Book Title: Bhaktamarstava Sukhbodhika Vrutti Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 7
________________ ३० अनुसन्धान-५० च तानि तानि शालिवनानि च निष्पन्नशालिवनानि तैः शालते - शोभते इत्येवं शीलं निष्पन्नशालिवनशालि तस्मिन् । कथम्भूतैः मेघैः ? जलभारनमैः । जलस्य भारेण नम्राः तैः जलभारनम्रैः ॥१९॥ ज्ञानमिति ॥ हे स्वामिन् ! त्वयि यथा ज्ञानं विभाति तथा-एवं हरिहरादिषु नायकेषु न विभाति । कथम्भूतं ज्ञानं ? कृतावकाशं । कृतः अवकाशो येन तत् कृतावकाशस्तम् । उक्तमर्थमर्थान्तरन्यासेन द्रढयति - स्फुरन् मणिषु तेज:-प्रभा यथा महत्त्वं - गौरवं याति प्राप्नोति, तु-पुनः एवं काचशकले न याति । स्फुरन्तो ये मणयः स्फुरन्मणय:, तेषु, भास्वद्वैडूर्य-पुष्परागेन्द्रनीलादिरत्नेषु । काचशकले कथम्भूतेऽपि ? किरणाकुले अपि । किरणैः आकुलं किरणाकुलं तस्मिन् किरणाकुले अपि ॥२०॥ मन्येति ॥ हे स्वामिन् ! हरिहरादय एव दृष्टा - विलोकिता वरं प्रधानं, अहं एवं मन्ये । येषु सुरेषु दृष्टेषु, हृदयं - चित्तं त्वयि - भवद्विषये, तोषं - प्रमोदं एति - प्राप्नोतीत्यर्थः । हे नाथ ! भवता वीक्ष्य (क्षि) तेनावलोकितेन किम् ? येन भवता वीक्ष्य ( क्षि) तेन भुवि - पृथिव्यां ऽन्यः कश्चिन्मनः भवान्तरेऽपि न हरति ॥२१॥ स्त्रीणामिति ॥ हे स्वामिन् ! स्त्रीणां शतानि शतशः पुत्रान् जनयन्ति । त्वदुपमं सुतं अन्या जननी न प्रसूता । उक्तमर्थमर्थान्तरन्यासेन द्रढयति-सर्वा दिशः भानि-नक्षत्राणि दधति - धारयन्ति । सहस्ररश्मि सूर्यं प्राची एव दिग्-पूर्वा एव दिग् जनयति । सहस्र (स्रा ) रश्मयो यस्य स सहस्ररश्मिस्तम् । किम् ? सहस्ररश्मि स्फुरदंशुजालं स्फुरत्-देदीप्यमानं अंशूनां - किरणानां जालं यस्य स स्फुरदंशुजालस्तं ॥२२॥ त्वमिति ॥ हे स्वामिन् ! मुनय:- ज्ञानिनः त्वां परमं पुमांसं-पुरुषं आमनन्ति-कथयन्ति । हे स्वामिन् ! तमसः पुरस्तात् - अन्धकारस्याग्रे अर्थात् मध्यान्धकारस्य अमलं निर्मलं आदित्यवर्णं -सूर्यरूपं आमनन्ति । हे मुनीन्द्र ! योगिनः त्वां एव सम्यक् उपलभ्य - सम्यक् प्राप्य मृत्युं जयन्ति - कालं निवारयन्ति । हे मुनीन्द्र ! शिवपदस्य मोक्षस्य त्वत्तः - अन्यः शिवः पन्था न निरुपद्रवो मार्गो न ॥२३॥Page Navigation
1 ... 5 6 7 8 9 10 11 12 13