________________ 36 अनुसन्धान-५० कथम्भूता माः ? च्युतजीविताशाः, च्युता गता जीवितस्य आशा येभ्यस्ते च्युतजीविताशाः // 41 // आपादकण्ठमिति // हे स्वामिन् ! त्वन्नाममन्त्रं अनिशं-निरन्तरं स्मरन्तः मनुजाः सद्यः स्वयं विगतबन्धभया भवन्ति / विगतं बन्धभयं येषां ते विगतबन्धभयाः / कथम्भूता मनुजाः ? आपादकण्ठमुरुशृङ्खलानि तैर्वेष्टितानि अङ्गानि येषां ते उरुशृङ्खलवे० / पुनः कथम्भूताः मनुजाः ? गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः / गाढं दृढं बृहन्ति च तानि निगडानि च बृहन्निगडानि तेषां कोटिभिरग्रभागे निघृष्टा जङ्घा येषां ते बृहन्निगडकोटिनिघृष्टजङ्घाः / विशाल अष्टीलाप्रच्चरितजङ्घाः // 42 // मत्तद्विपेन्द्र इति // हे स्वामिन् ! यः मतिमान्-पण्डितः इमं तावकं स्तवं अधीते, तस्य मनुष्यस्य भिया प्रयाति / कथम्भूतं भयम् ? मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनोत्थं / मत्तद्विपेन्द्रश्च मृगराजश्च दवानलश्च अहिश्च सङ्ग्रामश्च वारिधिश्च महो दरश्च बन्धनं च मत्तद्विपेन्द्रमृगराजदवानलाहि-सङ्ग्रामवारिधिमहोदरबन्धनानि तेभ्यः उत्थं-प्रकटितं मत्तद्विपेन्द्रमृगराजदवानलाहि-सङ्ग्रामवारिधि-महोदरबन्धनोत्थम् // 43 // स्तोत्रस्रजमिति // हे जिनेन्द्र ! जिनानां सामान्यकेवलिनां इन्द्रः = जिनेन्द्रः तत्सम्बोधनं क्रियते हे जिनेन्द्र ! / यः मनुष्यः इह तव स्तोत्रस्रजं = स्तोत्रमालां कण्ठगतां सती अस्रजं(अजा)-निरन्तरं धत्ते / तं मानवं लक्ष्मीः समुपैति-समागच्छति / कथम्भूतं तं ? मानतुझं मानेन तुझं मानतुङ्गम् / कथम्भूता लक्ष्मीः ? अवशा-निश्चला / कथम्भूतां स्तोत्रस्रजं ? गुणैः मया भक्त्या निबद्धां-रचितामित्यर्थः / पुनः कथम्भूतां स्तोत्रस्रजं ? रुचिरवर्णविचित्रपुष्पां रुचिराश्च ते वर्णाश्च रुचिरवर्णास्ते एव विचित्राणि पुष्पाणि यस्यां सा रुचिरवर्णविचित्रपुष्पा तां रुचिरवर्णविचित्रपुष्पां, मनोहराक्षरकुसुमामित्यर्थः // 44 / / इति श्री भक्तामरकाव्यस्य सुखबोधिका वृत्तिः समाप्ताः // -X