य-चन्द्रस्य बिम्बं क्व ? | यत् निशाकरस्य बिम्बं वासरे पाण्डुपलासकल्पं भवति । पाण्डु च तत् पलाशं पाण्डुपलाशं, पाण्डुपलाशेन कल्पं पाण्डु– पलाशकल्पं, कथम्भूतं वक्त्रं ? सुरनरोरगनेत्रहारि । सुराश्च नराश्च उरगाश्च सुरनरोरगा:, तेषां नेत्रानि (णि) हरन्तीति एवं शीलं सुरनरोरगनेत्रहारि । पुनः कथम्भूतं वक्त्रम् ? निश्शेषनिज्जित - जगत्त्रितयोपमानम् । निश्शेषेण निज्जितं जगत्त्रये उपमानं येन तत् निश्शेषनिज्जितजगत्त्रितयोपमानम् । कथम्भूतं बिम्बं ? कलङ्कमलिनम् ? कलङ्केन मलिनं कलङ्कमलिनम् ॥१२॥
सम्पूर्णेति ॥ हे त्रिजगदीश्वर ! तव गुणाः त्रिभुवनं लङ्घयन्तिऽतिक्रामन्ति । त्रीणि च तानि जगन्ति च त्रिजगन्ति त्रिजगतां ईश्वरः त्रिजगदीश्वरः तत्सम्बोधनं हे त्रिजगदीश्वर !। कथम्भूता गुणा: ? सम्पूर्णमण्डलशशाङ्ककलाकलापशुभ्राः । सम्पूर्णं मण्डलं यस्य सः सम्पूर्णमण्डलश्चासौ शशाङ्कश्च सम्पूर्णमण्डलशशाङ्कस्तस्य कलाकलापः सम्पूर्णमण्डलशशाङ्ककलाकलाप:, तद्वत् शुभ्राः । ये मनुष्या एकनाथं संश्रितान् ( संश्रितास्तान्) यथेष्टं सञ्चरतः कः निवारयति ? ॥१४॥
चित्रमिति ॥ हे जिन ! यदि त्रिदशाङ्गनाभि: ते-तव मनः मनाक् अपि-स्तोकमपि विकारमार्गं न नीतं, अत्र किं चित्रम् ? । उक्तमर्थमर्थान्तरन्यासेन द्रढयति-कल्पान्तकालमरुता किं मन्दराद्रिशिखरं कदाचित् चलितम् ? कथम्भूतेन कल्पान्तमरुता ? चलिता अचला यस्मात् स चलिताचलस्तेन चलिताचलेन ॥१५॥
निर्धूमवर्त्तीति ॥ हे नाथ ! त्वं अपरदीपः ऽसि । कथम्भूतः त्वं
Page #6
--------------------------------------------------------------------------
________________
डिसेम्बर-२००९
दीप: ? निर्धूमवर्त्तिः । धूमश्च वर्त्तिश्च धूमवर्त्ती । निर्गतौ धूमवर्त्ती यस्मात् स निर्धूमवर्त्तिः, धूमकालुष्यं वर्त्तिः - कामदश (शा) - ताभ्यां रहितः इत्यर्थः । पुनः कथम्भूतः त्वं दीपः ? अपवज्जिततैलपूरः । अपवज्जितं तैलपूरं यस्मात् स अपवज्जिततैलपूरः । कथम्भूतः त्वं दीप: ? कृत्स्नं-समस्तं जगत्त्रयं प्रग (क) टीकरोषि ? पुनः कथम्भूतः त्वं दीपः ? जगत्प्रकाशः । जगति प्रकाशो यस्य स जगत्प्रकाशः ॥१६॥
२९
नास्तमिति ॥ हे मुनीन्द्र ! मुनीनां इन्द्रः मुनीन्द्रः, तत्सम्बोधनं क्रियते हे मुनीन्द्र ! । लोके त्वं सूर्यातिशायिमहिमाऽसि । सूर्यात् अतिशायी महिमा महात्म(त्म्यं) यस्य स सूर्यातिशायिमहिमा, तदेव दर्शयति । त्वं कदाचित् अस्तं न उपयासि न प्राप्नोषि । पुनः त्वं राहुगम्यः न ऽसि । हे स्वामिन् ! पुनः त्वं सहसा - शीघ्रं युगपत् - समकालं जगन्ति विश्वानि स्पष्टीकरोषि प्रकटीकरोषीत्यर्थः । पुनः त्वं अम्भोधरोदरनिरुद्धमहाप्रभावः न । अम्भोधराणां उदरं अम्भोधरोदरम्, अम्भोधरोदरेण निरुद्धो महाप्रभावो यस्य स अम्भोधरोदरनिरुद्धमहाप्रभावः । मेघमध्यावृतमहातेजा न वर्त्तासो (वर्तसे) ॥१७॥
नित्यो० इति । हे स्वामिन् ! तव मुखाब्जं - मुखकमलं अपूर्वशशाङ्कबिम्बम् । विभ्राजते- शोभते, मुखं अब्जं मुखाब्जं, अपूर्वं च तत् शशाङ्कबिम्बं मुखाब्जं, किं कुर्वन् ?, जगद्विद्योतयत् - प्रकाशयत् । कथम्भूतं मुखाब्जं ?, नित्योदयं-नित्यं-सर्वदा उदयो यस्य तत् नित्योदयम् । पुन- कथम्भूतं मुखाब्जं ? दलितमोहमहान्धकारं-दलितं - दूरीकृतं मोहमहान्धकारं । अथवा मोहस्य महान्धकारं मोहमहान्धकारं दलितं । पुनः कथम्भूतं मुखाब्जं ? राहुवदनस्य गम्यो न, राहोर्वदनं राहुवदनं तस्य । पुनः कथम्भूतं मुखाब्जं ? वारिदानां - मेघानां न गम्यम् । पुनः किंविशिष्टं ? अनल्पकान्ति न अल्पा अनल्पा कान्तिर्यस्य
तत् ॥१८॥
किमिति ॥ हे नाथ ! तमस्सु - अन्धकारेषु । युष्मन्मुखेन्दुदलितेषु सत्सु, शर्वरीषु शशिना किं ? वा - ऽथवा, ऽह्नि दिवसे विवस्वता - सूर्येण किम् ? | युष्माकं मुखं युष्मन्मुखं युष्मन्मुखं एव इन्दुः युष्मन्मुखेन्दुः । तेन दलितानि युष्मन्मुखेन्दुदलितानि तेषु । उक्तमर्थं मर्थान्तरन्यासेन द्रढयति जीवलोके विश्वे निष्पन्नशालिवनशालिनि सति जलधरैः - मेघैः कियत् कार्यं ? । निष्पन्नानि
-
Page #7
--------------------------------------------------------------------------
________________
३०
अनुसन्धान-५०
च तानि तानि शालिवनानि च निष्पन्नशालिवनानि तैः शालते - शोभते इत्येवं शीलं निष्पन्नशालिवनशालि तस्मिन् । कथम्भूतैः मेघैः ? जलभारनमैः । जलस्य भारेण नम्राः तैः जलभारनम्रैः ॥१९॥
ज्ञानमिति ॥ हे स्वामिन् ! त्वयि यथा ज्ञानं विभाति तथा-एवं हरिहरादिषु नायकेषु न विभाति । कथम्भूतं ज्ञानं ? कृतावकाशं । कृतः अवकाशो येन तत् कृतावकाशस्तम् । उक्तमर्थमर्थान्तरन्यासेन द्रढयति - स्फुरन् मणिषु तेज:-प्रभा यथा महत्त्वं - गौरवं याति प्राप्नोति, तु-पुनः एवं काचशकले न याति । स्फुरन्तो ये मणयः स्फुरन्मणय:, तेषु, भास्वद्वैडूर्य-पुष्परागेन्द्रनीलादिरत्नेषु । काचशकले कथम्भूतेऽपि ? किरणाकुले अपि । किरणैः आकुलं किरणाकुलं तस्मिन् किरणाकुले अपि ॥२०॥
मन्येति ॥ हे स्वामिन् ! हरिहरादय एव दृष्टा - विलोकिता वरं प्रधानं, अहं एवं मन्ये । येषु सुरेषु दृष्टेषु, हृदयं - चित्तं त्वयि - भवद्विषये, तोषं - प्रमोदं एति - प्राप्नोतीत्यर्थः । हे नाथ ! भवता वीक्ष्य (क्षि) तेनावलोकितेन किम् ? येन भवता वीक्ष्य ( क्षि) तेन भुवि - पृथिव्यां ऽन्यः कश्चिन्मनः भवान्तरेऽपि न हरति ॥२१॥
स्त्रीणामिति ॥ हे स्वामिन् ! स्त्रीणां शतानि शतशः पुत्रान् जनयन्ति । त्वदुपमं सुतं अन्या जननी न प्रसूता । उक्तमर्थमर्थान्तरन्यासेन द्रढयति-सर्वा दिशः भानि-नक्षत्राणि दधति - धारयन्ति । सहस्ररश्मि सूर्यं प्राची एव दिग्-पूर्वा एव दिग् जनयति । सहस्र (स्रा ) रश्मयो यस्य स सहस्ररश्मिस्तम् । किम् ? सहस्ररश्मि स्फुरदंशुजालं स्फुरत्-देदीप्यमानं अंशूनां - किरणानां जालं यस्य स स्फुरदंशुजालस्तं ॥२२॥
त्वमिति ॥ हे स्वामिन् ! मुनय:- ज्ञानिनः त्वां परमं पुमांसं-पुरुषं आमनन्ति-कथयन्ति । हे स्वामिन् ! तमसः पुरस्तात् - अन्धकारस्याग्रे अर्थात् मध्यान्धकारस्य अमलं निर्मलं आदित्यवर्णं -सूर्यरूपं आमनन्ति । हे मुनीन्द्र ! योगिनः त्वां एव सम्यक् उपलभ्य - सम्यक् प्राप्य मृत्युं जयन्ति - कालं निवारयन्ति । हे मुनीन्द्र ! शिवपदस्य मोक्षस्य त्वत्तः - अन्यः शिवः पन्था न निरुपद्रवो मार्गो न ॥२३॥
Page #8
--------------------------------------------------------------------------
________________
डिसेम्बर-२००९
३१
त्वामव्ययमिति ॥ हे स्वामिन् ! सन्तः-सज्ज्ञानाः त्वां अव्ययं-न विद्यते व्ययो यस्य स अव्ययस्तं अव्ययम्, अवसिनं प्रवदन्ति, कथयन्ति । पुनः त्वां विभुं-समर्थं प्रवदन्ति । पुनः त्वां अचिन्त्यं प्रवदन्ति । पुनः त्वां असंख्यं-संख्यारहितं प्रवदन्ति । पुनः त्वां ब्रह्माणं प्रवदन्ति । पुनः त्वां ईश्वरंस्वामिनं प्रवदन्ति । पुनः त्वां अनन्तं-न विद्यते अन्तो यस्य स अनन्तस्तं प्रवदन्ति । अनेककंदर्पेषु केतुरिव केतुः अनङ्गकेतुस्तम् कंदर्पदाहं च । पुनः त्वां योगीश्वरं प्रवदन्ति । पुनः त्वां अनेकं प्रवदन्ति । पुनः त्वां एकं प्रवदन्ति । पुनः त्वां अमलं ज्ञानस्वरूपं प्रवदन्ति । ज्ञानं स्वरूपं यस्य स ज्ञानस्वरूपस्तम् ॥२४॥
बुद्ध इति ॥ हे स्वामिन् ! बुद्धदर्शनिनां देवः त्वं एव असि । कस्मात् ? विबुधार्चितबुद्धिबोधात् । विबुधैः-पण्डितैः-देवैर्वा अर्चितः ज्ञानस्य प्रकाशो यस्य स विबुधाचितबुद्धिबोधः, तस्मात् । शङ्करः त्वमसि । भुवनत्रयशङ्करत्वात्, भुवनत्रये शं-सुखं करोतीति भुवनत्रयशङ्करः तस्य भावः भुवनत्रयशङ्करत्वं, तस्मात् । हे धीर ! धाता त्वमसि । कस्मात् ? शिवमार्गविधे:मोक्षमार्गस्य विधेः विधानात् करणात् । हे भगवन् ! व्यक्तं-प्रकटं पुरुषोत्तमः त्वं एव असि । पुरुषेषु उत्तमः पुरुषोत्तमः ॥२५।।
तुभ्यमिति ॥ हे नाथ ! तुभ्यं नमः । कथम्भूताय तुभ्यं ? त्रिभुवनातिहराय। त्रीणि च तानि भुवनानि च त्रिभुवनानि, तेषां अर्त्ति हरतीति त्रिभुवनातिहरस्तस्मै । पुनः हे नाथ ! तुभ्यं नमः । कथम्भूताय तुभ्यम् ? क्षितितलस्य अमलं च तद् भूषणं च क्षितितलामलभूषणम्, तस्मै क्षितितलामलभूषणाय । पुनः हे नाथ ! तुभ्यं [नमः । कथम्भूताय तुभ्यम् ?]; त्रिजगतः परमेश्वराय । त्रयाणां जगतां समाहारस्त्रिजगत् तस्य त्रिजगतः । परश्चासौ ईश्वरश्च परमेश्वरस्तस्मै परमेश्वराय । पुनः हे जिन ! तुभ्यं नमः । कथम्भूताय तुभ्यं ? भवोदधिशोषणाय । भव एव उदधिः, तं शोषयन्ती- (ती)ति भवोदधिशोषणस्तस्मै । अथवा जनानां भवोदधिः जनभवोदधिस्तं शोषयन्ती(ती)ति जनभवोदधिशोषणस्तस्मै ॥२६॥
को विस्मयेति ॥ हे मुनीश ! मुनीनां - ईशः मुनीशः तत्सम्बोधनं क्रियते-हे मुनीश! । नाम इति प्रसिद्धौ । हे स्वामिन् ! यदि अशेषैः -
Page #9
--------------------------------------------------------------------------
________________
अनुसन्धान-५०
समस्तैर्गणैः, त्वं निरवकाशतया-नैरन्तर्येण संश्रितः, दोषैः स्वप्नान्तरेपि कदाचित् ऽपि न ईक्षितः-विलोकितः ऽसि, अत्र को विस्मयः?-किमाश्चर्यम् ?। कथम्भूतैः दोषैः ? उपात्तविबुधाश्रयजातगर्वैः । उपात्तः-अङ्गीकृतो यो विबुधानां अन्यदेवानां आश्रयः उपात्तविबुधाश्रयस्तेन जातगर्वो येषां ते उपात्तविबुधाश्रय-जातगस्तैिः । अथवा उपात्तो यो विविधाश्रयो नानाप्रकार आश्रय उपात्तविविधाश्रय स्तेन जातः गर्वो येषां ते उपात्तविविधाश्रयजातगस्तेि । कोऽर्थः ? यदा हि त्वं सम्पूर्णैर्गुणैः कृत्वा निरन्तरत्वेन आश्रितः तदा दोषाणां रच्यतं वशीरे (तव शरीरे) स्थानाभावात् दोषैविचारितं - "अत्र चेदस्माकं स्थानं नास्ति, तदस्माकं अपरदेवानां शरीरं वर्तते' इति विचार्य दोषा अपरदेवेषु स्थित्वा गर्वं चक्रुरित्यर्थः ॥२७॥
उच्चैरिति ॥ हे स्वामिन् ! उच्चैः अशोकतरुसंश्रितम् । उन्नताशोकवृक्ष समीपाश्रितं भवतो रूपं नितान्तं-अत्यन्तं विभाति । कथम्भूतं रूपं ? उन्मयूखम् । - उद्गतकिरणम् । उत्प्रेक्षते-भवतो रूपं किमिव ? पयोधरपार्श्ववर्त्ति-मेघसमीपस्थितं रवेः-सूर्यस्य बिम्बमिव । कथम्भूतं बिम्बं ? रवेबिम्बस्य स्पष्टोल्लसत्किरणं - स्पष्टा:-प्रकटाः, उल्लसन्तः किरणा यस्य तत् । पुनः कथम्भूतं ? अस्ततमोवितानम् । अस्तं तमोवितानं येन तत् अस्ततमोवितानम् ॥२८॥
सिंहेति ॥ हे स्वामिन् ! तव वपुः सिंहासने विभ्राजते-शोभते इत्यर्थः । कथम्भूते सिंहासणि(ने)मणिमयूखशिखाविचित्रे । मणिकिरणसूचीभिः रमणीये । किंविशिष्टं वपुः ? कनकावदातम् । स्वर्णवद् गौरं । इव इति उत्प्रेक्ष्यते, कस्मिन्, कं इव ? तुङ्गोदयाद्रिशिरसि सहस्ररश्मेः । सूर्यस्य बिम्बं इव । तुङ्गं च तत् उदयाद्रेः शिरश्च तुङ्गोदयाद्रिशिरस्तस्मिन् । कथम्भूतं ? सहस्ररश्मेः वियति-आकाशे विलसत्-अंशुलतावितानं यस्य तत् ॥२९॥
कुन्दावदेति ॥ तव वपुः विभ्राजते-शोभते । कथम्भूतं वपुः ? कुन्दावदातचलचामरचारुशोभं, कुन्दवत् अवदाते - चले चामरे, ताभ्यां चारु प्रधाना शोभा यस्य तत् । कथम्भूतं वपुः ? कलधौतकान्तं । कलधौतवत् कान्तं कलधौतकान्तम् वपुः । कमिव ? सुरगिरेः उच्चस्तटमिव । कथम्भूतं तटम् ? शातकौम्भं । पुनः कथम्भूतं तटं ? उद्यच्छशाङ्कशुचिनिर्झरवारिधारं । उद्यत् चासौ शशाङ्कश्च उद्यच्छशाङ्क: तद्वत् शुचयो निर्मला वारिधारा यस्य तत् ॥३०॥
Page #10
--------------------------------------------------------------------------
________________
डिसेम्बर-२००९
छत्रेति ॥ उच्चैःस्थितं तव छत्रत्रयं विभाति-शोभते । कथम्भूतं छत्रं ? शशाङ्ककान्तं-शशाङ्कवत् मनोहरमित्यर्थः । पुनः कथम्भूतं छत्रम् ? स्थगित भानुकरप्रतापं, स्थगितः आच्छादितः-भानुकराणां प्रतापो येन तत् । पुनः कथम्भूतं छत्रम् ? मुक्ताफलप्रकरजालविवृद्धशोभम् । मुक्ताफलानां प्रकराः मुक्ताफलप्रकराः तेषां जालेन विवृद्धा शोभा यस्य तत् । उत्प्रेक्षते-छत्रत्रयं किं कुर्वत् इव ? त्रिजगतः परमेश्व[र]त्वं प्रख्यापयत् इव ॥३१॥
उन्निद्रेति ॥ हे जिनेन्द्र ! तव पादौ यत्र भूमौ पदानि गमनस्थानरूपाणि धत्तोधारयतः,विबुधा देवास्तत्र धरापीठे पद्मानि रचयन्ति । किंविशिष्टौ पादौ ? उन्निद्रहेमनवपङ्कजपुञ्जकान्तिः । उन्निद्रानि विकश्वराणि हेम्नः नवानि नूतनानि नवसंख्यकानि वा पङ्कजानि उन्निद्रहेमनवपङ्कजानि तेषां पुञ्ज उन्निद्रहेमनवपङ्कजपुञ्जस्तस्य कान्तिः उन्निद्रहेमनवपङ्कजपुञ्जकान्तिः तया पर्युल्लसन्ती नखमयूखानां शिखा उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखा तया अभिरामौ ॥३२॥
इत्थमिति ॥ हे जिनेन्द्र ! धर्मोपदेशनविधौ यथा तव विभूतिः इत्थं अभूत् तथा अपरस्य न । अथ उक्तमर्थमर्थान्तरन्यासेन द्रढयति - याक् दिनकृतः-सूर्यस्य प्रभा भवति तादृक् ग्रहगणस्य कुतः ? कथम्भूता दिनकृतः? प्रहतान्धकारा, प्रकर्षेण हतं अन्धकारं यया सा प्रहतान्धकारा । ग्रहगणस्य कथम्भूतस्यापि ? विकाशिन:-अपि । विकासो विद्यते यस्य स विकाशी, तस्य विकाशिनः ॥३३॥
। श्च्योतन्मदेति ॥ हे स्वामिन् ! भवत्-आश्रितानां-भवत्-सेवकानां, इभं-हस्तिनं आपतन्तं दृष्ट्वा भयं न भवति । कथम्भूतं इभं ? उद्धतम् । उत्कटमित्यर्थः । पुनः कथम्भूतं इभं ? ऐरावताभं ऐरावत इव आभाकान्तिर्यस्येति ऐरावताभस्तं ऐरावताभं । पुनः कथम्भूतं इभम् ?, श्च्योतन्मदा-विलविलोलकपोलमूलं, मत्तभ्रमभ्रमरनादविवृद्धकोपम् । श्च्योतंश्चासौ मदः श्च्योतन्मदः, तेन आविलं च तत् विलोलकपोलमूलं श्च्योतन्मदाविलविलोलक-पोलमूलं । मत्ताश्च ते भ्रमन्तो भ्रमराश्च श्च्योतन्मदाविलविलोलकपोल-मूलमत्तभ्रमभ्रमराः । तेषां नादेन विवृद्धः कोपो यस्य स श्च्योतन्मदाविल-विलोलकपोलमूलमत्तभ्रमद्भ्रमरनादविवृद्धकोपस्तम् ॥३४॥
Page #11
--------------------------------------------------------------------------
________________
३४
अनुसन्धान-५०
भिन्नेति ॥ हरिणाधिपः - सिंहः, अपि ते-तव क्रमयुगाचलसंश्रितं नाक्रामति । क्रमयोर्युगं-क्रमयुगं तदेव अचलः [तं संश्रितः] क्रमयुगाचलसंश्रितः, तं क्रमयुगाचलसंश्रितम् । कथम्भूतः हरिणाधिपः ? बद्धफालः । कथम्भूतं सेवकं? क्रमगतं-समीपप्राप्तम् । पुनः कथम्भूतः हरिणाधिपः ? भिन्नेभकुम्भगलदुज्वलशोणिताक्त-मुक्ताफलप्रकरभूषितभूमिभागः । भिन्नाश्च ते इभकुम्भाश्च भिन्ने भकुम्भास्ते भ्यो गलत् क्षरच्च तत् उज्ज्वलं शोणितं च भिन्नेभकुम्भगलदुज्जूल-शोणितं, तेन अक्तो-मिलितो मुक्ताफलानां प्रकरः भिन्नेभकुम्भगलदुज्वलशोणिताक्त-मुक्ताफलप्रकरस्तेन भूषितो भूमिभागो येन सः ॥३५॥
__ कल्पान्तेति ॥ हे स्वामिन् ! त्वन्नामकीर्तनजलं शेषं समस्तं दावानलं शमयति । तव नाम त्वन्नाम त्वन्नाम्नः कीर्तनजलं-त्वन्नामकीर्तनजलम् । कथम्भूतं दावानलं ? कल्पान्तकालपवनोद्धतवह्निकल्पम् । कल्पान्तकालस्य पवनेन उद्धतश्चासौ वह्निश्च तेन कल्पः कल्पान्तकालपवनोद्धतवह्निकल्पस्तम् । पुनः कथम्भूतं दावानलं ? ज्वलितं-देदीप्यमानमित्यर्थः । कथम्भूतं दावानलम् ? उज्ज्वलम्, निर्धूममित्यर्थः । पुनः कथम्भूतं दावानलम् ? उत्स्फुलिङ्गं । उत्ऊर्ध्वा स्फुलिङ्गा यस्य स उत्स्फुलिङ्गस्तम् । पुनः कथम्भूतं । सन्मुखं आपतन्तंआगच्छन्तं दावानलम् । किं कर्तुमिच्छन्तं इव ? । विश्वं जिघत्सुं इव, अत्तुमिच्छु: जिघत्सुः तं जिघत्सुम् ॥३६।।
रक्तेक्षणमिति ॥ हे जिन ! यस्य पुंसः हृदि त्वन्नामनागदमनी ऽस्ति स पुरुषः निरस्तशङ्कः सन्-निःशङ्कः सन् क्रमयुगेन-चरणयुगेन फणिनं आपतन्तंआगच्छन्तं आक्रामति-निवारयति । तव नाम - त्वन्नाम त्वन्नामनागदमनी जटिका । कथम्भूतं फणिनं ? उत्फणिनं (उत्फणं) । उत्-ऊर्ध्वं फणो यस्य स उत्फणस्तम् । पुनः कथम्भूतं फणिनम् ? रक्तेक्षणं; रक्ते ईक्षणे यस्य स रक्तेक्षणस्तम् । पुनः कथम्भूतं फणिनम् ? समदकोकिलकण्ठनीलं । समदश्चासौ कोकिलश्च समदकोकिलस्तस्य कण्ठवन्नीलः समदकोकिलकण्ठनीलस्तम् । पुनः कथम्भूतं फणिनं ? क्रोधोद्धतं क्रोधेन उद्धतः उत्कटः क्रोधोद्धतस्तम् ॥३७॥
वल्गेति ॥ हे जिन ! त्वत्कीर्तनाद, बलवतामपि भूपतीनां-राजानां (राज्ञां) बलं-कटकं, आजौ-रणे आशु-शीघ्रं भिदां-भेदं उपैति-प्राप्नोति ।
Page #12
--------------------------------------------------------------------------
________________
डिसेम्बर-२००९
कथम्भूतं बलम् ? वल्गत्तुरङ्गगजगर्जितभीमनादं । वल्गत्तुरङ्गाश्च गजानां गर्जितानि वल्गत्तुरङ्गगजगजितानि तैः भीमो नादो यस्मिन् तत् । धावमानअश्वगजगारवभीषण-अव्यक्तशब्दे । उत्प्रेक्षते-बलं कमिव ? उद्यदिवाकरमयूखशिखापविद्धं । तम इव-अन्धकारं इव । उद्यंश्चासौ दिवाकरश्च उद्यदिवाकरस्तस्य मयूखा:किरणास्तेषां शिखाभिः अपविद्धं-स्फुटितं उद्यद्दिवाकरमयूखशिखापविद्धं, त्वत्पादपङ्कजवनायिणः युद्धे जयं लभन्ते । तव पादपङ्कजे-त्वत्पादपङ्कजे, ते एव वनं त्वत्पादपङ्कजवनं, तस्य आश्रयः-शरणं येषां ते त्वत्पादपङ्कजवनाश्रयिणः । कथम्भूते युद्धे ? कुन्ताग्रभिन्नगजशोणितवारिवाह-वेगावतारतरणातुरयोधभीमे । कुन्तानां अग्राणि कुन्ताग्राणि तैभिन्नाश्च ते गजाश्च कुन्ताग्रभिन्नगजास्तेषां, शोणितो वारिवाहो-रुधिरमेघस्तेन यो वेगावतारो नदीप्रवाहः कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारस्तस्य तरणे-आतुराश्चपलाश्च ते योधाश्च कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधाः, तैर्भीमं कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधभीमे । कथम्भूताः ? त्वत्पाद० ? विजितदुर्जयजेयपक्षाः, विशेषेण जितः दुर्जयो जेयपक्षो यैस्ते विजितदुर्जयजेयपक्षाः ॥३९॥
__अम्भोनिधौ इति ॥ हे स्वामिन् ! भवतः स्मरणाद् अम्भोनिधौ रङ्गत्तरङ्गशिखरस्थितयानपात्राः त्रासं विहाय पारं व्रजन्ति । रङ्गन्तश्च ते तरङ्गास्तेषां शिखरेषु स्थितानि यानपात्राणि येषां ते रङ्गत्तरङ्गशिखरस्थितयानपात्राः । कथम्भूते अम्भोनिधौ ? क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ, क्षुभिताःक्षोभं प्राप्ता ये भीषणाः नक्रचक्रपाठीनपीठा:-क्षुभितभीषणनक्रचक्रपाठीनपीठा यत्र स क्षुभितभीषणनक्रचक्रपाठीनपीठः । तथा भयदोल्बणः प्रकटो वाडवाग्निर्यत्र स भयदोल्बणवाडवाग्निः, क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्निः तस्मिन् ॥४०॥
उद्भूतेति ॥ हे जिन ! मर्त्या त्वत्पादपङ्कजरजोमृतदिग्धदेहाः । पूर्वं ईदृशा अपि मकरध्वजतुल्यरूपाः कन्दर्पसदृशरूपाः भवन्ति तव पादपङ्कजं त्वत्पादपङ्कजं तस्य रजः त्वत्पादपङ्कजरजः तदेव अमृतं त्वत्पादपङ्कजरजोमृतं तेन दिग्धः-सिक्तः देहो येषां ते त्वत् । मकरध्वजतुल्यं रूपं येषां ते मकर० । कथम्भूता माः ? उद्भूतभीषणजलोदरभारस्तेन भुग्नाः वक्रा उद्भूतभीषणजलोदरभारभुग्नाः । कथम्भूता माः ? शोच्यां दशां उपगताः-प्राप्ताः । पुनः
Page #13
--------------------------------------------------------------------------
________________ 36 अनुसन्धान-५० कथम्भूता माः ? च्युतजीविताशाः, च्युता गता जीवितस्य आशा येभ्यस्ते च्युतजीविताशाः // 41 // आपादकण्ठमिति // हे स्वामिन् ! त्वन्नाममन्त्रं अनिशं-निरन्तरं स्मरन्तः मनुजाः सद्यः स्वयं विगतबन्धभया भवन्ति / विगतं बन्धभयं येषां ते विगतबन्धभयाः / कथम्भूता मनुजाः ? आपादकण्ठमुरुशृङ्खलानि तैर्वेष्टितानि अङ्गानि येषां ते उरुशृङ्खलवे० / पुनः कथम्भूताः मनुजाः ? गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः / गाढं दृढं बृहन्ति च तानि निगडानि च बृहन्निगडानि तेषां कोटिभिरग्रभागे निघृष्टा जङ्घा येषां ते बृहन्निगडकोटिनिघृष्टजङ्घाः / विशाल अष्टीलाप्रच्चरितजङ्घाः // 42 // मत्तद्विपेन्द्र इति // हे स्वामिन् ! यः मतिमान्-पण्डितः इमं तावकं स्तवं अधीते, तस्य मनुष्यस्य भिया प्रयाति / कथम्भूतं भयम् ? मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनोत्थं / मत्तद्विपेन्द्रश्च मृगराजश्च दवानलश्च अहिश्च सङ्ग्रामश्च वारिधिश्च महो दरश्च बन्धनं च मत्तद्विपेन्द्रमृगराजदवानलाहि-सङ्ग्रामवारिधिमहोदरबन्धनानि तेभ्यः उत्थं-प्रकटितं मत्तद्विपेन्द्रमृगराजदवानलाहि-सङ्ग्रामवारिधि-महोदरबन्धनोत्थम् // 43 // स्तोत्रस्रजमिति // हे जिनेन्द्र ! जिनानां सामान्यकेवलिनां इन्द्रः = जिनेन्द्रः तत्सम्बोधनं क्रियते हे जिनेन्द्र ! / यः मनुष्यः इह तव स्तोत्रस्रजं = स्तोत्रमालां कण्ठगतां सती अस्रजं(अजा)-निरन्तरं धत्ते / तं मानवं लक्ष्मीः समुपैति-समागच्छति / कथम्भूतं तं ? मानतुझं मानेन तुझं मानतुङ्गम् / कथम्भूता लक्ष्मीः ? अवशा-निश्चला / कथम्भूतां स्तोत्रस्रजं ? गुणैः मया भक्त्या निबद्धां-रचितामित्यर्थः / पुनः कथम्भूतां स्तोत्रस्रजं ? रुचिरवर्णविचित्रपुष्पां रुचिराश्च ते वर्णाश्च रुचिरवर्णास्ते एव विचित्राणि पुष्पाणि यस्यां सा रुचिरवर्णविचित्रपुष्पा तां रुचिरवर्णविचित्रपुष्पां, मनोहराक्षरकुसुमामित्यर्थः // 44 / / इति श्री भक्तामरकाव्यस्य सुखबोधिका वृत्तिः समाप्ताः // -X