________________
अनुसन्धान-५०
समस्तैर्गणैः, त्वं निरवकाशतया-नैरन्तर्येण संश्रितः, दोषैः स्वप्नान्तरेपि कदाचित् ऽपि न ईक्षितः-विलोकितः ऽसि, अत्र को विस्मयः?-किमाश्चर्यम् ?। कथम्भूतैः दोषैः ? उपात्तविबुधाश्रयजातगर्वैः । उपात्तः-अङ्गीकृतो यो विबुधानां अन्यदेवानां आश्रयः उपात्तविबुधाश्रयस्तेन जातगर्वो येषां ते उपात्तविबुधाश्रय-जातगस्तैिः । अथवा उपात्तो यो विविधाश्रयो नानाप्रकार आश्रय उपात्तविविधाश्रय स्तेन जातः गर्वो येषां ते उपात्तविविधाश्रयजातगस्तेि । कोऽर्थः ? यदा हि त्वं सम्पूर्णैर्गुणैः कृत्वा निरन्तरत्वेन आश्रितः तदा दोषाणां रच्यतं वशीरे (तव शरीरे) स्थानाभावात् दोषैविचारितं - "अत्र चेदस्माकं स्थानं नास्ति, तदस्माकं अपरदेवानां शरीरं वर्तते' इति विचार्य दोषा अपरदेवेषु स्थित्वा गर्वं चक्रुरित्यर्थः ॥२७॥
उच्चैरिति ॥ हे स्वामिन् ! उच्चैः अशोकतरुसंश्रितम् । उन्नताशोकवृक्ष समीपाश्रितं भवतो रूपं नितान्तं-अत्यन्तं विभाति । कथम्भूतं रूपं ? उन्मयूखम् । - उद्गतकिरणम् । उत्प्रेक्षते-भवतो रूपं किमिव ? पयोधरपार्श्ववर्त्ति-मेघसमीपस्थितं रवेः-सूर्यस्य बिम्बमिव । कथम्भूतं बिम्बं ? रवेबिम्बस्य स्पष्टोल्लसत्किरणं - स्पष्टा:-प्रकटाः, उल्लसन्तः किरणा यस्य तत् । पुनः कथम्भूतं ? अस्ततमोवितानम् । अस्तं तमोवितानं येन तत् अस्ततमोवितानम् ॥२८॥
सिंहेति ॥ हे स्वामिन् ! तव वपुः सिंहासने विभ्राजते-शोभते इत्यर्थः । कथम्भूते सिंहासणि(ने)मणिमयूखशिखाविचित्रे । मणिकिरणसूचीभिः रमणीये । किंविशिष्टं वपुः ? कनकावदातम् । स्वर्णवद् गौरं । इव इति उत्प्रेक्ष्यते, कस्मिन्, कं इव ? तुङ्गोदयाद्रिशिरसि सहस्ररश्मेः । सूर्यस्य बिम्बं इव । तुङ्गं च तत् उदयाद्रेः शिरश्च तुङ्गोदयाद्रिशिरस्तस्मिन् । कथम्भूतं ? सहस्ररश्मेः वियति-आकाशे विलसत्-अंशुलतावितानं यस्य तत् ॥२९॥
कुन्दावदेति ॥ तव वपुः विभ्राजते-शोभते । कथम्भूतं वपुः ? कुन्दावदातचलचामरचारुशोभं, कुन्दवत् अवदाते - चले चामरे, ताभ्यां चारु प्रधाना शोभा यस्य तत् । कथम्भूतं वपुः ? कलधौतकान्तं । कलधौतवत् कान्तं कलधौतकान्तम् वपुः । कमिव ? सुरगिरेः उच्चस्तटमिव । कथम्भूतं तटम् ? शातकौम्भं । पुनः कथम्भूतं तटं ? उद्यच्छशाङ्कशुचिनिर्झरवारिधारं । उद्यत् चासौ शशाङ्कश्च उद्यच्छशाङ्क: तद्वत् शुचयो निर्मला वारिधारा यस्य तत् ॥३०॥