Book Title: Bhaktamarstava Sukhbodhika Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ डिसेम्बर-२००९ छत्रेति ॥ उच्चैःस्थितं तव छत्रत्रयं विभाति-शोभते । कथम्भूतं छत्रं ? शशाङ्ककान्तं-शशाङ्कवत् मनोहरमित्यर्थः । पुनः कथम्भूतं छत्रम् ? स्थगित भानुकरप्रतापं, स्थगितः आच्छादितः-भानुकराणां प्रतापो येन तत् । पुनः कथम्भूतं छत्रम् ? मुक्ताफलप्रकरजालविवृद्धशोभम् । मुक्ताफलानां प्रकराः मुक्ताफलप्रकराः तेषां जालेन विवृद्धा शोभा यस्य तत् । उत्प्रेक्षते-छत्रत्रयं किं कुर्वत् इव ? त्रिजगतः परमेश्व[र]त्वं प्रख्यापयत् इव ॥३१॥ उन्निद्रेति ॥ हे जिनेन्द्र ! तव पादौ यत्र भूमौ पदानि गमनस्थानरूपाणि धत्तोधारयतः,विबुधा देवास्तत्र धरापीठे पद्मानि रचयन्ति । किंविशिष्टौ पादौ ? उन्निद्रहेमनवपङ्कजपुञ्जकान्तिः । उन्निद्रानि विकश्वराणि हेम्नः नवानि नूतनानि नवसंख्यकानि वा पङ्कजानि उन्निद्रहेमनवपङ्कजानि तेषां पुञ्ज उन्निद्रहेमनवपङ्कजपुञ्जस्तस्य कान्तिः उन्निद्रहेमनवपङ्कजपुञ्जकान्तिः तया पर्युल्लसन्ती नखमयूखानां शिखा उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखा तया अभिरामौ ॥३२॥ इत्थमिति ॥ हे जिनेन्द्र ! धर्मोपदेशनविधौ यथा तव विभूतिः इत्थं अभूत् तथा अपरस्य न । अथ उक्तमर्थमर्थान्तरन्यासेन द्रढयति - याक् दिनकृतः-सूर्यस्य प्रभा भवति तादृक् ग्रहगणस्य कुतः ? कथम्भूता दिनकृतः? प्रहतान्धकारा, प्रकर्षेण हतं अन्धकारं यया सा प्रहतान्धकारा । ग्रहगणस्य कथम्भूतस्यापि ? विकाशिन:-अपि । विकासो विद्यते यस्य स विकाशी, तस्य विकाशिनः ॥३३॥ । श्च्योतन्मदेति ॥ हे स्वामिन् ! भवत्-आश्रितानां-भवत्-सेवकानां, इभं-हस्तिनं आपतन्तं दृष्ट्वा भयं न भवति । कथम्भूतं इभं ? उद्धतम् । उत्कटमित्यर्थः । पुनः कथम्भूतं इभं ? ऐरावताभं ऐरावत इव आभाकान्तिर्यस्येति ऐरावताभस्तं ऐरावताभं । पुनः कथम्भूतं इभम् ?, श्च्योतन्मदा-विलविलोलकपोलमूलं, मत्तभ्रमभ्रमरनादविवृद्धकोपम् । श्च्योतंश्चासौ मदः श्च्योतन्मदः, तेन आविलं च तत् विलोलकपोलमूलं श्च्योतन्मदाविलविलोलक-पोलमूलं । मत्ताश्च ते भ्रमन्तो भ्रमराश्च श्च्योतन्मदाविलविलोलकपोल-मूलमत्तभ्रमभ्रमराः । तेषां नादेन विवृद्धः कोपो यस्य स श्च्योतन्मदाविल-विलोलकपोलमूलमत्तभ्रमद्भ्रमरनादविवृद्धकोपस्तम् ॥३४॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13