________________
२८
अनुसन्धान-५० त्वं रचितः
हे त्रिभुवनैकललामभूत ! यैः परमाणुभिः निर्मापित: असि । खलु-निश्चयेन, तेऽणवः ऽपि - ते परमाणु (ण) व: अपि, पृथिव्यां तावन्त एव हि इति निश्चयेन । यत् - यस्मात् कारणात्, ते तव समानं अपरं रूपं नास्ति । त्रिभुवनस्य एकं च तत् ललाम च त्रिभुवनैकललामत्रिभुवनैकललामभूत !। कथम्भूतैः परमाणुभिः ? शान्तरागरुचिभिः, शान्तरागस्यशान्तरसस्य रुचिर्येषां ते शान्तरुचयस्तैः, ऽथवा शान्ता-दूरीभूताः रागस्य रुचिर्येभ्यस्ते शान्तरागरुचयस्तैः ॥१२॥
1
वक्त्रमिति । हे स्वामिन् ! ते तव वक्त्रं क्व ? च- पुनः तत् निशाकरस्य-चन्द्रस्य बिम्बं क्व ? | यत् निशाकरस्य बिम्बं वासरे पाण्डुपलासकल्पं भवति । पाण्डु च तत् पलाशं पाण्डुपलाशं, पाण्डुपलाशेन कल्पं पाण्डु– पलाशकल्पं, कथम्भूतं वक्त्रं ? सुरनरोरगनेत्रहारि । सुराश्च नराश्च उरगाश्च सुरनरोरगा:, तेषां नेत्रानि (णि) हरन्तीति एवं शीलं सुरनरोरगनेत्रहारि । पुनः कथम्भूतं वक्त्रम् ? निश्शेषनिज्जित - जगत्त्रितयोपमानम् । निश्शेषेण निज्जितं जगत्त्रये उपमानं येन तत् निश्शेषनिज्जितजगत्त्रितयोपमानम् । कथम्भूतं बिम्बं ? कलङ्कमलिनम् ? कलङ्केन मलिनं कलङ्कमलिनम् ॥१२॥
सम्पूर्णेति ॥ हे त्रिजगदीश्वर ! तव गुणाः त्रिभुवनं लङ्घयन्तिऽतिक्रामन्ति । त्रीणि च तानि जगन्ति च त्रिजगन्ति त्रिजगतां ईश्वरः त्रिजगदीश्वरः तत्सम्बोधनं हे त्रिजगदीश्वर !। कथम्भूता गुणा: ? सम्पूर्णमण्डलशशाङ्ककलाकलापशुभ्राः । सम्पूर्णं मण्डलं यस्य सः सम्पूर्णमण्डलश्चासौ शशाङ्कश्च सम्पूर्णमण्डलशशाङ्कस्तस्य कलाकलापः सम्पूर्णमण्डलशशाङ्ककलाकलाप:, तद्वत् शुभ्राः । ये मनुष्या एकनाथं संश्रितान् ( संश्रितास्तान्) यथेष्टं सञ्चरतः कः निवारयति ? ॥१४॥
चित्रमिति ॥ हे जिन ! यदि त्रिदशाङ्गनाभि: ते-तव मनः मनाक् अपि-स्तोकमपि विकारमार्गं न नीतं, अत्र किं चित्रम् ? । उक्तमर्थमर्थान्तरन्यासेन द्रढयति-कल्पान्तकालमरुता किं मन्दराद्रिशिखरं कदाचित् चलितम् ? कथम्भूतेन कल्पान्तमरुता ? चलिता अचला यस्मात् स चलिताचलस्तेन चलिताचलेन ॥१५॥
निर्धूमवर्त्तीति ॥ हे नाथ ! त्वं अपरदीपः ऽसि । कथम्भूतः त्वं