Book Title: Bhaktamarstava Sukhbodhika Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ ३४ अनुसन्धान-५० भिन्नेति ॥ हरिणाधिपः - सिंहः, अपि ते-तव क्रमयुगाचलसंश्रितं नाक्रामति । क्रमयोर्युगं-क्रमयुगं तदेव अचलः [तं संश्रितः] क्रमयुगाचलसंश्रितः, तं क्रमयुगाचलसंश्रितम् । कथम्भूतः हरिणाधिपः ? बद्धफालः । कथम्भूतं सेवकं? क्रमगतं-समीपप्राप्तम् । पुनः कथम्भूतः हरिणाधिपः ? भिन्नेभकुम्भगलदुज्वलशोणिताक्त-मुक्ताफलप्रकरभूषितभूमिभागः । भिन्नाश्च ते इभकुम्भाश्च भिन्ने भकुम्भास्ते भ्यो गलत् क्षरच्च तत् उज्ज्वलं शोणितं च भिन्नेभकुम्भगलदुज्जूल-शोणितं, तेन अक्तो-मिलितो मुक्ताफलानां प्रकरः भिन्नेभकुम्भगलदुज्वलशोणिताक्त-मुक्ताफलप्रकरस्तेन भूषितो भूमिभागो येन सः ॥३५॥ __ कल्पान्तेति ॥ हे स्वामिन् ! त्वन्नामकीर्तनजलं शेषं समस्तं दावानलं शमयति । तव नाम त्वन्नाम त्वन्नाम्नः कीर्तनजलं-त्वन्नामकीर्तनजलम् । कथम्भूतं दावानलं ? कल्पान्तकालपवनोद्धतवह्निकल्पम् । कल्पान्तकालस्य पवनेन उद्धतश्चासौ वह्निश्च तेन कल्पः कल्पान्तकालपवनोद्धतवह्निकल्पस्तम् । पुनः कथम्भूतं दावानलं ? ज्वलितं-देदीप्यमानमित्यर्थः । कथम्भूतं दावानलम् ? उज्ज्वलम्, निर्धूममित्यर्थः । पुनः कथम्भूतं दावानलम् ? उत्स्फुलिङ्गं । उत्ऊर्ध्वा स्फुलिङ्गा यस्य स उत्स्फुलिङ्गस्तम् । पुनः कथम्भूतं । सन्मुखं आपतन्तंआगच्छन्तं दावानलम् । किं कर्तुमिच्छन्तं इव ? । विश्वं जिघत्सुं इव, अत्तुमिच्छु: जिघत्सुः तं जिघत्सुम् ॥३६।। रक्तेक्षणमिति ॥ हे जिन ! यस्य पुंसः हृदि त्वन्नामनागदमनी ऽस्ति स पुरुषः निरस्तशङ्कः सन्-निःशङ्कः सन् क्रमयुगेन-चरणयुगेन फणिनं आपतन्तंआगच्छन्तं आक्रामति-निवारयति । तव नाम - त्वन्नाम त्वन्नामनागदमनी जटिका । कथम्भूतं फणिनं ? उत्फणिनं (उत्फणं) । उत्-ऊर्ध्वं फणो यस्य स उत्फणस्तम् । पुनः कथम्भूतं फणिनम् ? रक्तेक्षणं; रक्ते ईक्षणे यस्य स रक्तेक्षणस्तम् । पुनः कथम्भूतं फणिनम् ? समदकोकिलकण्ठनीलं । समदश्चासौ कोकिलश्च समदकोकिलस्तस्य कण्ठवन्नीलः समदकोकिलकण्ठनीलस्तम् । पुनः कथम्भूतं फणिनं ? क्रोधोद्धतं क्रोधेन उद्धतः उत्कटः क्रोधोद्धतस्तम् ॥३७॥ वल्गेति ॥ हे जिन ! त्वत्कीर्तनाद, बलवतामपि भूपतीनां-राजानां (राज्ञां) बलं-कटकं, आजौ-रणे आशु-शीघ्रं भिदां-भेदं उपैति-प्राप्नोति ।

Loading...

Page Navigation
1 ... 9 10 11 12 13