Book Title: Bhaktamarstava Sukhbodhika Vrutti Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 8
________________ डिसेम्बर-२००९ ३१ त्वामव्ययमिति ॥ हे स्वामिन् ! सन्तः-सज्ज्ञानाः त्वां अव्ययं-न विद्यते व्ययो यस्य स अव्ययस्तं अव्ययम्, अवसिनं प्रवदन्ति, कथयन्ति । पुनः त्वां विभुं-समर्थं प्रवदन्ति । पुनः त्वां अचिन्त्यं प्रवदन्ति । पुनः त्वां असंख्यं-संख्यारहितं प्रवदन्ति । पुनः त्वां ब्रह्माणं प्रवदन्ति । पुनः त्वां ईश्वरंस्वामिनं प्रवदन्ति । पुनः त्वां अनन्तं-न विद्यते अन्तो यस्य स अनन्तस्तं प्रवदन्ति । अनेककंदर्पेषु केतुरिव केतुः अनङ्गकेतुस्तम् कंदर्पदाहं च । पुनः त्वां योगीश्वरं प्रवदन्ति । पुनः त्वां अनेकं प्रवदन्ति । पुनः त्वां एकं प्रवदन्ति । पुनः त्वां अमलं ज्ञानस्वरूपं प्रवदन्ति । ज्ञानं स्वरूपं यस्य स ज्ञानस्वरूपस्तम् ॥२४॥ बुद्ध इति ॥ हे स्वामिन् ! बुद्धदर्शनिनां देवः त्वं एव असि । कस्मात् ? विबुधार्चितबुद्धिबोधात् । विबुधैः-पण्डितैः-देवैर्वा अर्चितः ज्ञानस्य प्रकाशो यस्य स विबुधाचितबुद्धिबोधः, तस्मात् । शङ्करः त्वमसि । भुवनत्रयशङ्करत्वात्, भुवनत्रये शं-सुखं करोतीति भुवनत्रयशङ्करः तस्य भावः भुवनत्रयशङ्करत्वं, तस्मात् । हे धीर ! धाता त्वमसि । कस्मात् ? शिवमार्गविधे:मोक्षमार्गस्य विधेः विधानात् करणात् । हे भगवन् ! व्यक्तं-प्रकटं पुरुषोत्तमः त्वं एव असि । पुरुषेषु उत्तमः पुरुषोत्तमः ॥२५।। तुभ्यमिति ॥ हे नाथ ! तुभ्यं नमः । कथम्भूताय तुभ्यं ? त्रिभुवनातिहराय। त्रीणि च तानि भुवनानि च त्रिभुवनानि, तेषां अर्त्ति हरतीति त्रिभुवनातिहरस्तस्मै । पुनः हे नाथ ! तुभ्यं नमः । कथम्भूताय तुभ्यम् ? क्षितितलस्य अमलं च तद् भूषणं च क्षितितलामलभूषणम्, तस्मै क्षितितलामलभूषणाय । पुनः हे नाथ ! तुभ्यं [नमः । कथम्भूताय तुभ्यम् ?]; त्रिजगतः परमेश्वराय । त्रयाणां जगतां समाहारस्त्रिजगत् तस्य त्रिजगतः । परश्चासौ ईश्वरश्च परमेश्वरस्तस्मै परमेश्वराय । पुनः हे जिन ! तुभ्यं नमः । कथम्भूताय तुभ्यं ? भवोदधिशोषणाय । भव एव उदधिः, तं शोषयन्ती- (ती)ति भवोदधिशोषणस्तस्मै । अथवा जनानां भवोदधिः जनभवोदधिस्तं शोषयन्ती(ती)ति जनभवोदधिशोषणस्तस्मै ॥२६॥ को विस्मयेति ॥ हे मुनीश ! मुनीनां - ईशः मुनीशः तत्सम्बोधनं क्रियते-हे मुनीश! । नाम इति प्रसिद्धौ । हे स्वामिन् ! यदि अशेषैः -Page Navigation
1 ... 6 7 8 9 10 11 12 13